निलानदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



केरलराज्यस्य चरित्रमण्डले सांस्कृतिकमण्डले च नितरां प्रसिद्धा भवति निलानदी । प्राचिनकाले मामाङ्कमहोत्सवः अस्याः तटे एव आघुष्यमाणः आसीत् । अत एव इयं नदी कविभिः बहुधा वर्णिता। अस्याः तीरे बहवः महात्मानः जनिमलभन्त। इयं नदी सुदीर्घा विस्तृता च भवति। न केवलं मनुष्याणां अपि तु, तटे वर्तमानानां सर्वेषां जीवजालानां जीवनदायिका च भवति। अस्याः तीरे अनेकानि हरिताभानि सस्यक्षेत्राणि देवमन्दिराणि च विद्यते । स्वयं शान्ता इयं नदी वर्षकाले स्वीयं रौद्रभावं प्रकटयति । वर्षकालानन्तरं सा शान्तरूपापान्ना प्रवहति । वसन्ते, ग्रीष्मे च इयं नदी अत्यन्तं शुष्का भविष्यति । सेतुबन्धनेन तस्याः गतिः निरुद्धा । पुनः जलस्य दुरुपयोगेनापि सा शोषिता । जलपूर्णा सा इदानीं सिकतमया भवति ।

"https://sa.wikipedia.org/w/index.php?title=निलानदी&oldid=408380" इत्यस्माद् प्रतिप्राप्तम्