विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऋग्वेदस्य मातृका
वेदः संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते। भारते धर्मव्यवस्था वेदायत्तैव। वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया। श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी। न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि। प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते। चत्वारः वेदाः भवन्ति।
ऋग्वेदः ,
यजुर्वेदः ,
सामवेदः ,
अथर्ववेदश्चेति । एकैकस्यापि
संहिता ,
ब्राह्मणम् ,
आरण्यकम् ,
उपनिषत् इत्येवं विभागः अस्ति। वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति। तानि च सूक्तानि प्रतिभानवतां
ऋषीणां योगदानानि भवन्ति। एकैकस्यापि सूक्तस्य
ऋषिः ,
छन्दः ,
देवता इति त्रितयमस्ति। (
अधिकवाचनाय » )
बेङ्गळूरु
"बेङ्गलूरु"(Bangalore) नगरं
भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति। बेङ्गलूरुमहानगरं
कर्णाटकस्य आग्नेयभागे विराजते। एतत् मण्डलमपि। बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति। २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम्। एतत् नगरं
कर्णाटकस्य अत्यन्तं महत् नगरम्। अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति। बेङ्गलूरुनगरे ५१% जनाः
भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति। बेङ्गलूरुनगरेण
भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति। (
अधिकवाचनाय » )
यो यस्य चित्ते वसति न सदूरे कदाचन।
खे सूर्य कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥
गर्गसंहिता माधुर्यखण्डः १/११
यः यस्य हृदये निवसति सः कदापि तस्मात् दूरे न तिष्ठति। यद्यपि सूर्यः आकाशे अस्ति कमलं तु भूमौ निवसति तथापि सूर्यस्य दर्शनमात्रेण कमलं विकसितं भवति (सूर्यस्य सान्निध्यम् अनुभवति )।
सहपरियोजनाः
Wikipedia languages
This Wikipedia is written in संस्कृतम् । It was started in २००३ (२००३ ) , सम्प्रति संस्कृतविकिपीडियायां ९,९८३ लेखाः सन्ति ।
Wikipedia is available in 23 Indian and other languages. Some of the largest wikipedias are
भारतीयभाषाः:
more than 10,00,000 articles:
more than 2,00,000 articles: