अक्षरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
अक्षरम्
अक्षरम्
अक्षरम्


अक्षरविषये अस्थिरता[सम्पादयतु]

अक्षराणि कति सन्ति ? इति पृच्छामश्चेत चतुश्चत्वारिंश्त्तः षड्पञ्चाशत्पर्यन्तं संख्यानाम् एकाम् आवलिं प्राप्नुमः अद्य समाजतः । अक्षरविषये एतादृश्याः अस्थिरतायाः कारणम् अनेके स्यात् । तत्र प्रधानम् अक्षरस्य लिपेश्च भेदज्ञानं नास्ति इत्येव । अतः तद् अस्माभिः चिन्तनीयमस्ति ।

अक्षरलिप्योः भेदः[सम्पादयतु]

नञ्-पूर्वक-क्षर-सञ्चलने इति धातोः निष्पन्नोऽयम् अक्षरशब्दः । चलनरहितं स्थिरम् इत्यर्थः । अक्षरं तु मोक्षेऽपि इति अमरसिंहः नामलिङ्गानुशासने, मोक्षेऽपवर्गे ओम् ब्रन्मण्यच्युतेऽक्षरम् इति अनेकार्थकोशे च । नाशरहितम् (अच्युतेऽक्षरम्) इत्यपि अर्थः । एवं तर्हि अक्षरस्य गणनाविषये मतभेदः न भवेदिति स्पष्टं खलु । संस्कृतस्य लिपिः देवनागरीलिपिः इति प्रसिद्धा एव । 'लिप उपदेहे' इति धातोः निष्पन्नः अयं लिपिशब्दः लिबिः इत्यपि उच्यते । लेखनसमये तत्रैव संश्लिष्य तिष्ठति इत्येव अस्त्य लिपिशब्दस्य अर्थः । उच्चरितध्वनेः सड्केतः खलु लिपिः । लिखिताक्षरसंस्थाने लिपिर्लिबिरुभे स्त्रियौ इत्यमरश्च । (स्त्रीलिङ्ग एव प्रयोगः इति श्रद्धा देया) अतः एव अक्षरस्य लिपेश्च भेदः अस्ति इति अवश्यं मन्तव्यम् । लिपिः प्रतिजनं भिन्नं भवति चेत् दोषं वक्तुं न शक्यते । अक्षरं न तथा ।

अक्षरस्य सांस्कृतिकपश्चात्तलम्[सम्पादयतु]

अक्षरस्य पश्चात्तले महान् कश्चित् सांस्कृतिकसङ्कल्पः अस्ति भारतीयानां चिन्तने । ओम् इत्येकमेव अद्वितीयमक्षरं विवर्तनभावेन अनेकरूपैः भासते । भारतीयानां दृष्ट्या एकैकस्यापि अक्षरस्य देवतासङ्कल्पश्च अस्ति । अपि च भारतराष्ट्र्स्य शरीरे याः शक्तिपीठाः सन्ति तेषां बीजमन्त्राक्षराणि च मातृकावर्णमालाम् अनुसरन्ति इत्यपि ज्ञातव्यम् । अस्माकं शरीते स्नायुकेन्द्ररचना तस्याः स्पन्दः इत्यादयः अपि अक्षरैः सम्बद्धाः सन्ति । व्यक्तिशरीरं समूहशरीरं राष्ट्रशरीरं प्रपञ्चशरीरं च समानतां भजन्ति तस्य धटनाविशेषे इति अस्मत्सिद्धान्तः । एतैः सर्वैः एव अक्षराणां विशकलनं सुष्टु भवितुमर्हति ।

"https://sa.wikipedia.org/w/index.php?title=अक्षरम्&oldid=395063" इत्यस्माद् पुनः प्राप्तिः