अद्वैतसिद्धिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


श्रीमधुसूदनसरस्वतिस्वामिभिः विरचित अद्वैतसिद्धिः नामकग्रन्थः अद्वैतवेदान्ते प्रसिद्धपञ्च सिद्धिग्रन्थेषु शिखरप्रायः विराजते । इतरसिद्धिग्रन्थाः तावत् –

श्रीसुरेश्वराचार्याणां ’नैष्कर्म्यसिद्धिः’,
श्रीमण्डनमिश्रकृत ’ब्रह्मसिद्धिः’,
श्रीविमुक्तात्मकृत ’इष्टसिद्धिः’ तथा
श्रीगङ्गाधरेन्द्रसरस्वतीनां ’स्वाराज्यसिद्धिः’ ।

एते ’पञ्च सिद्धिग्रन्थाः’ इति ख्याताः । तेषु अद्वैतसिद्धिः अत्यन्तप्रौढकृतित्वेन श्रीमधुसूदनसरस्वतीस्वामिनां प्रखरपाण्डित्यस्य निकषतां वहति ।

श्रीमधुसूदनसरस्वतीनां जीवनपरिचयः[सम्पादयतु]

एतेषां पूर्वजाः कनौजजनपदीयाः । १२ तम शतमाने राज्यमेतत् जयचन्द्रस्य पालने अवर्तत । पश्चात्तत्र महम्मदीयानां प्राबल्यवर्धने सति निष्ठावन्तब्राह्मणाः सकुटुम्बं ततो निर्गताः । श्रीमधुसूदनानां पूर्वजाः श्रीराममिश्रमहोदयाः वङ्गदेशस्थनवद्वीपं स्वस्थानत्वेन प्राप्तवन्तः । एते पण्डितप्रवराः तथा अग्निहोत्रिणः च आसन् ।

तस्मिन्नेव वंशे जाताः प्रमोदन पुरन्द्राचार्याः मधुसूदनसरस्वतीनां पितृवर्याः । तेषां चतुर्षु पुत्रेषु तृतीयाः श्रीमधुसूदनाः । तेषां पूर्वनाम कमलनयनः इति । प्रमोदन पुरन्द्राचार्याः वङ्गदेशस्य फरिदपुरप्रान्तस्य कोचाली अथवा कोशलिपाडा पर्गाणाजनपदस्य उनसिया ग्रामे वसन्नासन् । मधुसूदनस्य बाल्यजीवनं तत्रैव यापितमासीत् । कमलनयनः बाल्यप्रभृति प्रतिभासम्पन्नः, कवित्वकुशलः च । व्याक्रणकाव्यकोशान् पितुः सकाशादेव अधीतवान् । तस्य कवितान् जनाः सप्रियं शृण्वन्ति स्म ।

यदा पित्रा सह कमलनयनः चन्द्रद्वीपं प्रति ययौ तदा तद्राजा शंदर्पनारायणसिंहः तस्य पद्यश्रवणे आसक्त अभवत् । तत्पठनं यदा आरब्धं तदा राजा अन्यत्रमना जातः । तेन खिन्नः कमलनयनः मर्त्यस्तावकपद्याः नैव रचनीयाः इति निरदधात् । तस्य मनः ईश्वरं प्रति प्रवणतां प्रापत् । चैतन्यमहाप्रभोः अनुयायित्वमिच्छन् असौ नवद्वीपं प्रति अगच्छत् तम् अन्विच्छन् । तत्स्थानप्राप्तेः पूर्वं चैतन्यस्वामी नवद्वीपात् प्रस्थाय अन्यत्र गतवान् । कमलनयनः तु तदन्वेषणापेक्षया नवद्वीपे एव स्थित्वा मथुरानाथतर्कवागीशशिष्यत्वे न्यायशास्त्राध्ययने प्रववृतौ । अल्पकाले एव असौ तत्रस्थन्यायशास्त्रकोविदानां मध्ये गण्यत्वं प्राप्तवान् ।

अद्वैताध्ययनं संन्यासस्वीकाराश्च[सम्पादयतु]

कमलनयनः अद्वैतवेदान्तं द्वेष्टि स्म । तत्खण्डने बद्धादरः अभूत् । तदर्थम् अद्वैतशास्त्राध्ययनम् आवश्यकं मत्वा काशीं जगाम । तत्र श्रीरामतीर्थे अद्वैतवेदान्तं तथा श्रीमाधवसरस्वतीभ्यः पूर्वमीमांसाशास्त्रं च अधीतवान् । अद्वैताध्ययनं तस्य तद्विषयद्वेषमपहाय तत्रातीव प्रीतिमुत्पादयत् । पूर्वकृततद्द्वेषदोषप्रायश्चित्तरूपेण अद्वैतप्रसारकार्ये स्वं जीवनम् अर्पयितुं निश्चिनोत् । श्रीरामतीर्था अपि तदेव उत्तमम् इति अङ्गीचक्रुः । सन्न्यासदीक्षाप्रार्थने सति ते तदर्थं श्रीविश्वेश्वरतीर्थान् सूचितवन्तः । कमलनयनः श्रीविश्वेश्वरसरस्वतिभ्यः सन्न्यासदीक्षां प्राप्य ’श्रीमधुसूदनसरस्वती’ इति नामाङ्कितोऽभूत् ।

