सदस्यः:दीनदयाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विकिपीडियासम्भाषणम्:प्रयोगपृष्ठम् इत्यस्मात् पुनर्निर्दिष्टम्)
==चिंतनम्==

सक्रियता सर्वेषां हिताय --

         कश्चन कविः सम्यगेव उक्तवान् -
उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।' इति ।
     अर्थात् यस्य कस्यापि कार्यस्य सिद्ध्यर्थं प्रयत्नः, लगनता, विश्वासः, एकाग्रता, श्रमः, सहनशीलता, निष्ठा इत्यादीनां सद्गुणानाम् आवश्यकता भवति मनुष्यस्य । अन्यथा उद्यमविहीनस्य अलसजनस्य वा जीवने न कस्मिन् अपि क्षेत्रे विकासः प्रगतिः कार्यसिद्धिः वा सम्भवेत् । अत्र एकम् उदाहरणं  कविना दत्तं यत् सामान्यतया वनराज्ञः सिंहात् सर्वे अपि इतरवन्यपशवः भयग्रस्ताः सन्तः विचरेयुः इति । तस्य दैनन्दिकः आहारः एव तेषां मांसरुधिरादिकः । परन्तु यदि सः अलसः सन् सर्वदा शयानः एव  स्यात् तर्हि तस्य  जीवननिर्वहणं पोषणव्यवस्था वा कथं संभवेत् ? मृगाः तु स्वयम् आगत्य तस्यमुखे न प्रविशन्ति किल ? अतः तेन सिंहेन स्वयं स्वजीवनरक्षार्थम् उद्योगः करणीयः, न अन्ये तस्य कृते कारयेयुः ।
        एवमेव मानवैरपि स्वयं स्वस्य विकासार्थं प्रयत्नः करणीयः । अकर्मण्यः अलसः वा जनः जीवने किमपि न प्राप्नुयात्, एतादृशजनः प्रायः परावलम्बी सन् मानवसदृशम् अमूल्यं जीवनं वृथा एव यापयेत् । कर्मसाधनार्थमेव मानवजीवनम्, न वा केवलम् अशन-वसनाद्यर्थमेव, अपिच अकर्मण्यः सन् वृथा कालयापनार्थमात्रम् एव न एतज्जीवनम् ।
अतः न कोsपि जीवने अलसः भवेत् । विद्यार्थी चेत् सम्यक् पठेत्, अध्यापकः चेत् निष्ठया पाठयेत्, वणिक् चेत् शुद्धतया व्यवसायम् आचरेत्, कृषकः चेत् सम्यक् सस्यानि उत्पादयेत्, प्रशासकः चेत् प्रजानां हिताय कार्यं कुर्यात्, इत्यादि यः यत्कार्ये प्रवर्तमानः अस्ति, सः तत्कार्यस्य पालनं निष्ठया कुर्यात् । एवञ्चेत् परिवारे समाजे राष्ट्रे च सर्वत्र विकासः एव दृष्टिगोचरः स्यात् । यत्र विकासः प्रगतिः वा तत्रैव शान्तिसम्प्रीत।। शुभमस्तु
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:दीनदयाल&oldid=466458" इत्यस्माद् प्रतिप्राप्तम्