अङ्कीयतालकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्कीयतालकम् (DigiLock)
अङ्कीयतालकम्
अङ्कीयभारतान्तर्गततया योजना
देशः भारतम्
प्रधानमन्त्री नरेन्द्र मोदी
मन्त्रालयः वित्तमन्त्रालयः
मुख्यव्यक्तिः अरुण जेटली
उद्घोषणा  28, 2014; 9 years ago (2014-08-28)
जालस्थानम् digilocker.gov.in
सक्रियताज्ञानम्: सक्रियम्

अङ्कीयतालकम् इत्येषा भारतसर्वकारस्य काचित् योजना वर्तते । एषा योजना अङ्कीयभारतयोजनायाः अन्तर्गततया मुख्यतां वहति । किञ्च भारतम् अङ्कीयभारतं भूयात्, भारतम् अङ्कीयक्षेत्रे सशक्तसमाजत्वेन उदियाद्, अङ्कीयार्थव्यवस्थायाः ज्ञानं भारतस्य पार्श्वेऽपि स्यात् इत्येतानि उद्देश्यानि भारतसर्वकारस्य सन्ति । एतस्यां योजनायां सार्वजिनके नीरदे (public cloud) भारतीयाः वितरणयोग्यं रिक्तस्थानं प्राप्नुवन्ति । एवं ते स्वप्रलेखान् (documents), प्रमाणपत्राणि च तस्मिन् रिक्तनीरदे स्थापयितुं शक्नुवन्ति ।

विचारधारा[सम्पादयतु]

एतस्याः योजनायाः महत्त्वाकाङ्क्षां माननीयः प्रधानमन्त्री नरेन्द्रमोदी अकरोत् । अङ्कीयतालकस्य या योजना भारतसर्वकारेण उद्घोषिता, तस्याः पृष्ठे काचित् विचारधारा वर्तते । भारतसर्वकारः इच्छति यद्, भारते कर्गदमुक्तं शासनं स्यादिति । तस्य कृते अङ्कीयतालकम् आधारत्वेन योगदानं करोति । अङ्कीयतालके आधेयत्वेन स्थापितानि प्रमाणपत्रादीनि अङ्कीयपद्धत्या सत्यापितानि, सुरक्षितानि च भवन्ति, येन स्थूलप्रलेखानाम् आवश्यकता एव न भवति । ये भारतीयाः अङ्कीयतालके सदस्यतां प्राप्तवन्तः, तेभ्यः सर्वेभ्यः भारतीयेभ्यः स्वतन्त्रं रिक्तं नीदरस्थानं प्रदीयते । तेषां तद् अङ्कीयतालकम् आधारपत्रेण (Aadhar card - UIDAI) सह सँल्लग्नं भवति । याः संस्थाः अङ्कीयतालकेन सह संलग्नाः भवन्ति, ताः अपि संस्थासम्बद्धानां नागरिकाणाम् अङ्कीयप्रलेखान् तत्र स्थापयितुं शक्नुवन्ति । भारतीयाः अङ्कीयतालकस्थायां स्वलेखायां स्वानुवंशिकपत्राणि अपि प्रतिबम्बितानि (scanned) कृत्वा उपारोपयितुं शक्नुवन्ति । तानि आनुवंशिकानि पत्राणि वि-हस्ताक्षरेण हस्ताक्षरितानि भवितुम् अर्हन्ति ।

लाभाः[सम्पादयतु]

