धनुरासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगासनेषु अन्यतममस्ति धनुरासनम्

आसनकरणविधिः[सम्पादयतु]

  • उदरमवलम्ब्य शयनं करोतु ।
  • जानुतः पादद्वयं पुटीकरोतु ।
  • जानुद्वयं पादद्वयं च परस्परं योजयतु ।
  • हस्तद्वयेन गुल्फद्वयं गृह्णातु ।
  • पुरकेण क्रमशः ऊरुद्वयम् उपरि उत्थापयतु ।
  • उदरस्य उपरिभागं,वक्षस्स्थलं,ग्रीवां, मस्तकं च शनैः उपरि उत्थापयतु ।
  • नाभितः उदरं यावत् स्वल्पांशं भूमौ स्थापयतु ।
  • शरीरस्य पृष्ठभागः, पुरोभागश्च उपरि उत्थाप्य धनुस्सदृशं शरीरं स्थापयतु ।
  • दशनिमेषपर्यन्तम् अस्याम् अवस्थायां तिष्ठ्तु ।
  • रेचकेण क्रमशः पूर्वावस्थाम् आगच्छतु ।
  • त्रिचतुर्वारम् एवमभ्यासं करोतु ।

लाभः[सम्पादयतु]

  • मेरुदण्डः सन्तुलितः भवति ।
  • उदररोगस्य उपशमाय लाभदायकः भवति ।
  • अग्न्याशयः स्वस्थः भवति ।
  • नाभिचक्रं स्वस्थं भवति ।
  • मूत्रग्रन्थिः स्वस्थो भूत्वा मूत्रविकारम् अपसारयति ।
  • क्रमाङ्कितसूच्यंशाः

सम्बन्धितपुस्तकानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धनुरासनम्&oldid=480476" इत्यस्माद् प्रतिप्राप्तम्