बेहुला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



चम्पकनगरे चन्द्रधरः नाम कश्चित् धनवान् वैश्यः आसीत् । एषः आशुतोषस्य शिवस्य परमभक्तः आसीत् । किन्तु एषः मनसा देव्याः बहुविरोधं करोति स्म । एतेन विरोधेन दुष्परिणमं जनयति स्म । एतेन विरोधेन मनसादेवी चन्द्रधरस्य षड्पुत्रान् विषसर्पेन दशयित्वा मारयितवती आसीत् । सप्तमः पुत्रः एव लक्ष्मीन्द्रः । गच्छता कालेन यदा तारुण्यं प्राप्तवान् तदा उज्जयिनीनगरस्य धार्मिकसाधुः नामस्य वैश्यस्य पुत्र्या बेहुलया सह विवाहः सम्पन्नः । सा युवती बहुसुन्दरी, पतिव्रता, धर्मपरायणा च आसीत् । ज्योतिष्काः लक्ष्मीन्द्रस्य जातकं परिशील्य विवाहस्य प्रथमरात्रौ एव सर्पदशनेन तस्य मरणं भविष्यति इति भविष्यम् उक्तवन्तः । एतेन भयेन पुत्रस्य प्राणरक्षणार्थं विवाहात्पूर्वमेव चन्द्रधरः नगरस्य समीपे सन्तालीपर्वतस्य उपरि केवलम् अयसा, लोहैः च अतिदृढं गृहमेकं निर्मितवान् आसीत् । तस्य अन्तः मशकस्यापि प्रवेशः दुस्साध्यः आसीत् । बहुप्रसिद्धान् अहितुण्डिकान्, सर्पैः सोढुं यथा न शक्येत तादृशम् अधिकवासनायुक्तं, सुगन्धयुक्तं च मूलं सस्यं च तस्य गृहस्य परितः योजितवान् । किन्तु मनसादेवी तस्य गृहस्य निर्माणकर्मकारं तस्मिन् गृहे किञ्चित् सूक्ष्मरन्ध्रं कर्तुम् आज्ञापितवती । तत् रन्ध्रं खनिजाङ्गारेण पूरयित्वा पिहितम् । एतेन रन्ध्रेण विवाहस्य प्रथमरात्रौ मनसादेवी विषसर्पिणी रूपेण गृहं प्रविश्य, लक्ष्मीन्द्रम् अदशत् । तस्य प्राणाः गताः ।

पतिभक्तिः[सम्पादयतु]

प्रातः लक्ष्मीन्द्रस्य माता बहुरुदन्ती आसीत् । गृहे सर्वत्र रोदनं श्रूयते स्म । नववधूः बेहुला निस्संज्ञा आसीत् । शवस्य दाहनसंस्कारार्थं सज्जता अभवत् । तदा बेहुला लज्जां त्यक्त्वा धैर्येण उक्तवती यत् सर्पदशनेन मृतस्य देहस्य दहनसंस्कारः निषिद्धः अस्ति । तस्य देहं जले त्यजन्ति । कदलीकाण्डानां पोतमेकं रचयन्तु । पत्युः शरीरेण सह अहम् उपविश्य, प्रवाहः यत्र नयति तत्र गमिष्यामि इति । कदलीकाण्डैः पोतः रचितः । रक्तवर्णस्य शाटिकां कुङ्कुमं धृत्वा बेहुला पत्युः शवशिरः अङ्के संस्थाप्य पोते उपविष्टवती । बेहुला नगरवासिभिः सह एवम् उक्तवती । स्त्रीणां गतिः योग्यधनं च पतिः एव । जीवने पतिः नास्ति चेत् स्त्रीणां किमपि नास्ति । एतेन कारणेन अहं मम जीवनधनेन सह गच्छन्ती अस्मि । यदि अहं मम पतिदेवं जीवितं करिष्यामि तर्हि पुनः भवतां दर्शनं करोमि । अन्यथा... इति बेहुला वाक्यम् अर्धमेव उक्तवती आसीत् । तस्याः वचनात् पुर्वमेव कश्चन महातरङ्गः पोतं नदौ बहुदूरम् अनयत् । बेहुला तत्र पश्यश्यद्भ्यः नेत्रेभ्यः दूरं गतवती । तस्याः वचनं श्रुत्वा जनाः चकिताः, चमत्कृताः, विचारमग्नाः सन्तः स्वेषां गृहाणि गतवन्तः। पत्युः निर्जीवदेहेन सह बेहुला नद्यां प्लवते स्म । मासाः अतीताः सा किञ्चिदपि आहारं न खादितवती । अतः सा कृशा अशाक्ता जायमाना आसीत् । किन्तु शरीराकृतिः दीप्तिपूर्णः आसीत् । लक्ष्मीन्द्रस्य शरीरात् दुर्गन्धः आगच्छति स्म । शरीरं व्रणितं क्रिमियुक्तम् अभवत् । तदा बेहुला तान् क्रिमीः चिन्वन्ती नद्यां क्षिपति स्म । मन्दं मन्दं लक्ष्मीन्द्रस्य शरीरं क्रिमयः खादितवन्तः एव । एवं शरीरस्य मांसः जले गतः । अन्ते अस्थिपञ्जरः केवलम् अवशिष्टम् । बेहुला अन्नजलाभ्यां विना केवलं वायोः साहाय्येन जीवितवती आसीत् । अवशिष्टम् अस्थिपञ्जरम् आलिङ्ग्य प्लवते स्म ।

