सुप्तवज्रासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


योगासनेषु अन्यतमम् आसनमस्ति सुप्तवज्रासनम्

आसनकरणविधिः[सम्पादयतु]

  • वज्रासने उपविश्य हस्तद्वयं नितम्बम् उभयतः भूमौ स्थापयतु ।
  • कूर्परद्वयं शनैः, भूमौ अवलम्ब्य शरीरं पृष्ठभागं प्रति अवनमयतु ।
  • भूमौ मस्तकं निधाय शयनं करोतु ।
  • जानुद्वयं संयोज्य भूमौ स्थापयतु ।
  • रेचकेण शनैः शनैः स्कन्धं ग्रीवां, पृष्ठदेशं च भूमौ स्थापयतु ।
  • हस्तद्वयं मस्तकस्योपरि स्थापयतु ।
  • निमेषद्वयानन्तरं कूर्परद्वयं हस्तद्वयं च भूमौ अवलम्ब्य पुरकेण वज्रासनं प्रति आगच्छतु ।

लाभः[सम्पादयतु]

  • आसने उदरस्य निम्नांशः शिथिलः भूत्वा कोष्ठवध्दता दूरीभवति ।
  • अग्न्याशयः स्वस्थः भवति ।
  • मूत्रग्रन्थिः स्वस्यः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुप्तवज्रासनम्&oldid=409840" इत्यस्माद् प्रतिप्राप्तम्