चन्द्रशेखरशास्त्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



जन्म शिक्षणम् च[सम्पादयतु]

चन्द्रशेखरशास्त्री (Chandrashekhar Shastri) कविः आसीत् । बळ्ळारी-उपमण्डलस्य होललु ग्रामे १८९४ तमे वर्षे जन्म प्राप्तवान् । एषः वाराणस्यां तथा कोलकातानगरे अध्ययनं कृतवान् । संस्कृते पाण्डित्यं प्राप्तवान् एषः १९२४ तमे वर्षे "व्याकरण तीर्थः” इति पदवीं प्राप्तवान् । तदनन्तरं १९२४तः १९३१पर्यन्तं यदुगिरिसंस्कृतमहाविद्यालये प्राध्यापकरूपेण,१९३१ तमवर्षतः १९३८ तमवर्षपर्यन्तं हुब्बळ्ळीनगरस्थे श्रीजगद्गुरुगङ्गाधरमहाविद्यालये प्राध्यापकरूपेण सेवां कृतवान् ।

बिरुदाः[सम्पादयतु]

चन्द्रशेखरशास्त्रिमहोदयः वीरशैवसाहित्यस्य समग्रं अध्ययनं कृतवान् ।भारतीयधर्मान् तथा भारतीयदर्शनानि च गभीरतया अध्ययनं कृत्वा "आर्यसंस्कृतेः प्रतिनिधिः” इति गौरवस्य भाजनः अभवत् । कन्नडव्याकरणे एतस्य बहु पाण्डित्यम् आसीत् । लेखकः, ग्रन्थपरिशोधकः, आदर्शः शिक्षकः, च सन् 'विद्यावारिधिः’, विद्यालङ्कारः’ इत्यादिबिरुदं प्राप्य कन्नडजनानां प्रीतिं सम्पादितवान् । एतस्मै १९६६ तमे वर्षे मैसूरुराज्यसाहित्यअकाडेमीतः पुरस्कारं प्राप्तवान् । १९४० तमे वर्षे प्रचलिते पञ्चविंशतितमकन्नडसाहित्य सम्मेलनस्य अध्यक्षपदवीम् अलङ्कृतवान् ।अखण्डकर्णाटकस्य निर्माणे एतस्य पात्रमपि अस्ति ।

कृतयः[सम्पादयतु]

  • बसवतत्त्वरत्नाकर
  • चाणक्य नीति दर्पण
  • रेणुकाविजयम्
  • मृत्युञ्जयशिवयोगिगळु

इत्येताः चन्द्रशेखरशास्त्रिणः कृतयः ।

"https://sa.wikipedia.org/w/index.php?title=चन्द्रशेखरशास्त्री&oldid=406448" इत्यस्माद् प्रतिप्राप्तम्