विकिपीडिया:स्वशिक्षा/विकिपीडियासम्पर्कः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः
विकिपीडियायां लेखस्य सम्पर्कस्थापनम् (आङ्ग्ल भाषया)

अन्तर्वर्तिसम्पर्कः[सम्पादयतु]

विकिपीडियायां लेखानाम् अन्तर्वर्तिसम्पर्कविधानम् अत्यन्तं महत्त्वम् आवहति । अनेन विधानेन यं कमपि विषयं पठन् वाचकः तत्सम्बद्धविषयान् प्रति शीघ्रातिशीघ्रं गन्तुं प्रभवति, येन विकिपीडियायाः तस्य लाभः बहुगुणितः भवति ।

कदा अन्तर्वर्तिसम्पर्कः स्थापनीयः?[सम्पादयतु]

अन्तर्वर्तिसम्पर्कैः युतः लेखः अधिकप्रयोजनाय भवति । किन्तु, सम्पर्कतन्तूनाम् आधिक्यं वाचकस्य अवधानम् अपनयेदपि । (प्रायेण लेखस्य मुख्यभागे अधिकसम्पर्कतन्तवः भवन्ति) । प्रथमवारं यदा किञ्चन पदं वा पदसमूहः वा प्रयुज्यते तदा तस्य सम्पर्कतन्तुः कल्पनीयः । बहु प्रसिद्धशब्दानां (यथा – विश्वम्) सम्पर्ककल्पनं मास्तु । यदा तु कश्चन शब्दः लेखे प्रधानतया उक्तविषयेण सम्बद्धः तदा अवश्यं कल्प्यतां सम्पर्कः । अतः अन्तर्वर्तिसम्पर्कस्य स्थापनात् पूर्वम् आत्मानं पाठकरूपेण परिकल्प्य विचिन्त्यतां यत् 'मया स्थापितः सम्पर्कः उपयोगाय भवति वा?’ इति ।

कथम् अन्तर्वर्तिसम्पर्कः स्थापनीयः?[सम्पादयतु]

  • यदा अन्येन विकिपीडियालेखेन सह सम्पर्कतन्तुं बन्धुमिच्छति, तदा भवता पदम् उभयतः समकोणावरणयुगलम् प्रयोक्तव्यम् (एतद् विकिलिङ्क् इति प्रसिद्धम्) । यथा-

[[संस्कृतम्]]

भवता लिखितं दृश्यते एवम् -संस्कृतम्

  • भवान् विभक्तियुक्तशब्दस्य प्रासङ्गिकविषयस्य च सम्पर्कं कल्पयितुम् इच्छति चेत् तत्कार्यं दण्डचिह्नेन "|" सहजतया कर्तुं शक्यते । अत्र अवधेयं यत् दण्डचिह्नं विरामचिह्नात् ("।") भिन्नं भवति । दीर्घदण्डस्य प्रयोगं कृत्वा यदि लिख्यते -

[[भारतम्|भारतस्थितः]]

तर्हि भवता लिखितं दृश्यते एवम् - भारतस्थितः

  • अत्र भवान् साक्षात् लेखस्य उपविभागेन सहाऽपि सम्पर्कं कल्पयितुं शक्नोति । यथा-

[[भारतीयलिपयः#ब्राह्मीलिपिः|भारतीयलिपीनां जननी]]

भवता लिखितं दृश्यते एवम्- भारतीयलिपीनां जननी

  • • सदा स्मर्तव्यं यत् अलिखितलेखानां सम्पर्कतन्तुः (link) स्थाप्यते चेत् सः संयोगः रक्तवर्णीयः भवति । यथा-

[[वृक्षच्छेदनम् ]] भवता कृतं कार्यं दृश्यते एवम् - वृक्षच्छेदनम्

वर्गसमूहः[सम्पादयतु]

भवान् एकं लेखं विषयानुगुणम् अन्यैः लेखैः सह एकस्मिन् वर्गे अन्तर्भावयितुं शक्नोति । उट्टङ्कनं क्रियताम् एवम्-

[[वर्गः:]], तथा च वर्गस्य नाम आवरणे लिख्यताम् । अत्र स्मर्तव्यं यत् 'वर्गः' इति उट्टङ्कणानन्तरं कोलन्(:) दातव्यं न तु विसर्गः ।

[[वर्गः:भारतीयराजनैतिकपक्षाः]] उपरितनविषयः एवम् आविर्भवति

वर्गः:भारतीयराजनैतिकपक्षाः

यस्य कस्यापि लेखस्य उचिते वर्गे आरोपणं बहु महत्त्वम् आवहति । एतेन वाचकानां भवता लिखितस्य उपयोगे सौकर्यं भवति । अपेक्षितमर्थं ते झटिति प्राप्तुं शक्नुवन्ति । कश्चन लेखः कस्मिन् वर्गे अन्तर्भाव्यः इति ज्ञातुं तत्सदृशाः अन्ये लेखाः परिशील्यन्ताम् । उदाहरणार्थम् – कस्यचित् वृक्षस्य विषये लेखितुम् इच्छन् अन्यस्य कस्यचिद् वृक्षस्य विद्यमानं लेखं पठतु । तत्र के वर्गाः सन्ति इति अवलोकयतु । ततः परं निश्चिनोतु भवतः लेखः कस्मिन् वर्गे स्थापयितुम् उचितः इति ।
अधिकज्ञानार्थं वर्गाः इति पृष्ठं दृश्यताम् ।


शिक्षितं प्रयोगपृष्ठे प्रयुञ्जताम्