श्रीमधुसूदनसरस्वतीस्वामिनः राजा अक्बर्समकालीनाः । तत्रत्य विद्वद्गोष्ठ्यां भागग्राही च आसन् । राणा तोडद्मल्लस्य ’खेत्री’जातेः क्षत्त्रियान्तर्गतत्वं न्यरूपि । तदनुग्रहवशात्तस्य नृपस्य पत्नी यया व्याधिना पीडिता अभवत् तन्निवारणमवाप इति ज्ञायते । एवमेव तेषां तपोबलात् उत्कलप्रदेशे अनावृष्टिभीतिः परिहृता इत्यपि श्रूयते । द्वादशसंवत्सरदीर्घतपसि निरता अभवन्नित्यपि उक्तिरस्ति ।

यद्यपि अद्वैतवेदान्ते अपारपाण्डित्यं प्राप्तं तथापि तेषां मनः शान्तिं न प्राप । तत्परिहारान्वेषणे परमहंसयतिः कश्चित् तेभ्यः कृष्णमन्त्रोपदेशं दत्त्वा दीर्घकालानुष्ठाने तान् आदिदेश । तदनुष्ठानमग्ना मधुसूदनसरस्वतयः भक्तेः माहात्म्यम् अवगतवन्तः । तदद्वैतसाधनं प्रति अत्यावश्यकमित्यपि जानन् अद्वैतानुगुणीं भक्तिं तैः प्रत्यपादि ।

श्रीमतां काले हिन्दुजनानाम् उपरि महम्मदीयानाम् आक्रमणं नियतरूपेण घटते स्म । साधुसन्तान् ते खलाः न तेषां धूर्तक्रियासु पृथक्पश्यन्ति स्म । तत्प्रतीकारदृष्ट्या सैनिकान् सन्न्यासदीक्षितान् कृत्वा धर्मरक्षकसैन्यं निर्ममे श्रीमधुसूदनाः ।’दशनामी’ संप्रदायप्रवर्तकाः ते एव इति कथ्यते । ’नाग’साधवः श्रीयुतान् परम्पराप्रवर्तकत्वेन मन्यन्ते ।

कृतयः[सम्पादयतु]

श्रीमधुसूदनकृतयः प्रायः द्वविंशति संख्याकाः । तेषु सप्तदश कृतीनां रचयितृत्वविषये नास्ति संशयः । अवशिष्टपञ्च कृतीनां विषयः संशयास्पदः । तेषां प्रमुखकृतयः एताः – वेदान्तकल्पलतिका, अद्वैतसिद्धिः, अद्वैतरत्नरक्षणम्, भगवद्भक्तिरसायनम्, प्रस्थानभेदः इति । एते स्वतत्रग्रन्थाः । श्रीशंकराचार्याणां ’दशश्लोकी’ ग्रन्थस्य व्याख्यानरूप’सिद्धान्तबिन्दुः’ अद्वैतशास्त्रस्थप्रमुखप्रमेयान् (प्रवलयान्) सर्वानपि विचार्य, विविधमतभेदानां समन्वयकरणद्वारा स्वतन्त्रकृतित्वेनैव मानितो वर्तते ।(पुष्पदन्तकृत) ’महिम्नस्तोत्र’व्याख्यायां श्रीमधुसूदनाः एकैकोऽपि श्लोकः हरि-हरपरः इति अदर्शयन् । श्रीमद्भगवद्गीतायाः व्याख्यारूप’गीतागूढार्थदीपिका' तेषां ग्रन्थेषु मूर्धन्यस्थानं वहति । कृतिरियं तेषां ग्रन्थेषु सर्वेष्वपि जनप्रियत्वश्रैष्ठ्यत्वेन ख्याता वर्तते । तत्र ग्रन्थे यद्यपि अद्वैतवेदान्तानुसारिव्याख्या कृता तथापि भक्ति-योगौ महत्त्वाधिकं लभेते । ’कृष्णकुतूहलः’नाटकम् तथा ’आनन्दमन्दाकिनी’ स्तोत्रकाव्यं तत्कृतम् । श्रीचरणाः प्रायः क्रि.श. १६६७ पर्यन्तं जीविताः इति ऊह्यते । प्रायेण १०७ संवत्सरकालं यावत् लोकजीवनं याप्य हरिद्वारक्षेत्रे मुक्तिमवापुः इति ऐतिह्यम् । तेषां सम्बन्धि बह्व्यः ऐतिह्यकथाः सन्ति । तेषु अन्यतमः श्रीतुलसीदासैः सह आत्मीयसंबन्धः आसीत् इति विषयः । [[तुलसीदासः|तुलसीरामायणम्]] अधिकृत्य खण्डनात्मकवार्ताः श्रुत्वा श्रीतुलसीदासाः यदा श्रीमधुसूदनान् प्रति प्रकटितवन्तः तदा तत्सान्त्वनम् एवं कृतम् इति कथ्यते –

