अध्ययने अनुसन्धेया विमर्शपद्धतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Adhimasa

प्राय अस्माभिः बहवो ग्रन्था अभ्यस्यन्ते । तथापि तेषामध्ययने या विमर्शपध्दतिः अनुसन्धेया तत्र मतिर्न स्वरसतः प्रवहति । सूर्यरश्मिसंस्कृतं एक्वं फलमिवाध्ययनमपि विमर्शादिना पक्वं स्वस्य विदुषां च गोदाय भवतीति नातीव प्रतिपादनीयमस्ति । रामायणमहाकाव्यं संस्कृतज्ञैः कैर्वा विद्वद्भिर्नाधीतम् ? अनेके विद्वांसः रामायणपाठप्रवचनादिभिर्विख्याताः । तथापि विमर्शपध्दतिस्सर्वैरादृता वा इति प्रश्ने नैव समञ्जसमुत्तरं लभामहे । ‘रामायणम्’ एव पश्यन्तु भवन्त । कथमेनं ग्रन्थरत्नमुपलभ्य विमर्शः शक्यते कर्तुमिति । एष पन्थाः सर्वत्राऽपि आदरणीयः ।

१. ग्रन्थकर्तुः देशकालादि गवेषणीयम् ।
२. तत्प्रणीताः इतरप्रबन्धाः अवलोकनीयाः ।
३. निरुपितो विषयः, ऎतिहासिको वा आध्यात्मिको वा सामाजिको वा भवतु किमिदानीन्तनानामस्माकं तेन ग्रन्थाध्ययनेन प्रयोजनम् इति सर्वकालोपयोगित्वं समर्थनीयम् ।
४. ग्रन्थप्रभावः अन्यान्यप्रबन्धेषु विद्यमानः प्रदर्शनीयः ।
५. ग्रन्थेऽस्मिन् प्राक्तनकर्तृणां कृतीनां च प्रभावः यदि विद्येत तर्हि गवेषणीयः ।
६. ग्रन्थस्थविषयाणामबाधितत्वं निरुपणीयम्
७. ग्रन्थस्थानां केषाञ्चनाभिप्रायाणां विसंवादः विद्यते चेत् सहेतुकं निरुपणीयः ।
८. यं कमपि श्लोकं विषयं वा अधिकृत्य विमर्शः सविस्तरं कार्यः ।
९. ग्रन्थे तत्तच्छास्त्रपरिभाषया स्वीकारानर्हा विषयाश्चेत् भान्ति तर्हि ते उपस्थापनीयाः ।
१०. ग्रन्थे तत्तच्छास्त्रपरिभाषया स्वीकारार्हा प्रमाणान्तरसंवादयुक्ताः विषयाश्च प्रदर्शनीयाः ।
इत्येवमादिक्रमेणानेकधा विमर्शः कर्तुं शक्यते । उपरितननिर्दिष्टविषयेषु द्वित्रा विषयाः निदर्शनतयोपस्थाप्यन्ते ।

ग्रन्थप्रभावः अन्यान्यग्रन्थेषु विद्यमानः[सम्पादयतु]

महाकविना वाल्मीकिना प्रणीतस्य रामायणस्य प्रभावः कथं देशविदेशीयग्रन्थेषु विद्यत इति किञ्चिदिवावेदयामः- महाकविः कालिदासः रामायणमुपजीव्य रघुवंशमहाकाव्यं निर्ममे । भट्टिकविः भट्टिकाव्यम्, कुमारदासः जानकीहरणम्, अभिनन्दः रामचरितम्, क्षेमेन्द्रः रामायणञ्जरीम्, शाकल्यपल्यः उदारराघवम्, चक्रकविः जानकीपरिणयम्, मोहनस्वामी रामरहस्यम्, भासः प्रतिमानाटकम् अभिषेकनाटकं च , भवभूतिः महावीरचरितम् उत्तररामचरितं च, मुरारिरनर्थराघवम्, राजशेखरः बालरामायणम्, हनुमान् हनुमन्नाटकम्, जयदेवः प्रसन्नराघवम् इत्यनेके कवयः रामायणम् उपजीव्य काव्यनाटकानि प्रणिन्युः ।

