अनेकबाहूदरवक्त्रनेत्रं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अनेक बाहूदरं - 11.16 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षॉडसः(१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतः अनन्तरूपम् न अन्तं न मध्यं न पुनः तव आदिं पश्यामि विश्वेश्वर विश्वरूप ॥ १५ ॥

अन्वयः[सम्पादयतु]

विश्वेश्वर, विश्वरूप ! त्वाम् अनेकबाहूदरवक्त्रनेत्रं सर्वतः अनन्तरूपं पश्यामि । तव आदिं न पश्यामि न मध्यं न पुनः अन्तम् ।

शब्दार्थः[सम्पादयतु]

विश्वेश्वर = जगदीश्वर !
विश्वरूप = सर्वरूप !
त्वाम् = भवन्तम्
अनेकबाहूदरवक्त्रनेत्रम् = बहुहस्तकुक्षिमुखनयनम्
सर्वतः = सर्वत्र
अनन्तरूपम् = अनवधिकस्वरूपम्
पश्यामि = वीक्षे
तव आदिम् = तव मूलम्
न पश्यामि = न वीक्षे
न मध्यम् = न मध्यभागम्
न पुनः अन्तम् = नापि अवसानम् ।

अर्थः[सम्पादयतु]

जगदीश्वर ! समस्तरूप ! त्वां तव बहुहस्तं बहुकुक्षिं बहुमुखं बहुनयनम् अनन्तं च स्वरूपं पश्यामि । तव मूलं मध्यम् अन्तं च ज्ञातुं न शक्नोमि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]