आनन्दकनने ह्यस्मिन् जङ्गमस्तुलसीतरुः ।
कवितामञ्जरी यस्य रामभ्रमरचुम्बिता ॥ इति ।

[आनन्दकनने = काशीक्षेत्रे, तत्रस्थतुलसीदासनामा चलनयुतः तरुः वर्तते । तस्य कवितापुष्पगुच्छं श्रीरामाख्यभ्रमरः चुम्बति]

अक्बर्नृपतेः राजसभायां जातवाक्यार्थगोष्ठ्यां श्रीमधुसूदनानाम् अगाधपाण्डित्येन विस्मिताः पण्डिताः तान् एवं श्लाघयांचक्रुः –

मधुसूदनसरस्वत्याः पारं वेत्ति सरस्वती ।
पारं वेत्ति सरस्वत्याः मधुसूदनसरस्वती ॥ इति ।

तेषाम् अन्त्ये वयसि यदा ते नवद्वीपं गताः तदा तत्पाण्डित्यप्रभया तत्रस्थविद्वद्वृन्दं हतप्रभम् अभवत् –

नवद्वीपे समायाते मधुसूदनवाक्वतौ ।
चकम्पे तर्कवागिशः कातरोऽभूद्गदाधरः ॥

अद्वैतसिद्धिरचनायाः पूर्ववृत्तान्तः[सम्पादयतु]

शंकरोत्तराद्वैतवेदान्ते श्रीमधुसूदनसरस्वतीनां विशिष्टमान्यस्थानम् अस्ति । ते अद्वैतवेदान्ते जातविविधमतभेदान् विचार्य समन्वयकरणेन सह प्रतिवादिकृताक्रमणस्य समर्थाभिभवकार्ये महत्प्रयत्नं कृतवन्तः । नव्यन्यायशैलिमाश्रित्य रचितग्रन्थः ’अद्वैतसिद्धिः’ तेषां प्रखरपाण्डित्येन तथा सूक्ष्मतर्ककौशलेन प्रख्यातो वर्तते । अद्वैतसिद्धेः रचनायाः प्रेरकस्तु श्रीव्यासतीर्थानां ’न्यायामृतम्’ नाम ग्रन्थः । मध्वमतानुयायिनः तेऽपि तर्कशास्त्रे निष्णाता एव । द्वैतसिद्धान्तमभ्युपगम्य ते अद्वैतस्य प्रमुखप्रमेयान् खण्डयन्ति । जगत् सत्यम् इति वादिनः ये द्वैतिनः, तेषां तद्विरुद्धतया जगन्मिथ्या इति वदद्भिः अद्वैतिभिः सह तीक्ष्णः वादः प्रवृत्तः । श्रीव्यासतीर्थैः नव्यन्यायमाश्रित्य प्रपञ्चमिथ्यात्ववादखण्डने प्रवृत्तौ सत्याम्, तद्वादस्य उद्धरणं श्रीमधुसूदनसरस्वतीनाम् अवश्यकर्तव्यकार्यं जातम् । तत्कार्यं शिरसा वहन् श्रीमधुसूदनाः अद्वैतसिद्धिं रचित्वा यशः प्राप्तवन्तः । एतत् खण्डन-मण्डनपरम्परा तावत् पुनः श्रीरामाचार्याः, श्रीअनन्तकृष्णशास्रिणः इत्यादिभिः अनुवर्तिता जाता ।

ग्रन्थरचनाया उद्देशः[सम्पादयतु]

अद्वैतसिद्धेः प्रारम्भे ग्रन्थकाराः ग्रन्थरचनाया उद्देशम् एवं प्रतिजानन्ति –

श्रद्धाधनेन मुनिना मधुसूदनेन सङ्गृह्य शास्त्रनिचयं रचितातियत्नात् ।
बोधाय वादिविजयाय च सत्वराणामद्वैतसिद्धिरियमस्तु मुदे बुधानाम् ॥ इति ।

एतच्छ्लोकोक्तनयेन ग्रन्थस्यास्य प्रयोजनद्वयम् अवगम्यते –

१. ब्रह्मबोधः, नाम अद्वैतविषयकज्ञानस्य आधिक्यप्राप्तिः, तथा
२. प्रतिवादिविजयः – अद्वैतसिद्धान्तं सम्यगनवगम्य अथ वा अवगम्यापि अनङ्गीकुर्वन् आक्षेपकाणां वादानां खण्डनम् इति । तादृशाक्षेपाः सारहीनाः इति सिद्धीकरणम् । तथापि बोधापेक्षया वादिविजय एव प्राधान्यं भजते इत्यत्र नास्ति संशयः ।

अद्वैतेन सिद्धिः प्राप्तव्या चेत् द्वैतं मिथ्या इति साधयितव्यम् । द्वैतमेव सत्यं यदि तर्हि अद्वैतं मिथ्यात्वे पर्यवस्यति । तदर्थं द्वैतस्य सत्यत्वपरीक्षा आवश्यिकी । तस्य मिथ्यात्वं प्रदर्शनीयं भवति । तदुपायः तु स्वपक्षसाधनं तथा परपक्षनिराकरणम् । तत्प्रतिपादने वादजल्पवितण्डेषु अन्यतमस्य आश्रयणम् अनिवार्यम् ।

वादजल्पवितण्डानां भेदः[सम्पादयतु]