रामायणमहाकाव्यस्यास्य प्रभावः भारतीयसर्वभाषासु धर्मग्रन्थेषु च सुस्पष्टं विद्यत इत्यतिरोहितं विदुषाम् मराठीभाषायां सेतुबन्धकाव्यम्, रविषेणविरचितं पद्माचरितम्, कन्नडभाषायां नागचन्द्रकृतं पम्परामायणम्, तमिळभाषायां कृतं कम्बरामायणम्, बुध्दराजुप्रणीतं तेलुगुभाषानिवध्दं रङ्गनाथरामायणम्, बेङ्गालभाषानिबध्दं कृत्तिवासीरामायणम्, उडियाभाषास्थं जगन्मोहनरामायणम्, हिन्दीभाषायां कृतं गोस्वामीतुलसीदासप्रभृतिप्रणीतं रामायणं च केनाविदितम् । तथाऽन्येऽपि ग्रन्थाः विदुषां दृष्टिगोचराः रामायणस्य तद्गतानुसन्धेयगुणानां च सर्वकालोपयुक्ततामावर्णयन्ति ।

इतः परं विमर्शः कथं कर्तव्य इत्यत्र निदर्शनरुपेण एकः विषयः प्रस्तूयते । रामायणे क्रमेण रामादयश्चत्वारः पुत्राः दशरथस्य जज्ञिरे इति निरुपितम् । आदौ श्रीमान् रामः प्रादुर्भूतः । ततो भरतः । ततो लक्ष्मणः । ततः शत्रुघ्न इति ।

नक्षत्रगणनाऽपीममेवार्थमवगमयति –
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः
सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥ -(वा.वा. का. १८-१५)

अत्र पुष्ये जातो भरतः ज्येष्ठः प्रतीयते । ततः आश्लेषानक्षत्रे जातौ लक्ष्मणशत्रुघ्नो अवरजौ प्रतीयेते । न केवलं सौमित्री सार्पे जातावपि तु यमळावपीत्याहुः रामायणव्याख्यातारः माधवयोगिरामप्रभृतयः । पुष्ये जनेरुक्तत्वात् अवश्यमभ्युपेयं भरतज्यैष्ठयम् ।

ननु लक्ष्मणं प्रति भरतकर्तृकनतिश्रुतेः कथं भरतज्यैष्ठयमुच्यत इति चेत्-उच्यते –
ततो लक्ष्मणमासाद्य वैदेहीं च परन्तपः ।
अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् ॥ -(युध्द.१३०-३८)

इत्यत्र लक्ष्मणसमीपगमनस्य वैदेहीमात्रनतेरुक्तत्वात् । एवमेव,

यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् ।
वने तत्रैव वत्स्यामि यथार्थो लक्ष्मणो यथा ॥ (अयोध्या. ८२-१८)

इति वचनमपि न भरतज्यैष्ठयनिराकरणपरम् । रामानुगामित्वेन तत्कैङ्कर्यनिरतत्वेन च लक्ष्मणे आर्यशब्दप्रयोगः । वयसा कनिष्ठे कर्मणा ज्येष्ठे चैतादृशा अभियुक्तप्रयोगा उपपन्नतराः ।

अपि च यदि लक्ष्मण एव ज्येष्ठः स्यात् तर्हि मन्थरोपदिष्टया कैकय्या रामनिर्वासनवरो न याचेत् । ‘भक्षितेऽपि लशुने न शान्तो व्याधिः’ इतिवत् रामवनगमनेऽपि तदनुजातस्य लक्ष्मणस्य राज्यावाप्तेः । कैकेय्यभिलषितानवाप्तेः । अतः भरतज्यैष्ठयमभ्युपेयम् । तथात्वे रामवनगमने तदनुजातस्य भरतस्य राज्यावाप्तिः न्यायप्राप्ता भवति । प्रतिपादितोऽयमर्थः भगवता वल्मीकिना कैकेयीवचनव्याजेन –

प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि ।
राज्यक्रमो विसृष्टस्तु तयोस्तावद् यवीयसोः ॥ इति । (अयोध्या. ८.७)

