विकिपीडिया:लेखस्य शीर्षकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लेखस्य शीर्षकं लेखविषयस्य उपरि बृहद्भिः अक्षरैः लिखितं भवति । शीर्षकं लेखः कस्मिन् विषये विद्यते इति द्योतयति, अन्येभ्यः लेखेभ्यः इमं पृथक्करोति च । शीर्षकं लेखस्य विषयसूचकं वा व्यक्तेः नाम वा विषयस्य विवरणसूचकं वा भवेत् । लेखद्वयं समाननामकं भवितुं नार्हति इत्यतः भेदकल्पनाय कदाचित् शीर्षके विवरणमपि योजनीयं भवति । उत्तमं शीर्षकं स्पष्टं, लघु, सहजं, सुलभावगमञ्च स्यात् । अस्मिन् पृटे शीर्षकं कथं चेतव्यम् इति विषये मार्गदर्शकसूचनाः दत्ताः सन्ति ।

उत्तमं विकिपीडियाशीर्षकम् अधोनिर्दिष्टैः पञ्च गुणैः युक्तं स्यात् ।

  • सुलभावगमयोग्यम् – अस्मिन् लेखे कः विषयः विद्यते इत्येतत् शीर्षकस्य पठनेन सामान्येन अपि अवगमनयोग्यं स्यात् ।
  • सहजम् – वाचकैः विषयस्य अन्वेषणावसरे सहजतया यथा लिख्येत तथा स्यात् शीर्षकम् ।
  • सङ्क्षिप्तम् – शीर्षकं संक्षिप्तं स्यात् ।
  • स्पष्टम् - शीर्षकं स्पष्टञ्च स्यात् ।
  • सुसङ्गतम् – शीर्षकं सुसङ्गतं स्थिरं च स्यात् ।

लेखस्य आरम्भे प्रथमपङ्क्तौ स्थूलाक्षरेण शीर्षकं लेखनीयम् । शीर्षकस्य समनन्तरं श्रव्यम्(Audio), प्रादेशिकभाषया शीर्षकं च योजनीयम् । यथा -

अहमदाबाद (Listeni/ˈɑːmdəbɑːd/ (गुजराती: અમદાવાદ, आङ्ग्ल: Ahmedabad))-महानगरं गुजरातराज्यस्य अहमदाबादमण्डलस्य केन्द्रमस्ति ।

अनुसर्तव्याः नियमाः

१. लेखस्य शीर्षकदानावसरे आदौ लेखस्य विषयः केन नाम्ना अधिकं प्रसिद्धम् इति अवलोकनीयम् । तत् प्रसिद्धं नाम एव लेखस्य शीर्षकं स्यात् । अस्य लेखस्य शीर्षकम् अन्यासु भारतीयविकिपीडियासु (त्र्यधिकासु) दृष्ट्वा निर्णयः(प्रसिद्धिविषये) स्वीकर्तव्यः ।

नाम किं भवेत् किं न भवेत्
सचिन तेण्डुलकर सचिन रमेश तेण्डुल्कर
ए पि जे अब्दुल् कलाम् अबुल् पकीर् जैनुलाब्दीन् अब्दुल् कलाम्
प्रतिभा पाटिल प्रतिभा देवीसिङ्ग पाटिल
नरेन्द्र मोदी नरेन्द्र दामोदरदास मोदी

२. जनस्य नाम्नः लेखनावसरे तस्य प्रादेशिकभाषया कथं लिख्यते इति अवलोक्य शीर्षकं स्रष्टव्यम् ।

नाम किं भवेत् किं न भवेत् प्रादेशिकभाषा
बसप्प दानप्प जत्ति बसप्पा दानप्पा जत्ती कन्नड
नीलं सञ्जीवरेड्डी नीलम सञ्जीव रेड्डी तेलुगु
जाकिर हुसैन जाकिर् हुसैन् /जकिर हुसेन/ज़किर हिन्दी
सरदार वल्लभभाई पटेल सर्दार् वल्लभभायी पटेल् गुजराती
विजय् अमृतराज् विजय् अमृत् राज् तमिळ्
सायना नेहवाल सैना नेह्वाल् पञ्जाबी

३. लेखस्य प्रसिद्धं नाम प्रादेशिकभाषातः भिन्नं चेत्, प्रसिद्धं नाम एव शीर्षकत्वेन भवेत् ।

नाम किं भवेत् प्रादेशिकनाम प्रादेशिकभाषा
प्लासीयुद्धम् पलासी युद्धम् वङ्गभाषा
अजन्तागुहा अजिण्ठा लेणी मराठी
बाल गङ्गाधर तिलक बाळ गंगाधर टिळक मराठी
प्रकाश् राज् प्रकाश् रै कन्नड

