विकिपीडिया:स्वशिक्षा/अवधेयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः

विकिपीडियायां सम्पादनावसरे केचन अंशाः अस्माभिः स्मर्तव्याः ।

लेखस्य विषयसम्बद्धाः नियमाः[सम्पादयतु]

निष्पक्षपातदृष्टिः[सम्पादयतु]

‘तटस्थमनोभावेन लेखनिर्माणं’ स्तम्भपञ्चके अन्यतमं विद्यते | एतेषां मूलभूतसूत्राणाम् आधारेण विकिपीडिया कार्यप्रवृत्ता अस्ति । अयं नियमः निर्दिशति यत् प्रकरणसम्बद्धान् सर्वान् अपि प्रमुखान् अभिप्रायान् वयम् अङ्गीकरिष्यामः । एकस्यैव अभिप्रायस्य प्रस्तुतिं विना वयं सर्वान् अपि सङ्गतान् अभिप्रायान् निर्णयदृष्टिं विना उपस्थापयामः । अस्माकं लक्ष्यं विषयप्रस्तावमात्रं न तु अभिप्रायारोपणम् । अस्माकं नियमः इदं न वदति यत् अस्माकं लेखः १००% ’वास्तविकम्’ एव स्यादिति, यतः यस्मिन् कस्मिन्नपि प्रकरणे विभिन्नाभिप्रायवन्तः सर्वे अपि चिन्तयन्ति यत् तेषामेव अभिप्रायः ’साधुः’ इति ।

तटस्थमनोभावः स्याद् इत्यतः विकिपीडिया सर्वान् अभिप्रायान् समप्रामाण्येन पश्यति न वा सर्वान् अभिप्रायान् तुल्यमौल्यान् मन्यते । प्रमाणानां सत्यासत्यतायाः आधारेण अभिप्रायाः सुष्ठु निर्देष्टव्याः । विवादास्पदविषयेषु प्रमुखजनाभिप्रायस्य गुरुत्वम् अधिकं स्यात्, एकदेशीयाभिप्रायाश्च स्पष्टतया निर्दिष्टाः स्युः ।

लेखेषु अभिप्रायाणां निरूपणं न दोषाय किन्तु ते अभिप्रायरूपेण एव लेखनीयाः, न तु वस्तुस्थितिनिरूपणमिव । एते अभिप्रायाः कस्य इति स्पष्टतया निर्दिश्यते चेत् समीचीनतरं भविष्यति यथा ’अस्य अनुमोदकाः कथयन्ति यत्...’ अथवा ’प्रसिद्धः विमर्शकः ’अ’ विश्वसिति यत्...’ इति ।

विकिपीडियायाः केचन लेखाः पूर्वाग्रहपीडिताः इति निर्दिष्टाः स्युः । एकया एव दृष्ट्या लिखिताः लेखाः एवं निर्दिश्यन्ते । कदाचित् विज्ञापिकारूपेण लिखिताः लेखाः अपि अस्मिन् वर्गे अन्तर्भवन्ति उदा राजनीतिविषयकेन तीक्ष्णाभिप्रायेण युक्तः लेखः । समप्रामुख्यवत्सु अभिप्रायेषु अनेकेषु सत्सु तटस्थभावेनापि एक एव अभिप्रायः प्रतिपादितश्चेत्, गौणः अभिप्रायः सुदीर्घं प्रतिपादितश्चेदपि लेखः पूर्वाग्रहपीडितः इति निर्दिश्यते ।

राजनीतिः धर्मः इत्यादिषु विवादास्पदविषयेषु लेखनिर्माणतः पूर्वं तटस्थदृष्ट्या लेखनिर्माणं कथमित्येतस्य पुटस्य सकृदवलोकनं प्रयोजनाय भवेत् । विवादास्पदलेखानां पुनरवलोकनं शान्तमनसा कर्तव्यम् । क्रीडा, गणितम् इत्यादीनाम् अविवादास्पदलेखानां रचनावसरे अपि लेखनियमानाम् अवलोकनं प्रशस्यते ।

सत्यापनम्[सम्पादयतु]

विकिपीडियायाः लेखाः परीक्षार्हाः स्युः । तन्नाम ये विषयाः विश्वासार्हमूलेभ्यः प्राप्ताः ते एव लेखनीयाः । विश्वासार्हमूलानां प्रमाणं प्राप्तुं यदि न शक्येत तर्हि सः विषयः सत्योपेतः चेदपि योजयितुम् अनर्हः । विवादास्पदविषयेषु तु अवश्यं विषयमूलानि योजनीयानि, अधः टिप्पणीरूपेण वा । उल्लेखानां द्वारा पाठकाः भवता लिखितस्य सत्यत्वं ज्ञास्यन्ति, अपि च अधिकविवरणं प्राप्तुम् अर्हन्ति ।

’देहली भारतस्य राजधानी’ इत्येतस्य प्रमाणं नापेक्ष्यते यतः सर्वैः अपि इदं ज्ञातमस्ति ।

लेखस्य वाचकाय अन्यानि जालस्थानानि उपयोगाय भवन्ति चेत् तानि ’बाह्यसम्पर्कतन्तवः’ इत्यत्र दातुं योग्यानि । तत्सम्बद्धानां ग्रन्थानाम् आवली अपि निर्देष्टुं युक्ता ’अधिकाध्ययनाय’ इत्यत्र ।

आद्यसंशोधनाय न[सम्पादयतु]