शक्यं भुजाभ्यामुध्दर्तुं न सङ्खे भरतानुजः (युध्द. ५९-१०७) इति वचनमप्येतमेवार्थं दृढयति । एवमारोहणक्रमेण भरतज्यैष्ठयमुपपादयितुं शक्यते । अथाप्यत्रैवं विमर्शः शक्यते कर्तुम् । अन्तरङ्गप्रमाणैरेव रामायणगतैः लक्ष्मणज्यैष्ठयमुपपादयितुं शक्यते । तथाहि

इति लोकसमाक्रुष्टः पादेष्वस्य प्रसादयन्।
रामस्य निपतिष्यामि सीतायाः लक्ष्मणस्य च ॥ (अयोध्या.९९-१७)

अनेन निरवकाशवचनेन लक्ष्मणज्यैष्ठयस्य सिध्दत्वेन वाक्यान्तराणि अन्यथैव योज्यानि । अत्र सुस्पष्टं भग्तकर्तृकलक्ष्मणाभिवादनश्रुतेः भरतज्यैष्ठयं नाभ्युपगमार्हम् ।

ततो लक्ष्मणमासाद्य वैदेहीं च परन्तपः ।
अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् ॥

इत्यत्रापि वैदेहीलक्ष्मणयोरुभयोरुपसत्तिः नतिश्च व्युत्पन्नानां श्रूयत इत्यविप्रतिपन्नम् । अन्यथाऽर्धजरतीयापत्तेः । केवलं वैदेह्याः नमनाङ्गीकारे चकारवैयर्थ्यम् । एतेनैव,

यदि त्वार्थं न शक्ष्यामि विनिवर्तयितुं वनात् ।
वने तत्रैव वत्स्यामि यथार्थो लक्ष्मणो यथा ॥ (अयोध्या.८२-१८)

इति वचनस्यापि गतिः प्रदर्शिता । अत्राप्यार्यशब्द अग्रजत्वादेव लक्ष्मणे प्रयुक्तः ।

अथ च रावणवधानन्तरं श्रीरामपट्टाभिषेके सम्पन्ने लक्ष्मणं यौवराज्यपदे नियोक्तुमैच्छत रामः । यदि ज्येष्ठः श्रेष्ठश्च भरतो भवति तर्हि रामेण तथादेशः क्रियमाण अयुक्त एव भवति । सति ज्येष्ठे भरते तं परित्यज्य कनिष्ठलक्ष्मणनियोगस्यान्याय्यत्वात् । न च धार्मिकः सुगुणपूर्णो रामः लक्ष्मणसेवया दाक्षिण्यानुक्रोशादिवशमापन्नः अज्येष्ठमपि लक्ष्मणमाह्वयामासेति युज्यते । प्रतिफलनिरपेक्ष एव ज्येषः श्रेष्ठश्च लक्ष्णः रामसेवां विधाय तत्रैवासक्तमनाः, प्रागेव राजकर्मणि सक्तस्यानुजभरतस्योदयमपेक्षमाणः निष्काम एव भरं नोरतीचकारेति उपपन्नतरम् । अन्यथा श्रीरामस्य मर्यादापुरुषोत्तमत्वानुपपत्तिः

अपि च पाञ्चरात्रागमग्रन्थेषु भगवतो नारायणस्य व्यूहरुपाणि श्रूयन्ते । वासुदेवः सङ्कर्षणः प्रद्युम्नः अनिरुध्दश्चेति । तत्र वासुदेवः रामो जातः । सङ्कर्षणाविष्टो शेषः लक्ष्मणः समभवत् । प्रद्युम्नश्च कामाविष्टः भरत अभवत् । अनिरुध्दश्च अनिरुध्दाविष्टः शत्रुध्नोऽभवत् । उक्तोऽयमर्थः मध्वाचार्यैः –

एवं स्थितेष्वेव पुरातनेषु वराद्रथाङ्गत्वमवाप कामः ।
तत्सूनुतामाय च सोऽनिरुध्दो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा ॥
तावेव जातौ भरतश्च नाम्ना शत्रुघ्न इत्येव च रामतोऽनु ।
पूर्वं सुमित्रातनयश्च शेषः स लक्ष्मणो नाम रघूत्तमादनु ।
सङ्कर्पणाद्यैस्त्रिभिरेव रुपै आविष्ट आसीत् त्रिषु तेषु विष्णुः ॥’ (म.ता.नि.३.७७-८०)
भागवतेऽपि लक्ष्मण्ज्यैष्ठ्यमुक्तमुक्तमेवार्थं दृढयति
रामलक्ष्मणशत्रुध्नभरताश्चेति संज्ञया । इति । (९.८.२)