  • नागरकाः स्वाङ्कीयप्रलेखान् यदा कदापि, यत्र कुत्रापि च अन्तर्जाले वितरितुं शक्नुवन्ति । एतत्कार्यं सरलं, समयरक्षकं च भवति ।
  • अस्याङ्कीयतालकस्य उपयोगेन सर्वकारीयविभागेषु प्रशासनिककार्यभारः न्यूनः भवति ।
  • अङ्कीयतालकस्य कारणेन अधिकृतानां प्रलेखानां प्रामाणीकरणं सरलं भवति । किञ्च ते प्रलेखाः साक्षात् पञ्जीकृतैः प्रदातृभिः प्रस्थापिताः भवन्ति ।
  • स्वेन उपारोपितेषु प्रलेखेषु अङ्कीयहस्ताक्षरं वि-हस्ताक्षरतन्त्रांशस्य साहाय्येनं कर्तुं शक्नुवन्ति । (एतत् हस्ताक्षरं स्वप्रमाणितम् एव परिगण्यते ।)

मुख्यलाभान्विताः[सम्पादयतु]

एतस्याः योजनायाः लाभः एवं तु सर्वेभ्यः भारतीयेभ्यः भवति । परन्तु केचन मुख्यलाभान्विताः प्राथमिकताम् आवहन्ति । तेषु लाभान्वितेषु प्रकाशकाः, निवेदकाः, नागरिकाः च इति विभागं कर्तुं शक्नुमः । प्रकाशकाः अर्थात् वित्तविभागः, विश्वविद्यालयकार्यालयः, उच्चमाध्यमिकशाला इत्यादयः । एताः संस्थाः नागरिकेभ्यः यत्किमपि पत्रं दद्यात्, तत् अङ्कीयरूपेण स्यात् । यदि तानि पत्राणि ताः संस्थाः नागरिकेभ्यः यच्छन्ति, तर्हि तानि पत्राणि योग्ये वि-प्रारूपे उपलब्धानि स्युः । निवेदकाः अर्थात् विश्वविद्यालयः, पारपत्रकार्यालयः, (passport office) प्रादेशिकपरिवहननिकायः इत्यादयः । एताः संस्थाः नागरिकस्य प्रपत्राणाम् औचित्यं परीक्षितुं तेभ्यः प्रपत्राणि याचन्ते । ताः संस्थाः साक्षात् सार्वसङ्केतेन (URL) वि-प्रलेखान् द्रष्टुं शक्नुवन्ति । अन्यश्च, नागरिकः यः उभयोः संस्थयोः मध्ये भवति, सः स्वस्य आधारपत्रस्य उपयोगं कृत्वा अङ्कीयतालकस्य उपयोगं कर्तुं प्रभवति ।

अङ्कीयतालके स्थापिताः प्रलेखाः पूर्णतया सुरक्षिताः भवन्ति । तस्मिन् यत्किमपि परिवर्तनं भवति, तत् परिवर्तकस्य निवेदनानुसारं निवेदनसमये एव भवति । युक्ततया यदि कश्चन स्वस्य अङ्कीयतालकस्य उपयोगं करोति, तर्हि तत् पूर्णतया सुरक्षितं भवति । सर्वेषाम् अङ्कीयतालकस्य उपभोक्तॄणां नागरिकाणां सन्धिः आधारपत्रेण सह भवति ।

राज्यानां योगदानम्[सम्पादयतु]