नूतनान् शोधितान् विषयान् लेखितुं विकिपीडियायाम् अवकाशः न भवति । तन्नाम येषां विषयाणां पूर्वप्रकाशितमूलानि न लभ्यन्ते ते अत्र न योजनीयाः । कतिपयैरेव जनैः संशोधिताः विषयाः अपि अत्र नान्तर्भवन्ति यतः ते बहुभिः अङ्गीकृताः न ।

सामान्यगणनाः, भाषान्तरिताः विषयाः, प्रकाशितपूर्वस्य दृश्यश्रव्यपरिकराणां भाषान्तरणम् इत्यादीनि मूलसंशोधनेषु नान्तर्भवन्ति ।

अन्ये सम्पादनसम्बद्धनियमाः[सम्पादयतु]

विषयसम्बद्धाः[सम्पादयतु]

विकिपीडिया कश्चन सम्पादनयोग्यः विश्वकोशः वर्तते । अतः लेखाः विश्वकोशविषयसम्बद्धाः स्युः । तन्नाम बहुभिः निरन्तरं चर्च्यमाणाः विषयाः तत्र स्युः । विकिपीडियायाः नियमानुसारम् अत्रत्याः लेखाः जगतः प्रत्येकस्य जनस्य तोषणाय वा, कस्यचित् वस्तुनः विक्रेत्र्याः विक्रयणसंस्थायाः कृते वा, जगतः प्रतिनगरं वीथिकायाः कृते वा न विद्यन्ते । किन्तु काश्चन सहयोजनाः सन्ति येषु केचन विश्वकोशपरिधेः बहिः विद्यमानाः विषयाः योजयितुं शक्याः ।

विकिपीडियायाः लेखाः विषयसम्बद्धाः न तु विषयस्थशब्दसम्बद्धाः । सः विषयः विकिकोशसहयोजनायां निवेशयितुं शक्य: । अतः यस्य कस्यचित् शब्दस्य विषये लिख्यमानं विवरणं विकिकोशे अन्तर्भवति ।

मूलग्रन्थाः सर्वैः सुलभतया प्राप्येरन् इति धिया प्रकाशयितुम् इष्यते चेत् तच्च योजयितुं शक्यते विकिस्रोतसि । विकिपीडिया विकिमाध्यमसंस्थया पोष्यते । इयं संस्था लाभनिरपेक्षा यस्याः बहुविधाः सहयोजनाः वर्तन्ते -


आत्मनः विषये आत्मना साधितविशेषाणां विषये लेखनमपि अत्र नाङ्गीक्रियते ।

कृतिस्वाम्यम्[सम्पादयतु]

कृतिस्वाम्ययुतः विषयः मूललेखकस्य अनुमत्या विना कदापि न निवेशनीयः । लेखे विषयाः स्वीयवाक्यैः एव योज्यन्ताम् । अन्तर्जाले उपलभ्यमानः सर्वोपि विषयः कृतिस्वाम्ययुतः एव, यदि तत् जालपुटे अन्यथा न उद्घोषितम् इत्येतत् सर्वदा स्मर्यताम् ।

व्यवहारः[सम्पादयतु]

विकिपीडिया स्नेहपूर्णं मुक्तं वातावरणं प्रोत्साहयति । कदाचित् गणे उष्णचर्चाः भवेयुः किन्तु सामान्यतः सर्वे अपि सदस्याः परस्परं सौजन्येन व्यवहरेयुः । सर्वदा सहसम्पादकानां विषये स्नेहपूर्णः विश्वासः स्यात् । अन्येन हानिः आचर्यते इति कदापि न चिन्त्यताम् । कस्यचित् आचरणं भवतः खेदाय यदि भवेत् तर्हि तस्य लेखस्य सम्भाषणपृष्ठे, तस्य योजकपृष्ठे वा सौजन्येन एव सन्देशः लिख्यताम् । कारणं पृच्छ्यताम् । ततः समस्या सुलभतया एव परिहृता भवेत् ।

लेखनिर्माणम्[सम्पादयतु]

विकिपीडियायां लेखरचनावसरे विकिपीडियायाः स्वशिक्षाविभागे प्रदत्तस्य मार्गदर्शनस्य उपयोगः क्रियतां, नियमाः पाल्यन्ताम् । आकरग्रन्थानाम् उल्लेखः अवश्यं कर्तव्यः येन लेखस्य गुणः वर्धते । लेखरचनार्थं भवता विकिपीडियायां सदस्यता अवश्यं प्राप्तव्या ।

लेखानां पुनर्नामकरणम्[सम्पादयतु]

कस्यचित् लेखस्य नाम न समीचीनमस्ति इति यदि भासते तर्हि तत्रत्यान् विषयान् स्वीकृत्य कस्मिंश्चित् नूतनशीर्षिकायाः अधः न योज्यताम् । तेन लेखेतिहासः रक्षितः न भवति (कृतिस्वाम्यदृष्ट्या सः लेखेतिहासः अस्माभिः रक्षणीयः भवति) । समीचीना रीतिः नाम सः लेखः नूतनं नाम प्रति चालनीयम् । तन्निमित्तं भवता सदस्यता प्राप्ता स्यात् । लेखचालनात् पूर्वं तत्सम्बद्धाः नियमाः जागरूकतया पठ्यन्तां यतः पृष्ठचालनाय बहवः अंशाः अवगताः स्युः ।


शिक्षितं प्रयोगपृष्ठे प्रयुञ्जताम्