विजय रूपाणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विजय रूपाणी
विजय रुपाणी
षोडशः मुख्यमन्त्री
Assumed office
७/८/२०१६
Preceded by आनन्दीबेन पटेल
Constituency पश्चिमराजकोट-नगरम्
Assembly Member
for पश्चिमराजकोट-नगरम्
Assumed office
१९/१०/२०१४
गुजरातराज्यं, राज्यसभा-तः सांसदः
In office
२००६ – २०१२
व्यैय्यक्तिकसूचना
Born (१९५६-२-२) २ १९५६ (आयुः ६७)
रङ्गून, बर्मा
Nationality भारतीयः
Political party भारतीयजनतापक्षः
Spouse(s) अञ्जलि रूपाणी
Children एकः पुत्रः, एका पुत्री च
Parents रमणिकलाल, मायाबेन
Residence राजकोट-महानगरम्
Occupation राजनेता
Cabinet गुजरातसर्वकारः
Portfolio परिवहनं, जलापूर्तिः, श्रमवृत्तिमन्त्रालयः (नवम्बर २०१४ - अगस्त २०१६)

विजय रूपाणी इत्येषः भारतीयजनतापक्षस्य कश्चन राजनेता । पश्चिमराजकोटस्य प्रतिनिधित्वेन एषः गुजरातविधानसभायाः सदस्यः । २०१६ वर्षस्य अगस्त-मासस्य सप्तमात् (०७/०८/२०१६) सः गुजरातराज्यस्य षोडशः मुख्यमन्त्रित्वेन कार्यभारम् अङ्ग्यकरोत् ।[१] अद्यत्वे सः भारतीजनातपक्षस्य राज्याध्यक्षः अपि ।[२]

प्रारम्भिकजीवनम्[सम्पादयतु]

१९५६ तमस्य वर्षस्य अगस्तमास्य द्वितीये (०२/०८/१९५६) दिनाङ्के म्यानमार-देशस्य रङ्गून-महानगरेऽभवत् (पुरा, रङ्गून, बर्मा) । [२] तस्य पितुः नाम रमणिकलाल, मातुश्च नाम मयाबेन इति । जैनधर्मस्य [३][४] अनुयायी वणिक् रमणिकलालः सपरिवारं १९६० तमे वर्षे बर्मादेशात् भारतदेशस्य राजकोट-महानगरं प्रति स्थानान्तरणम् अकरोत् । विजयः धर्मेन्द्रसिंहमहाविद्यालयात् स्नातकं, सौराष्ट्रविश्वविद्यालयाच्च एल्. एल्. बी. इत्युपाध्यौ अलभत । [५][२][६][७]

वृत्तिः[सम्पादयतु]

प्रारम्भिका वृत्तिः[सम्पादयतु]

अखिलभारतीयविद्यार्थिपरिषदि (ABVP) सक्रियः विजयः स्वस्य सार्वजनिकजीवनस्य आरम्भम् अकरोत् । [४] ततः सः राष्ट्रियस्वयंसेवकसङ्घेन, जनसङ्घेन च सहापि सँल्लग्नः । भारतीयजनातपक्षस्य स्थापनायाः कालाद् अर्थात् १९७१ तमाद्वर्षाद् विजयः पक्षस्य कार्यकर्ता अस्ति । [३][४][७] १९७६ तमस्य वर्षस्य राष्ट्रियापत्कालसमये विजयः क्रमेण भावनगरस्य, भुज-महानगस्य च कारागारे बन्दी आसीत् । तयोः कारागरायोः सः ११ मासं यावद् आसीत् । [४][७] विजयः १९७८ तमात् वर्षात् १९८१ पर्यन्तं राष्ट्रियस्वयंसेवकसङ्घस्य प्रचारकोऽपि आसीत् । १९८७ तमे वर्षे राजकोटमहानगरपालिकायां विधायकत्वेन चितः सः जलनिकाससमितेः अध्यक्षः अभवत् । ततः समनन्तरे वर्षे सः राजकोटमहानगरपालिकायाः स्थायिसमितेः अध्यक्षः अभवत् । तस्मिन् अध्यक्षपदे सः १९८८ तः १९९६ पर्यन्तम् आरूढः । मध्ये १९९५ तमे वर्षे तस्य राजकोटमहानगरपालिकायाः स्थायिसमितेः अध्यक्षत्वेन पुनः चयनं जातम् । ततः सः १९९६ तः १९९७ पर्यन्तं राजकोटमहानगरस्य नगरपौरत्वेन (mayor) अपि कार्यम् अकरोत् । ततः १९९८ तमे वर्षे भाजप-पक्षस्य गुजरातराज्यविभागस्य विभागाध्यक्षः अभवत् । यदा केशुभाई पटेल इत्येषः गुजरातराज्यस्य मुख्यमन्त्री आसीत्, तदा विजयः घोषणापत्रसमितेः आध्यक्षम् अवहत् । २००६ तमे वर्षे गुजरातपर्टनवभागस्य अध्यक्षः जातः । २००६ - २०१२ सः राज्यसभायाः सदस्योऽपि आसीत् । [४][७] यदा नरेन्द्रमोदी गुजरातराज्यस्य मुख्यमन्त्री आसीत्, तदा विजयः भाजप-गुजरातविभागस्य आध्यक्षं चतुर्वारं, गुजरातमहानगरपालिकावित्तविभागस्य आध्यक्षम् एकवारं (२०१३) अवहत् । [६][७][८]

