देवुडु नरसिंहशास्त्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


देवुडु नरसिंहशास्त्री(Devudu Narasimha Shastri) देवुडु नरसिंहशास्त्री संस्कृतकन्नडभाषयोः प्रकाण्डपण्डितः आसीत् । तस्य भाषाभिमानः, देशाभिमानः च अपारः आसीत् । कर्णाटकस्य कृते, कन्नडभाषायाः च कृते तेन कृता सेवा अविस्मरणीया अस्ति । महाब्राह्मण, महाक्षत्रिय, महादर्शन एताः दार्शनिकसाहित्यस्य कृते एतेन दत्ताः अत्यन्तश्रेष्ठाः कृतयः। एतस्य वैदिकसाहित्यशक्तेः सुगन्धः,वेदधर्मस्य सौन्दर्यं च आकर्णाटकं प्रसृतम् अस्ति । देवुडु कन्नडसारस्वतलोके ध्रुवनक्षत्रम् इव अस्ति । अग्रिमवंशस्य कृते मार्गदर्शकाः सन्ति एतस्य कृतयः । अजेन अस्पृष्टं हरितं नास्ति इव देवुडु सर्वेषु क्षेत्रेषु लिखितवान् । शिशुसाहित्यं, कुमारसाहित्यं (युवेभ्यःलिखितवान्), जानपदसाहित्यं, सण्ण कथेगळु(लघु कथाः),विचारसाहित्यं, नाटकानि, काव्यं, कवनं, कादम्बरी, वैदिकसाहित्यं, पत्रिकोद्यमः, एवं बहुषु साहित्यिकक्षेत्रेषु लिखितवान् अस्ति । सः उत्तमश्रेण्याः भाषान्तरकारः आसीत् । समाजसेवासु तस्य पात्रम् अस्ति एव । "नव जीवन" इति साप्तहिक्याः पत्रिकायाः द्वारा सर्वेभ्यः मार्गदर्शकः जातः देवुडु कश्चित् विशिष्टः । कर्णाटक फिल्म् कार्पोरेषन्, मैसूरु हिन्दिप्रचारसंस्था, कन्नड -साहित्यसमाज, बेङ्गळूरुगान्धिनगरप्रौढशाला, गीर्वाणविद्यापीठम् एवम् अनेकेषां सङ्घसंस्थानां स्थापनेषु सक्रियकार्यकर्ता आसीत् । राजकीय-रङ्गभूमि-चित्रोद्यम-ब्याङ्किग्–संस्कृतिप्रसार-साहित्यरचना-सार्वजनिकशिक्षणम् इत्यादिषु क्षेत्रेषु क्रियाशिलः आसीत् ।आजीवनं सेवां कुर्वाणः बहुमुखप्रतिभान्वितः देवुडु साहित्यसांस्कृतिकक्षेत्रयोः सर्वव्यापी आसीत्।

प्रशस्तयः[सम्पादयतु]

देवुडुवर्यस्य "कर्णाटक संस्कृति” ग्रन्थस्य देवराजबहद्दूर् पारितोषकं, "मीमांसदर्पण”कृतेः मैसूरुमहाराजात् प्रशस्तिपत्रं, तथा "महाब्रह्मण" कृतेः केन्द्रसाहित्य-अकाडमिप्रशस्तिः च प्राप्ता अस्ति ।

जन्म, बाल्यं शिक्षणं च[सम्पादयतु]

१८९६ तमे वर्षे डिसेम्बर्मासस्य २९ तमे दिनाङ्के मङ्गलवासरे मैसूरुनगरस्य साम्प्रदायिकवौदिककुटुम्बे देवुडोः जन्म अभवत् ।बाल्ये एव उत्तमः सांस्कृतिकपरिसरः आसीत् इति कारणतः शिक्षणक्षेत्रे प्रगतिं साधयितुं शक्तवान्। एतस्य १९१२ तमे वर्षे विवाहः जातः। १९२२ तमे वर्षे एम्.ए.पदवीं प्राप्य मैसूरुसद्विद्यापाठशालायां शिक्षकवृत्तिं प्राप्तवान्। ६६वर्षाणि यावत् सार्थकजीवनं यापितवान् देवुडु १९६२ तमे वर्षे अक्टोबर् मासस्य २७ तमे दिनाङ्के शनिवासरे दिवङ्गतः।