अत्र वादजल्पवितण्डानां भेदः अवगन्तव्यः । एते न्यायशास्त्रस्य पारिभाषिकशब्दाः । प्राचीनभारते निर्वर्त्यमानचर्चायाः स्वरूपं लक्षयन्ति एते शब्दाः ।

वादः[सम्पादयतु]

वादो नाम तत्त्वनिश्चयार्थं आश्रयमाणचर्चाविशेषः । तत्र जयापजयौ न मुख्यौ । सत्यस्य बोधप्राप्तिरेव प्रधानम् । प्रायः स्वपक्षीयेषु प्रवर्तमानचर्चा इयम् ।

जल्पः[सम्पादयतु]

जल्पः तु अन्यं जेतुं क्रियमाणः चर्चाविशेषः । अत्र स्वीयाभिप्रायस्य एव समीचीनत्वस्थापने आग्रहः भवति ।

वितन्डः[सम्पादयतु]

वितण्डः तु परपक्षखण्डनमेव लक्ष्यीकृत्य प्रवर्तते । नाम, वितण्डस्य लक्ष्यं परस्य दोषस्य आविष्करणमात्रे भवति । तेनैव स्वपक्षस्थापनं सिद्ध्यति । तत्र वितण्डवादी स्वीयपक्षम् अप्रकटयन् परपक्षं खण्डयति । एतत् त्रयं ’कथा’ इति नैयायिकाः परामृशन्ति । स्वपक्षसाधन-परपक्षनिराकरणसन्दर्भेषु एतत्त्रयाणाम् उपायानां यथायोग्यं प्रयोगः अपेक्ष्यते । श्रीमधुसूदनाः वादकथाम् आश्रयन्ति । इदं तावत् विप्रतिपत्तिं संशयत्वेन गृहीत्वा तस्य समाधानकथनद्वारा मध्यस्थवत् पक्षप्रतिपक्षद्वयं निरूपयन् प्रवर्तनम् । पूर्वं पूर्वपक्षस्थितिं प्रतिपाद्य पश्चात् तस्य उचितदिशा समाधानं वदन् गच्छति । अनया रीत्या अद्वैतप्रतिपादनं तथा द्वैतनिराकरणम् उभयं यथा सिद्ध्यति तथा सावधानं वहन्ति ।

ग्रन्थस्य परिचयः[सम्पादयतु]

अद्वैतसिद्धिः परिच्छेदचतुष्टयोपेतः ग्रन्थः । तेषु आद्यौ द्वौ परिच्छेदौ अतिविस्तृतौ भवतः । एतद्ग्रन्थमुद्रणं प्रथमपरिच्छेदः प्रथमभागत्वेन तथा अवशिष्टपरिच्छेदत्रयं अपरभागतया क्रियते । तृतीयचतुर्थपरिच्छेदौ अतिलघुभूतौ इति हेतोः ईदृशी व्यवस्था ।

प्रथमपरिच्छेदः[सम्पादयतु]

प्रथमपरिच्छेदे आदितः श्रीव्यासतीर्थैः जगन्मिथ्यात्वविषये ये आक्षेपाः उत्थापिताः तेषां समाधानं कथितम् । श्रीव्यासतीर्थाः तेषां न्यायामृतग्रन्थे मिथ्यात्वं नाम किम् इति पृच्छन् अद्वैतिनः मिथ्यात्वे यानि लक्षणानि वदन्ति तानि आक्षिपन्ति । पञ्च लक्षणानि विचार्य तेषाम् असङ्गतां निरूपयन्ति । तेषु प्रथमं पञ्चपादिकाग्रन्थे मिथ्यात्वम् अनिर्वचनीयम् इति यदुक्तं तत् । तदेवं भवति – यत् सत् इति वा असत् इति वा निर्वक्तुम् अशक्यं तत् मिथ्यात्वलक्षणम् इति । [’सदसदनधिकरणरूपत्वमनिर्वाच्यम्’ इति तद्वाक्यम्।] इदं वाक्यं –’सत्त्व –अत्यन्ताभाववत्त्वे सति असत्त्व – अत्यन्ताभाववत्त्वरूपं विशिष्टम्’ इत्येवं ग्रहीतव्यम् । [andare iruvikeyu illadivruva mattu illadiruvikeyu illavAgiruvudu mithyeyendaayitu.] एतस्मात् किं ज्ञायते? अस्तिता तथा नास्तिता इत्यनयोः मध्ये विरोधः अस्ति । वस्तुत्वेन ’अस्ति’ चेत् तत् ’नास्ति’ इति नोच्यते । ’नास्ति’ चेत् वस्तु तर्हि ’अस्ति’ इति नोच्यते । अयं स्वविरोधः खलु? तौ प्रत्येकं अङ्गीकर्तुं शक्येते । तयोः सहभावित्वं तु न स्वीकर्तुं शक्यते । शशोऽपि स्यात्, विषाणम् अपि स्यात् । परन्तु शशविषाणं कथं अङ्गीकर्तुं पारयामः?