चमत्कारः[सम्पादयतु]

एवं षण्मासाः अतीताः । एवं गमनसमये तटे वस्त्रक्षालनार्थम् आगतवतीं काञ्चित् रजकां बेहुला दृष्टवती । तस्याः शिशुः रुदन् आसीत् । अनुक्षणं कोपेन सा तं शिशुं मारितवती । वस्त्राणि प्रक्षाल्य प्रस्थानसमये सा पुनः शिशुं जीवयितवती । एतद् दृष्ट्वा बेहुला प्लवं तटसमीपम् चालितवती । तस्याः रजकायाः शरीरात् कश्चन तेजः प्रकाशते स्म । बेहुला एतद् दृष्टवती । वास्तविकतया सा रजका मनसादेव्या प्रेषिता काचित् सखी आसीत् । बेहुलायाः कठोरतपः दृष्ट्वा सा तां प्रेषितवती आसीत् । तस्याः नाम नेता इति आसीत् । नेता बेहुलायाः बहुप्रशंसां कृतवती । सा अवदत् .. पत्युः विषये ईदृशः प्रेमभावः, कठिणं तपः देवलोकेऽपि न स्यात् । भवती मया सह देवलोकम् आगत्य भवत्याः नृत्येन देवगणस्य प्रियं करोतु । भवत्याः पतिः पुनः जीवं प्राप्नुयात् । बेहुलायाः मनसि आशादीपः ज्वलति । तदा बेहुला अवदत् पत्युः प्राणेभ्यः अहं नरकाग्निमपि प्रविष्टुं शक्नोमि इति । बेहुलायाः उत्तरं श्रुत्वा नेता चकिता, आनन्दिता च जाता । सादरं सा बेहुलां देवलोकं नीतवती । बेहुला पत्युः अस्थिं वक्षस्स्थले गोपितवती आसीत् । नेता देवगणम् एकत्र आयोजितवती । बेहुला पतिं लक्ष्मीन्द्रं स्मृत्वा उन्मत्ततया नृत्यं कृतवती । सा चतुर्षु दिशासु अपि लक्ष्मीन्द्रस्य रूपमेव पश्यपति स्म । बेहुलायाः नृत्यं करुणापूर्णगानं च दृष्ट्वा, श्रुत्वा देवगणः विचलितः । तत्रत्य विद्यमाना मनसादेवी अपि एतं दृष्ट्वा करुणया एवम् उक्तवती हे महासति बेहुले भवत्या अहं पराजिता अस्मि । बहुकालानन्तरम् अहं सतीं सावित्रीं स्मृतवती । सा इव भवती अपि मृतपतिं जीवयितवती । पुत्रि भवत्याः पतिभक्तिं दृष्ट्वा भवत्याः ललाटस्य कुङ्कुमं भवत्यै प्रत्यर्पयन्ती अस्मि । भवत्याः कीर्तिः धरातले अमरा भवतु । इति वरं दत्तवती । एवम् उक्त्वा मनसादेवी लक्ष्मीन्द्रस्य निर्जीवम् अस्थिपञ्ज्रं स्पृष्टवती । अनुक्षणमेव लक्ष्मीन्द्रः जीवं प्राप्य, पूर्ववत् युवारूपं प्राप्तवान् । बेहुलायाः हृदये मयूरः नृत्यति स्म । सा स्वस्य शिरः पत्युः पादे स्थापितवती । अनन्तरं तौ मनसादेवीं नमस्कृतवन्तौ, तस्याः आशीर्वादं च प्राप्तवन्तौ । आनन्दाश्रुवर्षणेन देवगणः बेहुलादेव्याः जयकारम् अकरोत् ।


""

"https://sa.wikipedia.org/w/index.php?title=बेहुला&oldid=408434" इत्यस्माद् प्रतिप्राप्तम्