श्रीनिवासः (सङ्गीतग्रन्थरचयिता)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्रीनिवास:।

अस्य विषये अधिकं विवरणं न लब्धम्।१८शतकस्य पूर्वार्धे अयं जात:, उत्तरार्धे च दिवङ्गत:।तेन लिखित: रागतत्त्वविबोध: इति ग्रन्थ: महत्त्वपूर्ण:।ग्रन्थेऽस्मिन् अहोबलस्य विचाराणामनुसरणं दृश्यते।अहोबलस्य सङ्गीतपारिजातग्रन्थे ते विषया: अस्पष्ट: तथा दुर्बोधा: आसन् तेषां स्पष्टीकरणं श्रीनिवासस्य ग्रन्थे अस्ति।विणाया: तन्तुषु स्वराणां स्थापना अहोबलेन कृता परं तत्रापि या अस्पष्टता आसीत् सा श्रीनिवासेन दूरीकृता। सङ्गीतग्रन्थानां सङ्कलनमिति श्रीनिवासस्य व्यसनमिवासीत्।क्वचित् चौर्येणापि स ग्रन्थान् सङ्कलितवान्! दुर्भाग्यवशात् तस्य गृहमग्नौ भस्मसादभवत्।तत्र सर्वा इयं ग्रन्थसम्पद् नष्टा।

सम्बद्धाः लेखाः[सम्पादयतु]