नात्र लक्ष्मणानन्तरं शत्रुध्नोक्तिदोषः । एकमातृकपुत्रसङ्कीर्तनसौकर्यार्थमेव तदुक्तेः । नापि,

शक्यं भुजाभ्यामुद्धतुं न सङ्ख्ये भरतानुजः । (युध्द्. ५९.१०)

इति वचनमस्मत्परिपन्थि । अत्र ‘भरताग्रज’ इति वक्तव्ये ‘भरतानुज’ इति लेखकप्रमादायत्तम् । उक्तानुपपत्तीनाम् अपरिहार्यत्वात् । न च,

प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनी ।
राज्यक्रमो विसृष्टस्तु तयोस्तावद् यवियसोः ॥ इति । (अयोध्या. ८.७)

मन्थरावाक्यमपि भरतज्यैष्ठयोपपादकम् । उपक्रमविरुध्दत्वात् । रामवनगमने लक्ष्मणोऽपि सर्वात्मना तमनुनीयमानः तमनु वनमेवानुधावति नात्र तिष्ठतीति रामानुरक्तेरेव लक्ष्मणवनगमननिदानत्वेन मन्थरया कथितत्वात्,

लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ।
शत्रुघ्नश्चापि भरतं काकुस्थं लक्ष्मणो यथा ॥ इति । (अयोध्या.८.६)

तस्मात् लक्ष्मण एव भरतापेक्षया ज्येष्ठ इत्यङ्गीकरार्हम् ।

न च ‘सार्पे जातौ तु सौमित्रि’ इत्यादिनक्षत्रजनिः पूर्वोक्तप्रमेयविरोधिनी ।क्वापि वाल्मीकिना लक्ष्मणभरत योर्यमळत्वानुक्तेः । न चोक्तवचनमेव मानमिति शङ्क्यम् । उत्तरत्र तादृशभ्रान्तिनिवारणार्थमेव ‘राज्ञः पुत्राः महात्मानः चत्वारो जज्ञिरे पृथक् (बाल. १८.१६ । इत्युक्तेः । यमळयोरपि पृथग्जनिः प्रसिध्दैव । न सा वक्तव्या । पृथगिति वचनेन पूर्वश्लोकापातप्रतितयमळत्वं प्रतिषिध्दम् ।

ननु यमळत्वाभावे नक्षत्रव्यवस्था पृथग्जन्मव्यवस्था च कथमुपपाद्यत इति चेत् इत्यम् । उच्चस्थे ग्रहपञ्चके मेषं गते पूषणि (मेषमासे) रामजनिरासीत् । ततः मासत्रयानन्तरं कर्काटकमासे आश्लेषानक्षेत्रे लक्ष्मणो जातः । ततः पञ्चषण्मासावसाने पुष्यमासे मीनलग्ने भरत उत्पन्नः । पुनः षण्मासानन्तरं कर्काटकमासे आश्लेषानक्षत्रे शत्रुघ्नजनिः । लक्ष्मणशत्रुघ्नयोरुमयोर्भिन्नकालज्त्वेऽपि नक्षत्रैक्यात् अपृथगुक्तिः (सहोक्तिः) । उपपन्नं च लक्ष्मणात् शत्रुघ्नस्य वत्सरपर्यन्तः कालव्यत्ययः ।

न च यज्ञप्रसादस्य एकदैव कालाव्यवधानेन कार्यकारित्वमिति नियमः । प्रसादस्य यथाऽदृष्टं फलजनकत्वोपपत्तेः । तस्मात् सर्वमुक्तमुपपन्नम् । इयं विचारप्रणाली अर्वाक्तना आचार्यगोविन्दोपदर्शिता । एवं तत्र तत्र नूत्नः विचारः सर्वत्र कर्तुं शक्यते ।