४. लेखस्य शीर्षकं हलन्तेन सह उच्चार्यते चेत् लेखने अपि हलन्तम् उपयोक्तव्यम् ।

नाम किं भवेत् किं न भवेत्
काङ्ग्रेस् काङ्ग्रेस/कांग्रेस
इन्फोसिस् इन्फोसिस/इंफोसिस
अथ्लेटिक्स् अथ्लेटिक्स/अत्लेटिक्स्
स्केटिङ्ग् स्केटिङ्ग/स्केटिंग

५. शीर्षके अनुनासिकवर्णस्य स्थाने तसैव उपयोगः करणीयः न तु अनुस्वारस्य शीर्षके सर्वदा वर्गान्तस्य वर्णस्य योग्यरीत्या उपयोगः कर्तव्यः । यथा - मालवङ्कर, शत्रुञ्जयपर्वतः, मार्तण्डः, गान्धी, चम्पावतमण्डलं

नाम किं भवेत् किं न भवेत्
मालवङ्कर मालवंकर
शत्रुञ्जयपर्वतः शत्रुंजयपर्वतः
मार्तण्डः मार्तंडः
चन्दनम् चंदनम्
चम्पावतमण्डलम् चंपावतमंडलम्

६. लेखस्य शीर्षकं सुस्पष्टं स्यात् । यत्र अस्पष्टता विद्यते तत्र जातिसूचकपदम् अवश्यं योजनीयम् । उदा –

  • गङ्गा (नदी), गङ्गा (देवी), कपिला (नदी), कपिल (वर्णः), कपिल (मुनिः), शून्यम् (सङ्ख्या), शून्यम् (खगोलशास्त्रम्), मुद्रा (योगः), मुद्रा (नृत्यम्),

यत्र हलन्तस्य अनन्तरं जातिसूचकपदं लेखनीयं भवति तदा हलन्तस्य अनन्तरं (–) लेखनीयम्।

  • बिलियर्ड्स्-क्रीडा, टेबल्-टेनिस्-क्रीडा

७. विदेशीयभाषापदानि शीर्षकाणि चेत् उच्चारणम् अनुसृत्य लेखनीयम् । संस्कृतभाषायाः सामान्यनियमानुगुणं लेखने स्वरवर्णाः मध्ये अन्ते वा न भवेयुः । उदा –

  • आइसाक् – ऐसाक्, टाइटेनियम – टैटेनियम्, नाइट्रोजेन – नैट्रोजन्

८. आङ्ग्लभाषाभिन्नं विदेशीयपदं भवति चेत् उच्चारणानुगुणं (श्रव्यं श्रुत्वा) लेखनीयम् । उदा –

  • Novak Djokovic नोवाक् जोकोविक् (D-न उच्चार्यते) Tsunami – सुनामी (T – नोच्चार्यते)

९. संस्कृतभाषायां ’नुक्ता’याः(वर्णस्य अधः बिन्दुः - ज़ फ़) प्रयोगः न विद्यते इत्यतः लेखेषु अपि अस्य प्रयोगः न कर्तव्यः । उदा -

  • सानिया मिर्ज़ा, रमज़ान् ...

१०. ऑ, ऍ - एतयोः उपयोगः शीर्षकेषु उच्चारणानुगुणं कर्तुं शक्यते ।

११. संस्थानां नामादिकं संक्षेपरूपेण प्रसिद्धं चेत् तदेव शीर्षकं स्यात् – सि ए जि / सी ए जी (कम्ट्रोलर् एण्ड् आडिटर् जेनेरल्) , २ जि / २जी (सेकेण्ड् जेनेरेशन्) ।


अवधेयाः अंशाः

  • उपरि यानि नामानि न भवेयुः इति निर्दिष्टानि तानि सर्वाणि पुनर्निर्दिष्टपुटत्वेन (Redirected pages) भवेयुः एव । पृष्ठस्य शीर्षकं कथं भवेत् इत्येतावन्मात्रम् उपरि निर्दिष्टम् ।
  • व्यक्तेः स्थलस्य वा नाम्नः संस्कृतरूपम् आनेतुं शक्यं चेत् अवश्यं तत् पुटं निर्मीय पुनर्निर्देष्टव्यम् । उदा - उदयपुरम्, मध्यप्रदेशः, राजस्थानम्, जयपुरम्, बालगङ्गाधरतिलकः, भगतसिंहः, त्यागराजः, विवेकानन्दः, चिन्मयानन्दः ।