एस् सी नन्दीमठ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



एस्.सि.नन्दीमठः(S C Nandimath) । गोकाक-उपमण्डल्स्य नन्दीग्रामे १९०० तमे वर्षे डिसेम्बरमासस्य द्वादशे दिनाङ्के शिवलिङ्गय्य चन्नबसवय्य नन्दीमठवर्यस्य जन्म अभवत्।

शिक्षणम्[सम्पादयतु]

नन्दीमठः १९२४ तमे वर्षे बि.ए.पदवीं,१९२६ तमे वर्षे एम्.ए पदवीं प्राप्तवान् । वीरशैवधर्मस्य अपि च तत्त्वज्ञानविषये निबन्धं विरचय्य ,१९३० तमे वर्षे डाक्टरेट् पदवीं प्राप्तवान् ।शिक्षकवृत्तिम् अनुवृत्त्य शिक्षणक्षेत्रे कृता साधना अपारा । लिङ्गराजमहाविद्यालयस्य स्थापकः, बागलकोटबसवेश्वरमहाविद्यालयस्य स्थापकः नन्दीमठः मुम्बयीविश्वविद्यालयस्य सेनेट् तथा सिण्डिकेट् सदस्यः आसीत् । कर्णाटकविश्वविद्यालयस्य स्थापनान्तरं तस्य सिण्डिकेट् सदस्यः,अकाडमिक् कौन्सिल् सदस्यः, कुलसचिवः, उपकुलपतिरूपेण अपारसेवां कृत्वा शिक्षणतज्ञः इति प्रसिद्धःजातः। कन्नडभाषेया , संस्कृतेन ,प्राकृतेन ,पालीभाषया, आङ्ग्लभाषया च विशेषः परिश्रमः कृतः । नन्दीमठः विद्वत्तपूर्णयुक्तवैचारिकग्रन्थान् रचितवान् ।

कृतयः[सम्पादयतु]

  • १) कन्नड नाडिन चरित्रे (कर्णाटकस्य इतिहासः) (भागः-२)
  • २) कर्णाटकद धर्मगळु (कर्णाटकस्य धर्माः) ।

एतस्य मुख्यकृती ।

  • ३) हरिहरन गिरिजा कल्याण
  • ४)कुवलयानन्द

एतस्य सम्पादितकृती।

प्रशस्तयः[सम्पादयतु]

आङ्ग्लभाषया लिखितं Hand Book of Veerasaivism पाण्डित्यपूर्णकृतिः इति परिगण्यते ।१९५२ तमे वर्षे बेलूरुनगरे प्रचलितस्य ३५ तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानं अलङ्कृतवान् । सुप्रसिद्धः विद्वांन् तथा शिक्षणतज्ञः जातः ।नन्दीमठस्य कृते कर्णाटकविश्वाविद्यानिलयतः १९७५ तमे वर्षे गौरव डि.लिट् पदवीं दत्तवा सम्मानितवन्तः । शिक्षणक्षेत्रे अविरतश्रमं कृत्वा कर्णाटकस्य अभिवृद्ध्यर्थं प्रयत्नं कृत्वा तस्मिन्नेव वर्षे दिवङ्गतः।

"https://sa.wikipedia.org/w/index.php?title=एस्_सी_नन्दीमठ&oldid=406436" इत्यस्माद् प्रतिप्राप्तम्