मनाली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मनाली

ilanam
गिरिधाम
देशः भारतम्
राज्यम् हिमाचलप्रदेशः
मण्डलम् कुलु
Elevation
२,०५० m
Population
 (2005)
 • Total १७,७८६
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
PIN
175131
Telephone code +911902

प्रपातनगरम् इत्यपि ख्यातम् अस्ति एतत् नगरम् । ‘मनु’ इति शब्दतः मनाली इति नाम आगतम् अस्ति । पुराणानुसारं प्रलयकाले मनुमहर्षिः सप्तर्षिभिः सह अत्र नौकया आगतवान् । प्रपाते यदा जलं पूर्णमभवत् तदा उन्नते प्रदेशे स्थितवान् । अनन्तरं पुनः नवसृष्टिं कृतवान् । एकां नदीम् अत्रैव त्यक्त्वा गतवान् सा नदी मानरलु इति प्रसिद्धा अस्ति । मनालीप्रदेशे मनुमहर्षेः मन्दिरम् अस्ति । अत्र स्थितः हिडिम्बादेवालयः धुङ्ग्रिटेम्पल् नाम्ना ख्यातम् अस्ति । वसिष्ठगुहा इति स्थाने उष्णजलनिर्झरः अस्ति । जगत्सुख (६ कि.मी), अर्जुनगुम्फ्(गुहा), नेहरुगुम्फ, सोलाङ्ग् -उपत्यका (१४. कि.मी) रोहताङ्ग्पास् (५६कि.मी) इत्यादिस्थानानि दर्शनीयानि सन्ति । बियास्नद्याः शिलासु प्रवहणदृश्यं मनमोहकमस्ति । हिमपर्वतेभ्यः पर्वतशिखराणां दर्शनं मनालीप्रदेशस्य वैशिष्ठयम् अस्ति । मनालीस्थाने शीतकाले ग्रीष्मकाले च विविधाः क्रीडाः प्रचलन्ति । स्कीयिङ्ग्, हेलीस्कीयिङ्ग् मौण्टेनियरिङ्ग्, कियाकिङ्ग्, हैकिङ्ग् इत्यादयः । युवजनानां जनप्रियं ‘हनिमून् प्लेस्’(मधुचन्द्रस्थानम्) विवाहानन्तरीयप्रवासस्थानम् इति अस्य प्रसिद्धिः अस्ति ।

मार्गः[सम्पादयतु]

शिम्लातः २३५ कि.मी ।

विमाननिस्थानम्[सम्पादयतु]

भुन्तार् इति

धूमशकटनिस्थानम्[सम्पादयतु]

चण्डीगढ समीपनिस्थानम् ।

वाहनमार्गः[सम्पादयतु]

जोगिन्दरनगरतः ४५ कि.मी । पठानकोटतः २८५ कि.मी । धर्मशालातः २१४ कि.मी । चण्डीगढतः ५१२ कि.मी । वसत्यर्थम् अनेकानि आहारवसतिगृहाणि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=मनाली&oldid=427470" इत्यस्माद् प्रतिप्राप्तम्