उशिजा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उशिजा
देवनागरी बृहस्पति

आङ्गीरसमहर्षेः पुत्रः उचथ्यमहर्षिः । एतस्य अनुजः बृहस्पतिः । कदाचित् बृहस्पतिः प्रजावतीं ममताया सह (उचथ्यस्य पत्नीं) व्यभिचरितुम् यतवान् । तदा ममता गर्भवती आसीत् । तस्य अत्याचारार्थं गर्भपिण्डः बृहस्पतिम् अभाययत् । एतेन क्रुद्धः बृहस्पतिः सः शिशुः जन्मना अन्धः भवतु इति अशपत् । अतः दीर्घतमः नाम्ना शिशोः जननम् अभवत् । अग्रे पितुः अनुग्रहबलेन सः सर्वज्ञत्वं प्राप्य महर्षिः अपि जातः । एतस्य विवाहः प्रद्वेषिणी नाम कन्यया सह अभवत् । [[गौतमः|गौतमादीन् अनेकान् पुत्रान् प्राप्तवान् । सर्वदा प्रद्वेषिणी पत्युः विषये असमाधानेन तं तर्जयन्ति स्म ।

कदाचित् दीर्घतमो ऋषिः ताम् उक्तवान् यत् बालानां जननानन्तरमपि मया सह भवत्याः एतादृशः व्यवहारः योग्यः न इति । तदा सा अवदत् । पत्नीपुत्राणां रक्षणादायित्वं भवतः एव अस्ति । तदर्थम् अहं मम बलिं किमर्थं ददामि ? इति निन्दित्वा सम्यक् तर्जयित्वा पुत्रद्वारा तं गङ्गायां प्राक्षिपत् ।

बलेः आश्रये दीर्घतमः[सम्पादयतु]

दीर्घतमः गङ्गायां यदा प्लवन् आसीत्, तदा अङ्गराज्यस्य राजा चन्द्रवंशस्य बलिः तम् जलादुन्नीय अयं जन्मना अन्धः इति ज्ञात्वा, राजगृहम् आनीय, तस्य सेवाम् अकरोत् । बलेः अपत्यं नासीत् इत्यनेन तस्य राज्ञीं सुदेष्णां दीर्घतमसः सेवार्थं प्रेषितवान् । सुदेष्णा दीर्घतमसा सह दाम्पत्यफलरूपेण अङ्गम्, वङ्गम्, कळिङ्गम्, सुह्म, पुण्ड्रम् आन्ध्राम् इति पुत्रान् प्राप्तवती । अनन्तरमपि महर्षेः सेवार्थं यदा गन्तव्यम् अभवत् तदा सा दुःखेन दासीम् उशिजां महर्षेः सेवार्थं प्रेषितवती । उशिजा मातापितृविहीना अनाथा आसीत् । राजगृहे सेवां कुर्वती आसीत् । बहुविधेया सा कर्तव्यं निर्वहन्ती सर्वेषां प्रिया आसीत् । तत्त्वधर्मेषु विशेषासक्ता एषा बुद्धिमती अप्यासीत् ।

दीर्घतमसा ब्रह्मवादिनी[सम्पादयतु]

स्वामिनी सुदेष्णा उक्तवती इति कारणेन उशिजा दीर्घतमसस्य सेवां कर्तुम् आरब्धवती । तस्मै इदानीम् एव द्वे स्त्रियौ वञ्चितवत्यौ इत्यनेन सः शङ्कया एव उशिजायाः सेवां स्वीकुर्वन् आसीत् । किन्तु उशिजायाः सेवया सः आश्चर्यचकितः । बहुवर्षपर्यन्तं तस्य सेवां कुर्वती अनन्तरं तस्य आश्रमे एव स्थितवती । तेन सह विवाहं कृत्वा दीर्घतमः पतिः इव स्वीकृतवती । ऋषिः उशिजायाः ज्ञानदाहं ज्ञात्वा तस्यै धर्मोपदेशं कृतवान् । तत्त्वज्ञानानां विषयेषु विशेषोपदेशं कृतवान् । स्वस्य अनन्तरम् उशिजा एव परम्परायाः रक्षणं कर्तुं शक्नोति इति निश्चितवान् । तदेव सत्यमपि अभवत् । उशिजा स्वस्य सेवाद्वारा प्रसिद्धमहर्षिः कक्षीवान् इत्यादीन् एकादशान् पुत्रान् प्रसूतवती । कक्षीवतः पुत्री एव प्रसिद्धब्रह्मवादिनी घोषा । उशिजायाः अन्यः पुत्रः दीर्घश्रवः । एषः अपि सुप्रसिद्धः ऋषिः । एवम् एतेषां कुटुम्बः एव ब्रह्मपरायणानां कुटुम्बः अभवत् । उशिजायाः साहित्यसृष्टौ बहुमुख्यम् इत्युक्ते ऋग्वेदस्य प्रथममण्डलस्य ११६ तः १२१पर्यन्तस्य षड्मन्त्राः । उशिजा एतेषां मन्त्राणां द्रष्टारा अस्ति । एतय सङ्कलिताः एते मन्त्राः ऋग्वेदे प्रमुखं स्थानं प्राप्तवन्तः सन्ति । सामान्यस्तरस्य काचित् युवती कथम् उन्नतस्थानं प्राप्तुं शक्नोति इत्यस्य उदाहरणरूपेण अस्ति उशिजा । अङ्गदेश समीपे तु तं नद्याः समुदक्षिपन् । अङ्गराज गृहे युक्ताम् उशिजं पुत्रकाम्यया । राज्ञा च प्रहितां दासीं भक्तां मत्वा महातपाः । जनयामास चोत्याय कक्षीवात् प्रमुखान् नृषीन् ॥


""

"https://sa.wikipedia.org/w/index.php?title=उशिजा&oldid=400713" इत्यस्माद् प्रतिप्राप्तम्