दाण्डेली अभयारण्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


दाण्डेली अभयारण्यम् (Dandeli Wildlife Sanctuary) उत्तरकन्नडमण्डले जोयडाविभागे विद्यते । पश्चिमघट्टप्रदेशे स्थितम् अभयारण्यम् एतत् नित्यहरिद्वर्णवनमिति प्रसिद्धम् अस्ति । क्रिस्ताब्दे १९५६ तमे वर्षे इदम् अभयारण्यत्वेन घोषितम् अस्ति । अस्य विस्तारः ८८४ चतुरस्रकि.मी. मितः ।

अत्र वर्षा बहु भवति । समीपे काळीनदी प्रवहति । अभयारण्ये अस्मिन् श्रेष्ठजातीयाः वृक्षाः सन्ति । महार्घाः श्रीगन्धवृक्षाः अतिपत्त्रवृक्षाः रोस् वुड्वृक्षाः(गोरक्षवृक्षाः) पुन्नागवृक्षाः नन्दिवृक्षाः च सन्ति । वंशसस्यानि यथेष्टं सन्ति । वने गजाः व्याघ्राः वनमहिषाः मृगाः वनश्वानाः वनमेषाः कृष्णव्याघ्राः च सन्ति ।

अभयारण्यमेतत् पक्षिणां धाम अपि अस्ति । अत्र हार्नबिल्, वनचिक्रोडः शुकाः, पिकाः, बुलबुलपक्षिणः, कपोताः मयूराः इग्रेट, श्वेतहंसाः बकाः तदा तदा दृश्यन्ते । अत्र पक्षिणां कलरवः सदा आनन्दाय भवति । भल्लूकानां दर्शनं शशानां धावनं कपिनां प्लवनं सदा द्र्ष्टुं शक्यते । एते दाण्डेली अभयारण्यस्य आभरणानीव सन्ति ।

दाण्डेलीनगरे सुन्दरम् उपवनम् निर्मितम् अस्ति । समीपे प्रकृतिसौन्दर्यदर्शनार्थम् सैक् पायिण्ट् इत्यस्ति । इतः काळीनदीपात्रं दृष्टुं शक्यते । पादचारणं नौकाविहारः अत्र विशेषानन्ददायकाः विषयाः । समीपे विद्युदागारः अस्ति । काळीनद्याः जलबन्धः कृतः अस्ति । ततः जलाशयदर्शनं साध्यमस्ति । गणेशगुडिप्रदेशतः मकराणां दर्शनम् अपि कर्तुं शक्यते ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ४८२ कि.मी । अळनावरतः ४० कि.मी ।

धूमशकटमार्गः[सम्पादयतु]

समीपनिस्थानम् अळनावरम्

"https://sa.wikipedia.org/w/index.php?title=दाण्डेली_अभयारण्यम्&oldid=368865" इत्यस्माद् प्रतिप्राप्तम्