सम्भाषणम्:स्वातन्त्र्यदिनोत्सवः (भारतम्)

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१७,१८ (जुलाई २०१४) दिनाङ्कयोः कृतस्य परिष्कारस्य विष‎ये (योजकं नेहालमुद्दिश्य)[सम्पादयतु]

  1. विद्यमानस्य लेखस्य एव परिष्कारः कर्तव्यः न तु तत्स्थाने नूतनलेखस्य आरोपणम् । विकिपीडिया प्रत्येकस्य योजकस्य योगदानं गौरवेण पुरस्करोति । अतः अन्येन कृतं कार्यं विना कारणं न निष्कासनीयम् ।
  2. भाषागताः (अक्षरदोषाः, व्याकरणदोषाः) विषयगताः (wrong information, wrong reference) दोषाः सन्ति चेदेव परिष्कारः कर्तव्यः । आवश्यकतायां सत्यां विषयान् व्यवस्थितक्रमेण संयोज्य उपशीर्षिकाः लेखितुं शक्याः ।
  3. विकिपीडियालेखे तथ्यात्मकानि वाक्यानि एव स्युः न तु भावावेशयुक्तानि, मार्गदर्शकानि, उपदेशकानि वा वाक्यानि । यथा विद्यन्ते(भावावेशयुक्तानि वाक्यानि) भवतः लेखे-देशस्य केचन वर्गाः दुःखिताः सन्ति" इति सर्वकारेणानुभूतम् । तथान्यत्रापि राष्ट्रं वैदेशीकेभ्यः, भ्रष्टचारिभ्यः, भयोत्पादकेभ्यः च रक्षितुं सर्वे सन्नद्धाः भवन्तु । स्वस्य दायित्वस्य सम्यक्तया पालनं, देशभक्त्या विचारान् धृत्वा च कार्यं कुर्वन्तु । देशरक्षायाः दायित्वं न केवलं सर्वकारे स्थितानां जनानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारान् दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।
  4. विकिपीडियायां कोपि लेखः कस्यचित् एकस्य जनस्य न भवति । लेखः तत्र योगदानं कृतवतां सर्वेषामपि । अतः तत्र यःकोऽपि परिष्कर्तुम् अर्हति एव । किन्तु विकिनियमानुगुणमेव तत् भवेत् । अन्यथा तत् अकार्यम् इति मन्यते ।
  5. अकार्याणि कदापि न अनुमन्यन्ते । यतः अन्ये अपि अकार्याणि कर्तुं ततः प्रेरिताः भवन्ति । कृताः परिष्काराः विकिनियमानुगुणं यदि न विद्यन्ते तर्हि ते अवश्यं परिवर्तनीयाः एव भवन्ति ।-Sayant Mahato (चर्चा) ०७:२३, १९ जुलाई २०१४ (UTC)
मित्र ! नियमाः तेभ्यः योजकेभ्यः एव भवन्ति, ये प्रबन्धकस्य कार्याणां पृष्ठे प्रश्नार्थचिह्नं योजयन्ति ? यदि एवम् अस्ति, तर्हि एतादृशानां नियमानां पालनं कर्तुम् अहं सज्जः अस्मि । भवतां पार्श्वे एतादृशानां कलहोत्पादकानां नियमानां विषये चर्चां कर्तुं समयः अस्ति इति आनन्दस्य विषयः । परन्तु ये योग्यविषयाः कलहं निवारयितुं शक्नुवन्ति, तेषाम् उत्तरं दातुं समयः नास्ति इति खेदपूर्णम् । अन्यस्य योजकस्य स्वागतं कर्तव्यं, तेषां साहाय्यं कर्तव्यं, प्रोत्साहनं कर्तव्यं, पूर्वाग्रहः न धर्तव्यः इत्यादीनि भावावेशयुक्तानि वाक्यानि तु मत्सदृशेभ्यः न भवन्ति इति अहं जाने । भवतु क्षम्यताम् एतादृशानि अकार्याणि आचारितानि मया । परन्तु संस्कृतं न केवलं प्रौढेभ्यः अपि तु बालेभ्यः अपि भवति इति मा विस्मरतु । अत्र यः लेखः वर्तते, सः विद्यालयानां छात्रेभ्यः अपि उपयोगी भवेत् इति लेखकस्य (मम, पूर्वलेखकस्य च) भावः आसीत् । अतः बालेभ्यः बोधपाठः तु सर्वेषां निबन्धानां परिसमाप्तौ भवत्येव इति भवद्भिः अपि विद्यालयेषु पठितं स्यात् इति मन्ये । तर्हि उक्तैः स्थूलाक्षरैः यत् दोषभावः भवद्भिः प्रकटितः सः निराधारः । (बहुमतेन सिद्धयतुं शक्नोम्यहम् ।)/ लेखे यदि सर्वं योग्यं भवेत् चेत्, मम मूर्खत्वम् एतावत् तु नास्ति यत्, अहं सुसंस्कृते लेखे परिवर्तनं कर्तुम् उद्युक्तः भवामि । मम अभिमानस्य रक्षणं कर्तुम् अन्यस्य लेखे खननं कृत्वा निराधाराणि परिवर्तनानि करोमि इति मम स्वभावस्तु नास्ति एव । पूर्वाग्रहेण ग्रस्तो नाहम् । तत्र यत् लिखितम् आसीत्, तस्य शत्प्रतिशतं सातत्यं भवन्तः सिद्धं कर्तुं शक्नुवन्ति चेत्, अहं चर्चां कर्तुं स्वागतं करोमि । अत्र भवन्तः चर्चां कर्तुं शकनुवन्ति । अहं श्वः सायम् एतस्य लेखस्य शत्प्रतिशतं सातत्यं सिद्धयितुं सज्जः भविष्यामि । लेखस्य विषये चर्चां कृत्वा सम्भाषणपृष्ठस्य यः गौरवः भवद्भिः वर्धितः, तस्य कृते भावावेशयुक्तानि वाक्यानि उक्त्वा प्रोत्साहनं दातव्यम् इति मम दायित्वम् । सम्भाषणाय कृतज्ञोऽस्म्यहम् अग्रेऽपि एवं परिपाटिः आचर्यताम्NehalDaveND (✉✉) ०९:३७, १९ जुलाई २०१४ (UTC)