प्रधानमन्त्रिणः नरेन्द्रमोदिनः अङ्कीयभारतकार्यक्रमे हरियाणाराज्यस्य योगदानं प्रशंसनीयम् अस्ति । १/७/२०१५ दिनाङ्के आङ्कीयभारतकार्यक्रमस्य प्रप्रथमे सप्ताहे एव हरियाणाराज्ये ३० सहस्रेण नागरिकैः अङ्कीयतालके पञ्जीकरणं कृतम् [१] [२] [३] [४] । सर्वकारीयाः अधिकारिणः, कर्मचारिणः चापि एतस्मिन् अङ्कीयतालके स्वलेखाम् अरचयन् । सर्वकारस्य अङ्कीयसाक्षरताकार्यक्रमस्य अन्तर्गततया सामान्यसेवाकेन्द्रम्, अङ्कीयतालकाय जीवमितीयं (Biometrics), सङ्केतम् इत्यादीनां योजना अपि क्रियान्वितप्राया अस्ति [५]उत्तरप्रदेशराज्येऽपि शासनस्य निर्देशोत्तरं विविधेषु स्थानेषु अङ्कीयतालकविषये जागरूकतायाः अभियानम् अभवत् । उत्तरप्रदेशे कार्यशालानाम् आयोजनं कृत्वा अङ्कीयतालकस्य लाभः, उपयोगः, पद्धतिः इत्यादिषु विषयेषु प्रशिक्षणम् अभवत् [६]मध्यप्रदेशराज्ये सर्वकारः अङ्कीयभारतकार्यक्रमाय उत्साहेन कार्यम् अकरोत् । राज्येऽस्मिन् विद्यार्थिषु अङ्कीयभारतकार्यक्रमं प्रति रुचिः दर्यदृश्यत । विविधेषु स्थानेषु कार्यशालां कृत्वा विद्यार्थिनः, नागरिकाः च प्रशिक्ष्यन्ते । मध्यप्रदेशस्य बैतूल-मण्डले एकसप्ताहे एव एकलक्षेण बालकैः अङ्कीयतालकस्य उपयोगः कृतः [७]राजस्थानराज्ये, छत्तीसगढराज्ये चापि अङ्कीयभारताभियानस्य कृते कार्यशालामाध्यमेन प्रचारः अभवत् । अङ्कीयभारताभियानस्य प्रथमे सप्ताहे राष्ट्रियसूचनाविज्ञानक्रेन्द-पाली-द्वारा कार्यशालानाम् आयोजनम् अभवत् । तस्यां कार्यशालायाम् अपि अनेके भारतीयाः अङ्कीयतालकस्य उपयोगाय प्रोत्साहिताः, अवगताः च [८] । छत्तीसगढसर्वकारः अपि विविधेषु स्थानेषु अङ्कीयभारतस्य कृते कार्यशालानाम् आयोजनम् अकारयत् । छत्तीसगढराज्यस्य मुख्यसचिवः श्रीविवेकढांड-महोदयः अङ्कीयतालकस्य उपयोगं प्रोत्साहयितुं सर्वकारिभ्यः अधिकारिभ्यः पत्राणि अलिखत् । राज्यशासनं सर्वेभ्यः विभागेभ्यः, विभागाध्यक्षेभ्यः, मण्डलाधिकारिभ्यश्च परिपत्राणि प्रेषयित्वा अङ्कीयभारतस्य प्रचारं कर्तुमुपयोगं च कर्तुमसूचयत् [९]गुजरातराज्येऽपि सर्वकारेण अङ्कीयभारतयोजनायाः अन्तर्गततया अङ्कीयगुजरातम् इति योजना आरब्धा । तस्यै योजनायै नवीनं जालस्थानम् अपि निर्मितम् अस्ति [१०] । एवं तु नरेन्द्रमोदी यदा गुजरातराज्यस्य मुख्यमन्त्री आसीत्, तदैव अङ्कीयगुजरातम् इत्यस्मिन् क्षेत्रे कार्यम् आरब्धम् आसीत् [११] । परन्तु ततः प्रधानमन्त्रिपदं प्राप्तः नरेन्द्रमोदी यदा अङ्कीयभारतम् इति अभियानम् आरब्धवान्, तदा गुजरातराज्ये पूर्वारब्धस्य तस्य कार्यस्य अनुगुणं कार्यशालादिकं गुजरातराज्ये अपि अभवत् । स्वयं गुजरातराज्यस्य मख्यमन्त्री श्रीमती आनन्दीबेन पटेल अनेकेषु कार्यक्रमेषु अङ्कीयगुजरातविषये जनान् सम्बोधितवती [१२]

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

बाह्यसम्पर्कन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अङ्कीयतालकम्&oldid=483008" इत्यस्माद् प्रतिप्राप्तम्