मायावादखण्डनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मायावादखण्डनम्
नरसिंहदेवः


मध्वाचार्य:
मध्वाचार्य: मन्दिरम्
मध्वाचार्यस्य पादा मन्दिरम्
मध्वाचार्यस्य पादा मन्दिरम्
मायावादखण्डनम्



मायावादखण्डनस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। अद्वैतमतस्य मायावादः इत्यपि नाम अस्ति। विश्वं माया इति प्रतिपादयन्ति अतः मायावादः इति नाम। अस्य मतस्य खण्डनात्मकग्रन्थः भवति मायावादखण्डनम्। मध्वाचार्यः नरसिंहदेवस्य स्तुतिं कुर्वन् ग्रन्थस्यारम्भं कृतावान्। ब्रह्मात्मैक्यं प्रतिपादितः मायावादः उपादेयः न भवति। वेदशास्त्राणि एव ब्रह्मात्मैक्यं प्रतिपादयन्ति चेत् अनुपादेयः एव भवेत् इति निरूपितवन्तः। अनुबन्धचतुष्टययुक्तं शास्त्रम् उपादेयः भवति। अयुक्तम् उनुपादेयः भवति। अधिकारी, विषयः, प्रयोजनम्, सम्बन्धश्च अनुबन्धचतुष्टयः भवन्ति। विषयः निष्कपटः भवेत्। किन्तु अद्वैतिनां ब्रह्मात्मैक्यनिरूपणम् आगमविरुद्धम् एव प्रत्यक्षादिप्रमाणविरुद्धञ्च भवति। अद्वैतिनां मतं ब्रह्मसत्यम् इति। ब्रह्मात्मैक्यं सत्यं चेत् स्वमतविरोधः स्यात्। कुतश्चेत् ब्रह्मसत्यम् इति अङ्गीकृतत्वात्, अपसिद्धान्तदोषः स्यात्। अपि च, यदि ब्रह्म स्वयम्प्रकाशः तर्हि ब्रह्मात्मैक्यमपि स्वयम्प्रकाशः भवेत्। स्वप्रकाशं साधनीयः चेत् शास्त्रेभ्यः सिद्धसाधनता दोषः भवति इति। ऐक्यं ब्रह्मस्वरूपो भूत्वा अभिन्नः भवति चेदपि विशेषमेकं निरूपयितुं प्रवृत्तं शास्त्रम् इत्यपि वक्तुं न शक्यते। कुतः चेत् तेषां मते ब्रह्म निर्विशेषः भवति। निर्विशेषे विशेषः भवितुं नार्हति। एवं मायावादः कपटयुक्तः प्रमाणविरुद्धञ्च भवति इति निरूपितवन्तः। समनन्तरं जीवेश्वरभेदम्, जगत्सत्यत्वम्, हरिसर्वोत्तमत्वम्, देवतातारतम्यादिकञ्च उपनिषद्वाक्यैः सकलप्रमाणेभ्यः विरोधाभावं निरूपितवन्तः।

"https://sa.wikipedia.org/w/index.php?title=मायावादखण्डनम्&oldid=465699" इत्यस्माद् प्रतिप्राप्तम्