ग्रीष्मचर्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


४ ग्रीष्मचर्या। सूर्यातपश्चण्डतरो भवत्यस्मिनृतौ, अतोऽम्ल-लवण-कटुरसा अत्र वर्जनीया:, आग्नेयत्वात्।मधुरप्रायं लघु, स्निग्धं च भोजनं भवेत्। पानार्थं नवे मृत्कुम्भे स्थापितं जलं प्रशस्तम्।सकर्पूरं सुशीतलं सुगन्धयुतं पानकं मध्यन्दिने पेयम्।निशि च चन्द्रकिरणै: शीतं ससितं माहिषं क्षीरं पेयम्।गात्रे चन्दनलेपो भवेत्। सूक्ष्मं तनु च वासो धार्यम्। व्यायामो न्यूनतर: स्यात्।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ग्रीष्मचर्या&oldid=409228" इत्यस्माद् प्रतिप्राप्तम्