अत्र श्रीमधुसूदनाः ’अस्ति’ तथा ’नास्ति’ इति कल्पनयोः सर्वदा व्याघातदोषं न वक्तव्यम् इति वदन्ति । असद्वस्तुनः तथा मिथ्यावस्तुनः मध्ये भेदः अस्ति । असद्वस्तु कदापि न भासते । यथा शशविषाणम् । तत् कदापि न दृष्टिगोचरं भवति । एवमेव सद्वस्तु भूतभविष्यद्वर्तमानकालेषु अपि अबाधितं वर्तते । तत् तु निर्वक्तुं शक्यते । परन्तु मिथ्यावस्तु न एवम् । तत् सदिव भासते । यथा रज्ज्वां प्रतीयमानः सर्पः । सर्पः तत्र वस्तुतः नास्ति । परन्तु सदिव भासते । तस्मादेव तद्विषये अस्ति इति वा नास्ति इति वा नैव वक्तुं शक्यते । यावत्प्रतीयते तावत् मिथ्यावस्तु अस्ति इति उच्यमाने अपि तत् वस्तुतः अस्तित्वं नैव प्राप्नोत् इति यदा ज्ञायते तदा नास्ति इत्येव वक्तव्यं भवति ।

अद्वैतानुसारं सद्वस्तु इत्युक्तौ ब्रह्म मात्रम् अवगम्यते, तत्तु सर्वानुगतम्, तं कथञ्चिदपि निराकर्तुम् अशक्यम् । तस्य अस्तित्वम् सर्वथा (सर्वत्र) साधितुं शक्यते । ’घटः अस्ति’ इत्यत्र अपि ’अस्ति’ इति प्रतीतिद्वारेण अस्तित्वस्य सूचनं ब्रह्मणः अस्तित्वमेव इति गम्यते । प्रपञ्चं ब्रह्म इव सर्वदा वर्तमानवस्तु इति ग्रहीतुं नैव शक्यते । यद्यपि व्यवहारकाले ’अस्ति’ इति व्यवहृतःअपि पारमार्थिकास्तित्वं तस्य नैव सिद्ध्यति । नापि मिथ्यावस्तु अस्तित्वविरहितशशविषाणादिवत् तुच्छत्वकोटावन्तर्भाव्यमिति मन्तव्यम्। तस्मात् प्रतीतिविषयो भूत्वा सत्यत्वं यद्भजते पश्चात् सम्यज्ज्ञानानतरं नास्तित्वम् आप्नोति सोऽयं प्रपञ्चः मिथ्या इति परिगण्यते ।

मिथ्यात्वम्[सम्पादयतु]

अद्वैतिनः मिथ्यात्वं प्रकारान्तरेणापि प्रतिपादयन्ति – ’प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं मिथ्यात्वम्’ इति । अत्र उपाधिपदेन अधिकरणं गम्यते । लक्षणं तावत् एवं सुलभग्राहि भवति – ’विद्यमानत्वेन भासमानेऽपि कालत्रयेऽपि अविद्यमानत्वं यस्य अवगम्यते तत् मिथ्यात्वम्’ इति । एतत् विमर्शमानाः श्रीव्यासतीर्थाः एवम् अभिप्रायं प्रकटयन्ति – ’त्रैकालिकनिषेधः सत्यमेव । परं तु सत्यनिषेधस्य ब्रह्मणा साकं वर्तमानत्वात् अद्वैतहानिः प्रसज्येत ।यदि अयं निषेधः मिथ्या इति वा गौणतया सत्यम् इति वा अभ्युपगम्यते, तर्हि प्रपञ्चभानं सत्यं इति आयाति । तथा हि मिथ्यात्वं सत्यमिति चेत् अद्वैतहानिः, मिथ्या इति चेत् प्रपञ्चस्य सत्यत्वम् अनिवार्यम् ।’ इति ।

अस्य आक्षेपस्य उत्तरदानावसरे श्रीमधुसूदनाः ’निषेधः ब्रह्माभिन्नः भवति’ इति आहुः । यतो हि ब्रह्मैव मिथ्यात्वस्य अधिकरणम् इति बोद्धव्यम् । मिथ्यात्वस्य सत्यत्वं प्रापञ्चिकव्यवहाराणां सत्यत्वं न स्थापयति । अयं निषेधः तेषां सत्यत्वनिराकरणे प्रयुज्यते । अन्यत् च, मिथ्यात्वस्त्य मिथ्यात्वं प्रपञ्चस्य सत्यत्वमपि न साधयति । शुक्तौ रजताभावं परिशीलयामः । शुक्तौ रजतं न विद्यते । अतः तत्र विद्यमनत्वेन मतरजतं मिथ्या भवति । कालत्रयेऽपि रजतं शुक्तौ न भवति इति तस्य मिथ्यात्वविशेषणमपि वस्तुतः न युज्यते । अतः मिथ्या अपि मिथ्या भवति । तस्मात् मिथ्यात्वं मिथ्या जातम् इति सत्यत्वं स्थापितं भवति इति न अभ्युपगम्यते । तत्कथनम्, सिद्धिः, तयोः समानस्तरवर्तित्वे एव नान्यथा ।