२०१६ तमस्य वर्षस्य फरवरी-मासस्य एकोनविंशतितमे (१९/०२/२०१६) दिनाङ्के विजयः भाजप-दलस्य गुजरातविभागस्य अध्यक्षो जातः । तस्मात् पूर्वं तस्मिन् पदे आर्. सी. फाल्डु इत्येषः आरूढः आसीत् । [६][७]  २०१४ अगस्तमासे यदा वजुभाई इत्येषः गुजरातविधानसभायाः वक्ता पश्चिमराजकोटस्य विधायकत्वेन त्यागपत्रं दत्त्वा कर्णाटक-राज्यस्य राज्यपालः अभवत्, [९] तदा भाजप-दलद्वारा विजयस्य नामाङ्कनं तद्रिक्तस्थानं पूरयितुम् अभवत् । [२] २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य एरकोनविंशे (१९/१०/२०१४) दिनाङ्के विधायकस्य पदस्य निर्वाचने विजयः बहुमतेन जितः । [३][६][१०]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. "Vijay Rupani sworn in as new Gujarat Chief Minister". The Times of India. 7 August 2016. आह्रियत 7 August 2016. 
  2. २.० २.१ २.२ २.३ "MEMBERS OF PARLIAMENT". Archived from the original on 26 December 2018. आह्रियत 14 December 2014. 
  3. ३.० ३.१ ३.२ "How Vijay Rupani pipped Nitin Patel to become Gujarat chief minister". The Times of India. 5 August 2016. 
  4. ४.० ४.१ ४.२ ४.३ ४.४ "Saurashtra strongman Vijay Rupani in Gujarat Cabinet". Economic Times. 20 November 2014. आह्रियत 14 December 2014. 
  5. "Vijay Rupani: Member's Web Site". Internet Archive. 30 September 2007. Archived from the original on 30 September 2007. आह्रियत 5 August 2016. 
  6. ६.० ६.१ ६.२ ६.३ "Vijay Rupani: A swayamsevak, stock broker and founder of a trust for poor". The Indian Express. 6 August 2016. आह्रियत 6 August 2016. 
  7. ७.० ७.१ ७.२ ७.३ ७.४ ७.५ "How Vijay Rupani pipped Nitin Patel to become Gujarat chief minister". The Times of India. 5 August 2016. Archived from the original on 6 August 2016. आह्रियत 6 August 2016. 
  8. "BJP set to win all 26 Gujarat Lok Sabha seats: Vijay Rupani". Business Standard. 2 January 2014. आह्रियत 14 December 2014. 
  9. "Vajubhai Rudabhai Vala to take oath as Karnataka Guv on Sept 1". One India News. 30 August 2014. आह्रियत 31 August 2014. 
  10. "Guj bypoll: BJP wins Rajkot-West Assembly seat". Business Standard. PTI. 19 October 2014. आह्रियत 19 October 2014. 
"https://sa.wikipedia.org/w/index.php?title=विजय_रूपाणी&oldid=481786" इत्यस्माद् प्रतिप्राप्तम्