विकिपीडिया:विकिप्रकल्पः-संस्कृतविकिपीडिया-जाले प्रौढसम्पादकानां सक्रियता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिपीडिया-जाले प्रौढसम्पादकानां सक्रियता इत्यस्मिन् प्रकल्पे सर्वेषां स्वागतम् ! ! ! अस्मिन् प्रकल्पे विविधसंस्कृतविश्वविद्यालयैः, शोधसंस्थाभिः, संस्कृतप्रचारसंस्थाभिश्च सह सँल्लग्नेभ्यः प्रौढसंस्कृतस्य ज्ञातृभ्यः विकिपीडिया-जालस्य परिचयकारणं, तेभ्यः सम्पादनाय प्ररेणा च । संस्कृतभाषायाः प्रौढविषयाः अन्तर्जाले अतिस्वल्पाः । संस्कृतविकिपीडिया-जाले ये सम्पादकाः सम्पादयन्ति, तेषु भाषाकौशलस्य अभावः बहुधा दृश्यते । तथा च तैः लिखिताः लेखाः शुद्धाः इति वक्तुं न शक्यते । परन्तु ये संस्कृतविषयस्य ज्ञातारः, संस्कृतभाषायाः प्रौढज्ञातारः सन्ति, ते यदि संस्कृतविकिपीडिया-जाले सक्रियाः भवष्यति, तर्हि सर्वषां लेखानां शुद्धता, प्रामाण्यं च निश्चितं भविष्यति । तान् सर्वान् विदुषः एतस्मिन् प्रकल्पाय सम्पादनं कर्तुं प्रेरयिष्यति अयं प्रकल्पः । अनेन प्रकल्पेन संस्कृतविकिपीडिया-जाले उत्तमानां लेखानां निर्माणं, सङ्कलं च भवति । अस्य प्रकल्पस्य यशसः प्राप्त्यर्थम् अत्र सर्वे सविनयं निवेद्यन्ते यत् स्वीयम् अमूल्यं योगदानं कुर्वन्तु इति । सहयोगेच्छुकाः सर्वेऽपि अत्र स्वनाम योजयन्तु । विषयेऽस्मिन् अधिकावगमनाय चर्चां कुर्वन्तु ।

कार्ययोजना[सम्पादयतु]

प्रकल्पस्य प्रथमं सोपानं २०१६ तमस्य वर्षस्य जनवरी-मासात् जुलाई-मासपर्यन्तं भविष्यति । अस्मिन् सोपाने उत्तरभारते विद्यमानानाम् अधोलिखितानां ६ संस्कृतविश्वविद्यालयानां/पाठशालानां/संस्थानाञ्च सम्पर्कः क्रियते ।

  1. बनारसहिन्दुविश्वविद्यालयः, वाराणसी, उत्तरप्रदेशः
  2. सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी, उत्तरप्रदेशः
  3. श्रीसोमनाथसंस्कृतविश्वविद्यालयः, वेरावल, गुजरातम्
  4. लालाबहादूरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठम्, खट्वारियासरै, नवदेहली, देहली
  5. कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयः, दरभङ्गा, बिहार
  6. राष्ट्रियसंस्कृतसंस्थानम्, भोपाल, मध्यप्रदेशः
  • एतैः विश्वविद्यालयैः, अन्यसंस्थाभिः च सह सम्पर्कं कृत्वा प्रौढसंस्कृतज्ञां सूचिः निर्मीय तेभ्यः संस्कृतविकिपीडिया-जालं प्रति आकर्षयिष्यते ।
  • प्रौढसंस्कृतज्ञां लेखान्, तेषां विद्यार्थिनां च लेखान् संस्कृतविकिपीडिया-जाले स्थापयिष्यते ।
  • कुत्रचित् कर्गदे लिखितलेखानां कङ्कनं कारयित्वा, परिष्कारादिकं कारयित्वा च लेखान् संस्कृतविकिपीडिया-जाले स्थाप्यते ।

प्रकल्पपरिणामाः[सम्पादयतु]

  • षण्मासाभ्यन्तरे (जुलाई २०१६) एते संस्कृतसम्बद्धाः अपूर्णलेखाः (१,६६१) पूर्णीकृत्य योग्यलेखावल्यां (Good Articles) स्थापयिष्यते । अनेन प्राथमिकलक्ष्यं साधितं स्यात् ।
  • द्वितीयं तेषु षण्मासेषु नवीनां ५० योग्यलेखानां निर्माणं क्रियते । ते लेखाः प्रौढसम्पादकैः लिखिताः भविष्यन्ति ।