परपञ्चस्य निराकरणं नाम प्रपञ्चत्वेन दृश्यमान/अनुभूयमानस्य सत्यत्वस्य निराकरणम् इति बोध्यम् । इदं शुक्तौ प्रतीयमानरजतस्य निराकरणमिव । दृश्यप्रपञ्चः अज्ञानकार्यम् इति उच्यमाने तत्र सत्यत्वस्य सूचना वर्तते इति न मन्त्वयम् । तत्तु स्वरूपतः असदेव । कार्यत्वेन जातम् अथवा न जातम् इति एतत् न गण्यम् । शुक्तौ दृष्तरजस्य निराकरणे ’न इदं रजतम्’ इत्युच्यते । अस्य अर्थः ’इदं सुवर्णकारस्थले लभ्यमानरजतं न’ इत्येव । एतत् अन्योन्याभावः इत्यपि कथ्यते । अत्र तु ’न इदं रजतम्’ इति कथने रजतास्तित्वनिराकरणं क्रियते । एतेन अवभासमानस्य मिथ्यात्वं स्पष्टम् उक्तम् अभवत् । [’सा च पुरोवर्तिरजतस्यैव व्यावहारिकम् अत्यन्ताभावं विषयीकरोति इति कण्ठोक्तमेव मिथ्यात्वम् ।’ अद्वैतसिद्धिवाक्यमिदम् ।] अतीतवाक्ये मिथ्यात्वं सूचितं वर्तत्वे यद्यपि अत्र तदितोऽपि स्पष्टं जातम् । ’इह दृश्यप्रपञ्चः न विद्यते’ इत्युक्ते प्रपञ्चस्य सार्वत्रिकाभावं सूचितं भवति । नाम, इदम् अत्यन्ताभावकथनमेव न तु अन्योन्याभावसूचकवचनम् ।

अभावः[सम्पादयतु]

अद्वैतशास्त्रे अभावः विशिष्टपदार्थत्वेन न अभ्युपगम्यते । नैयायिकैः तदङ्गीकारः स्मर्तुमर्हति । अद्वैतिनः अभावं निर्धर्मकाधिकरणेन अभिन्नं मन्यन्ते । ब्रह्मणि नास्ति गुणाः; निर्गुणं हि तत् । तावता निर्गुणत्वमेव वस्तुत्वेन न मन्तव्यम् । निर्गुणत्वं शुद्धस्वरूपकथनार्थं प्रयुज्यते । ब्रह्म अनन्तम् इति निर्दिष्टम् ।एतत् (अनन्तत्वम्) गुण इति न अवगन्तव्यम्।तत् ब्रह्मणः परिच्छिन्नत्वनिराकरणमात्रे प्रयुक्तम् ।

एवमेव ’ज्ञाननिवर्त्यत्वं मिथ्यात्वम्’ – ज्ञानेन नश्यमानं मिथ्यात्वलक्षणं विवेचयन् श्रीमधुसूदनसरस्वतयः वस्तुनः नाशः द्विप्रकारेण भवति इति वदन्ति – कार्यस्य नाशः तथा कारणस्य नाशः इति । घटः मुद्गरपातनेन नश्यति । इदं कार्यस्य नाशे उदाहरणम् । अत्र घटकारणस्य मृदः नाशो नास्ति । शशशृङ्गं अस्तित्वमेव न भजति । तस्य नाशे ज्ञानं न कारणं भवति । शुक्ति-रजतप्रतिपत्तौ शुक्तिज्ञाने सति रजतस्य नाशो घटते । अत्र नाशो ज्ञानेन निर्वर्तितः । नाशोऽयं ज्ञानक्रियया संपन्नः इति कथनं न दोषाय । अतः मिथ्यात्वं ज्ञानपूर्वं वा ज्ञानोत्तरं वा इति प्रश्नोऽनर्थकः ।मिथ्यात्वनिराकरणं ज्ञानेन साक्षादेव भवति न तु अपरोक्षतया । (वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिर्वर्त्यं विवक्षितम्) [Here, the author of the Kannada article has not explained the other alternative of ‘kAraNasya nAshaH’ for resulting in the vastunAshaH]

‘स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वम्’ – स्वस्य अस्तित्वस्य आश्रये (अधिकरणे) अवर्तित्वम् अथ वा ’स्वात्यन्ताभावाधिकरणे एव प्रतीयमानत्वम्’ – स्वस्य अत्यन्ताभावः यत्र अधिकरणे तत्र प्रतीयमानत्वम् – अस्य विवरणसमये श्रीचरणाः एकस्य वस्तुनः एकस्मिन् काले एकदेशे वर्तमानत्वं तथा अवर्तमानत्वम् उभयं सङ्गच्छते इति वदन्ति । इदं नैयायिकरीत्या संयोगसमवायौ आश्रित्य वक्तुं शक्यते । घटो भूतले संयोगसम्बन्धेन वर्तते तथा समवायसम्बन्धेन न वर्तते इति ।

पञ्चमं लक्षणं तावत् – ’सद्विविक्तत्वं मिथ्यात्वम्’ इति । सत्पदार्थात् भिन्नत्वं वस्तुनः मिथ्यात्वम् । सद्वस्तु प्रमाणसिद्धं तथा दोषरहितम् । प्रमाणसिद्धत्वं अबाधितत्वमपि अन्तर्भावयति । लक्षणमिदं असद् (तुच्छ) वस्तुनः सकाशात् ब्रह्म विविच्यति । तुच्छवस्तुनः सद्वस्तुवत् न भासन्ते । ब्रह्म यद्यपि सत् तथापि न मनसा गृह्यते ।

