भीम्पलासरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भीम्पलास (Bhimpalasi/Bhimpalas Raga) (भीम्पलासी) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । "काफी थाट्" गणस्य रागः भवति । अस्मिन् रागे भीम तथा पलासी रागौ दृश्येते । किन्तु अद्यत्वे पलासी रागस्य अस्तित्वं नास्ति । ओडवजात्यासहितः रागः भवति । अस्मिन् रागे ग तथा नि स्वरौ कोमलस्वरौ भवतः। मध्याह्नस्य तृतीयः प्रहरः अस्य रागस्य प्रशस्तकालः भवति । मध्यमस्वरस्य मुक्तः प्रयोगः अस्ति । पञ्चमस्वरेण मध्यमस्वरः सम्मिलितं भवति चेत् रसाभिव्यक्तिः भवति । अस्य रागस्य वादिस्वरः मध्यमः भवति । संवादिस्वरः षड्जः भवति । अनेन रागेण करुणरसस्य अभिव्यक्तिः भवति । अस्यैव रागस्य कर्णाटकसङ्गीते "अभेरि" इति नाम भवति ।

श्लोकः[सम्पादयतु]

वीणां दधाना कमलायताक्षी गम्भीरनादा सुरपुष्पगन्धी।
कलामयी सा कमनीयमूर्तिः भीमापलासी कथिता सुरेन्द्रैः॥
  • आरोहः – नि स ग म प नि स
  • अवरोहः – स नि ध प म ग रे स
  • पक्कड – नि ध प ग रे, नि स म

सम्बद्धरागाः[सम्पादयतु]

  • धनश्री
  • धनी
  • पटदीप
  • हम्सकिङ्किणी
  • पटदीपकी

समयः[सम्पादयतु]

मध्याह्ने २ तः ४ वादनपर्यन्तं प्रशस्तकालः भवति ।

थाट्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भीम्पलासरागः&oldid=369942" इत्यस्माद् प्रतिप्राप्तम्