केरळस्य सागरपूर्वजलप्रवासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुमारकं प्रदेशस्थं नौकागृहम्
केरळस्य सागरपूर्वजलप्रवासः

केरलराज्ये मानवशिशुः चलनात् पूर्वं तरणं जानाति इति जनाः वदन्ति । यतः समग्रे राज्ये पश्चिमदिशि सगरपूर्वजलाशयाः सन्ति । केरलराज्ये अटनं नाम सम्पूर्णे वने अटनम् इव । सागरपूर्वजलसङ्ग्रहः ( Back Water) सर्वत्र भवति । कोच्ची अलेप्पी इत्यादिक्षेत्रेषु नौकागृहाणि( Floating Homes) च सन्ति । क्वचिt एतत् जलं भागद्वये प्रवहति । तदा मध्ये विद्यमानः भूप्रदेशः महाद्वीपसहशः भवति । अलेप्पीतः अनेकविभागेषु सागरपूर्वजलाशयाः निर्मिताः सन्ति । तेषु गमनम् अतीव आनन्दायकं भवति । अलेप्पीतः केट्टुवल्लं पर्यन्तं नौकागृहेण गन्तुं शक्यते । एतेषु नौकागृहेषु शयनगृहं स्नानगृहं पाकशाला इत्यादिसुव्यवस्थाः भवन्ति । उपरि आगत्य प्रकृतिवीक्षणं कर्तुं शक्यते । अत्र सीफूड् (सागरजन्यजीविभिः निर्मितः आहारः) बहु प्रसिद्धम् । पक्वं मिष्टालुकम् अतीव उत्तमं भवति । पनसफलेन निर्मितं खाद्यमपि रुचिकरं भवति । एवमेव कोच्चीप्रदेशतः कुडियतोड् (३४ कि.मी) त्रिघण्टात्मकप्रवासं कृत्वा गत्वा, कोच्चिप्रदेशः आगन्तुं शक्यते । एवं कोच्चीनगरतः एर्णाकुलतः पोर्टकोचिन्, पोर्टकोचिन् तः एर्णाकुलं प्रति अपि गमनागमनं कर्तुं शक्यते । एर्णाकुलतः मट्टञ्चेरी मट्टञ्चेरीतः एर्णाकुलं प्रति गमनागमनमपि साध्यमस्ति । अलेप्पी-कोट्टायम्, कोल्लम्- अलेप्पी नैकायात्रा अपि अत्र कर्तुं शक्यते । एतदर्थं नवघण्टात्मकः कालः आवश्यकः भवति । केरलराज्ये प्रवासाय वर्षारहितेषु मासेषु केवलं व्यवस्था भवति । केरलप्रवासोद्यमनिगमः, तिरुवनन्तपुरम् इत्यस्मिन् कार्यालये पूर्वमेव यात्राविवरणम् आरक्षणं च कर्तुं शक्यते ।