एवमारब्धवादविवादाः द्वैताद्वैतमतभेदान् सर्वान् अन्तर्भावयन्ति । ये आक्षेपाः श्रीव्यासतीर्था उत्थापयन्ति ते पर्याप्तविवरणतां भजन्ते इति श्रीमधुसूदनानां समाधानानि च सविस्तराण्येव भवन्ति । ते अत्यन्तसूक्ष्माणि च सन्ति । दृश्यत्व-जडत्व-परिच्छिन्नत्व-सोपाधिकत्वादिबहुविषयाः चर्चिताः सन्ति ग्रन्थेऽस्मिन् । ते सर्वे अतिगहनाः तथा सूक्ष्माः च भवन्ति ।

द्वितीयपरिच्छेदः[सम्पादयतु]

द्वितीयपरिच्छेदे ब्रह्मणः स्वरूपमधिकृत्य विवृतचर्चा कृता वर्तते ।अखण्डार्थताविषयकचर्चा दृश्यते।ब्रह्म निर्गुणम्, निराकारम्, ज्ञानस्वरूपम्, स्वयंप्रकाशम् इत्येतान् सर्वान् विचारान् श्रुतेः तथा तर्कबलेन स्थापयन्ति सिद्धिकाराः । एवं ब्रह्मणः स्वरूपं विव्रीय पश्चात् द्वैतवादस्य प्रमुखप्रमेया निराकृताः सन्ति । तदनन्तरं जीवब्रह्माभेदं स्थापितं वर्तते । ’तत्त्वमसि’, ’अहं ब्रह्मास्मि’ इत्यादिवाक्यार्थविचारः प्रवृत्तः ।

तृतीयपरिच्छेदः[सम्पादयतु]

तृतीयपरिच्छेदः तावत् ब्रह्मसाक्षात्कारं प्रति साधननिरूपणे निरतः । श्रवणम्, मननम् तथा निदिध्यासनं साक्षात्कारसाधनत्वेन उपपादितं भवति । तत्र श्रवणं नाम तत्त्वमसीत्यादिश्रुतिवाक्यानां अवगतिः । अत्र गुरुणा शिष्यं प्रति तेषां वाक्यानां अर्थः यत् विवृतः तं शिष्यः सावधानेन शृणोति । मननम् इत्यत्र तर्कमवलम्ब्य चिन्तनं प्रधानम् । गुरूक्तवाक्यानि श्रुत्वा शिष्यः तानि मनसि बहुधा तर्कबलेन चिन्तयति, उदितसंशयनिवारणाय । निदिध्यासनं नाम निरन्तरचिन्तनम्, ध्यानम् इत्येतत् । एतत् साधनत्रयं बृहदारण्यकश्रुत्युक्त ’आत्मा वा अरे द्रष्टव्यः, श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्येतद्वाक्यम् अवलम्बते । एतत्त्रयमपि प्रत्येकं क्रमेण अवलम्ब्य अनुष्ठाय अन्ते ब्रह्मणः साक्षात्कारः प्राप्तव्यः इत्युच्यते । सिद्धिकाराः अस्मिन् तृतीयपरिच्छेदे अस्य विचारं चक्रुः । वस्तुतः मनननिदिध्यासने श्रवणस्य अङ्गभूते एव न तु स्वतन्त्रसाधनभूते । अपि तु श्रवणपर्याये यत् श्रुतं तस्य दृढत्वसम्पादनाय एतद्द्वयम् इति निरूपयन्ति ग्रन्थे । नाम, उत्तमाधिकारिणं प्रति श्रवणं मात्रं साधनं पर्याप्तम् । तावता साक्षात्कारसिद्धेः निराकरणं नैव सम्भवति । दश जनाः नदीं तीर्त्वा स्वीयगणने प्रवृत्ताः नव एव जनाः गणिताः इति चिन्ताक्रान्ताः बभूवुः । तान् अनुकम्प्य अन्य एकः मार्गगामी दशसङ्ख्याकान् तान् क्रमशः गणयित्वा अन्तिमम् उद्दिश्य ’दशमः त्वं असि’ इति बोधितवान् । ईदृशबोधः वेदान्तवाक्यश्रवणेन भवितुमर्हति । तादृशबोधः वाक्यश्रवणमात्रेण यस्य मन्दमध्यममतेः न भवति, तान् प्रति मनननिदिध्यासने आवश्यके भवतः । तस्मात् श्रवणं प्रति ते अङ्गभूतावेव न तु स्वतन्त्र/प्रत्येकसाधने ते इति परिच्छेदेऽस्मिन् निरूपयन्ति सिद्धिकाराः ।

चतुर्थपरिच्छेदः[सम्पादयतु]

