बान्धवगढराष्ट्रियोद्यानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बान्धवगढस्थः कश्चन व्याघ्रः

मध्यप्रदेशराज्ये विन्ध्यसात्पुडापर्वतप्रदेशे ८०० पादोन्नतप्रदेशे स्थितं राष्ट्रियोद्यानमिदं ४४८ चतुरस्रकि.मीम् स्थाने विस्तृतमस्ति । जनप्रियं प्रवासिस्थानम् इदम् । पर्वतप्रदेशे ३२ गुहाः सन्ति । पर्वतस्यारम्भे [[विष्णुः|विष्णोः शयानामूर्तिः अस्ति |Brother’s fort इत्यपि अस्य स्थलस्य नाम अस्ति । कथानुसारं ‘श्रीरामः एतत् स्थानं लक्ष्मणाय दत्तवान्’ इति जनानां विश्वासः । इदानीम् अस्मिन् राष्ट्रियोद्याने विविधाः प्राणिनः पक्षिसङ्कुलानि (२००चिधानि) सन्ति । अत्र श्वेतव्याघ्राः प्रसिद्धाः सन्ति । मयूराः, मृगाः, गृध्राः, शृगालाः च अत्र सन्ति । हरिणान् अत्र ’बरसिंह’ इति वदन्ति । सालवृक्षाः वंशवृक्षाः अत्र प्रसिद्धाः सन्ति । सानुप्रदेशे अनेकानिर्झराः सन्ति । अत्र गजरोहणं कर्तुं शक्यते ’ गजस्योपरि उपविश्य एव वीक्षणं कर्तुम् आनुकूल्यम् अस्ति ।

विमानमार्गः[सम्पादयतु]

किस्लीविमाननिस्थानतः समीपे

धूमशकटमार्गः[सम्पादयतु]

उमरियानिस्थानतः ३५ कि.मी ।

वाहनमार्गः[सम्पादयतु]

सतनाकटनीतः वाहनानि सन्ति ।

वसतिः[सम्पादयतु]

बाण्डवघरजङ्गल् क्याम्प्, वैटटैगरफारेस्टलाड्ज् वसतिगृहाणि ।

कालः[सम्पादयतु]

जुलैमासतः अक्टोबरपर्यन्तं प्रवेशावकाशः नास्ति ।