चतुर्थपरिच्छेदे मोक्षस्वरूपचर्चा प्रवर्तिता । मुक्तिः अविद्यानिवृत्त्या न सिद्ध्यति इति आक्षेपवर्णनेन परिच्छेदः प्रारभते । ’मुक्तिः न अविद्याविवृत्तिरूपा भवितुमर्हति । यदि तद्रूपा भवति तर्हि किं आत्मरूपा सा उत तद्भिन्ना वा? नाद्यप्रकारिका यतो निवृत्तिरेव न सिद्ध्यति । द्वितीये आत्मभिन्नरूपा चेत्, किं सा सत्यं वा मिथ्या वा? यदि सत्यं तर्हि अद्वैतहानिः । यदि मिथ्या तर्हि अविद्या तथा तत्कार्येषु अन्यतमस्य अभ्युपगमोऽनिवार्यः । नाम, अविद्यानिवृत्तेः निवृत्तिर्भवतीत्यत्र अविद्याप्राप्तिः घटिष्यति । नो चेत् अविद्यानिवृत्तिरेव मिथ्या इति पर्यवस्यति ।’

अस्य आक्षेपस्य समाधानम् उच्यते सिद्धिकारैः । (मुक्तिः) चरमवृत्त्या उपलक्षितात्मविषयकाज्ञान-हानिरूपा इति भवदुक्तिः न साधु । फलतः चरमवृत्तिरूपोपलक्षणं साध्यत्वं प्राप्नोति इति मुक्तावपि साध्यत्वमस्ति । उपलक्षणनिवृत्त्या मुक्तिनिवृत्तिः नैव घटते । पक्तस्य व्ययेन न पाचकस्यापि व्ययः सम्भवति खलु? चित्सुखाचार्याः वदन्ति – ’ज्ञातत्वेन उपलक्षितात्मनः अज्ञानं निवर्त्यते । उपलक्षणस्य नाशेऽपि पाचक इव मुक्तिः अनुवर्तत एव ’। इति । वृत्तिं उपल्क्षणत्वेन प्राप्तः आत्मा वृत्तेः (नाश) अनन्तरमपि यथा पूर्वमपि विद्यमान एव, तथा अज्ञानकालेऽपि अज्ञानहानिः सिद्ध्यति इति न वक्तुं शक्यते । यतो हि पूर्वसिद्धस्य उपलक्षणस्य योगः न भवति । पाकसम्बन्धस्य पूर्वमेव पाचक इति व्यवहारः न युकतः’। उत्तरत्र अमुमेव विचारमादाय इतोऽपि अधिकचर्चा क्रियते ग्रन्थे ।

उत्तरप्रश्नः मुक्तिस्वरूपविषयकः । किं अविद्यानिवृत्त्या केवलं दुःखनिवारणमात्रं सिद्ध्यति ? निरतिशयानन्दप्रदो वा अविद्यानिवृत्तिः? नाम, मोक्षः दुःखनिवृत्तिमात्रावधिकः वा ? आनन्दस्वरूपो वा? केन कारणेन तत्पुरुषार्थशब्दभाक् भवति? सर्वानेतान् प्रश्नान् विचार्य अन्ते मोक्षः आनन्दस्वरूपः इति प्रतिपादितं ग्रन्थे । कस्य मोक्षः? इति प्रश्नमादाय अन्ते पुरुषार्थोऽयं चिदभिन्नः इति निर्णीयते । मुक्तौ तारतम्यम् अभ्युपगच्छन्ति द्वैतिनः, तन्निराक्रियते सिद्धिकारैः । जीवन्मुक्तेः साध्यासाध्यविचारान्ते तत्साध्य एव इति अध्यवसीयते ।

’तस्मात् स्वरूपानन्दस्य स्वप्रकाशरूपिणः ।
प्राप्तिर्मुक्तिर्न तत्रास्ति तारतम्यं कथञ्चन ॥’

स्वयंप्रकाशस्वरूपिणः आत्मनः आनन्दस्वरूपप्राप्तिरेव मोक्षः । तस्मात् तत्र किञ्चिदपि तारतम्यं न कथञ्चन इत्यभिप्रायः । अद्वैतसिद्धिग्रन्थो विदुषां कृते रचित इति सुप्रसिद्धम् । इममधीत्य अवगतिप्राप्तिरपि विदुषैरेव साध्या।

नव्यन्यायक्रममाश्रित्य रचितत्वात् दुरवगाह्य अपि ग्रन्थोऽयम् । तत्रस्थविचारान् प्राचीनक्रमाध्ययनरहितेभ्यः आधुनिकेभ्यः तद्भाषया अवगमयितुम् अतीव क्लेशकरः । प्रबन्धेऽस्मिन् तादृशप्रयत्नः यद्यपि कृतः, ग्रन्थस्य शतांशोऽपि अत्र न उल्लेखित इत्यवगन्तव्यम् । एतेन श्रीमधुसूदनसरस्वतीसदृशश्रेष्ठतार्किकस्य अल्परिचयोऽपि भवेत् चेत् प्रयत्नोऽयं सार्थकः स्यात् ।

श्रीमधुसूदनसरस्वतिस्वामिविरचित- ’अद्वैतसिद्धिः’ कन्नडमूलम् – प्रो.एम्.ए.हेगडे

इमान्यपि दृश्यताम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अद्वैतसिद्धिः&oldid=395081" इत्यस्माद् पुनः प्राप्तिः