अम्बिकादत्तव्यासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



कविपरिचयः[सम्पादयतु]

अम्बिकादत्तव्यासः( Ambikadattavyasa) सामवतनाटके स्वपरिचयं प्रस्तुवन्नाह-

जातो जयपुरनगरे वाराणस्यां तथा कलितविद्यः।
सत्वरकवितासविता गौडः कोऽप्यम्बिकादत्तः॥

जनकोऽस्य दुर्गादत्तः। अयं बिहारप्रदेशे संस्कृताध्यापनं कृतवान्। अस्य स्थितिकलः ई १८५८ तः १९०० पर्यण्तम्।

कृतिपरिचयः[सम्पादयतु]

शिवराजविजयं, कथाकुसुमं, धर्माधमकलकलं, मित्रालापः, सामवतं चास्य संकृतकाव्यकृतयः।

शिवराजविजयम्[सम्पादयतु]

अयम् ऐतिहासिक उपन्यासः। अस्य कथावस्तु विरामत्रये विभक्तमस्ति। प्रतिविरामं चत्वारो निश्वासाः। नायकः शिवराजो वीरश्च मुख्योरसः। अन्ये रसा अङ्गत्वेन यथावसरं व्यक्ताः।

काव्यकला[सम्पादयतु]

शिवराजविजये परम्परागतशैलीम् आश्रित्य रसयोजना प्रकृतिवर्णनं, मानवीयसौन्दर्यवर्णनं, अलङ्कारयोजना, अन्यानि च काव्यतत्त्वानि समाविष्टानि, अर्वाचीनशैलीम् आश्रित्य च चरित्रचित्रण-कथोपकथन-कथानकयोजनादीनि प्रयुक्तानि। एवम् अयमुपन्यासः प्राचीनार्वाचीनशैल्यौः सङ्गमस्थलम्।
अत्र वर्णेषु वाक्ययोजनायां च बाणभट्टस्य प्रभावः। क्वचिद् वाक्येषु दीर्घता क्वचिच्च लघुता। भाषा प्राञ्जला प्रसादगुणोपेता प्रवाहमयी च। तद्यथा-
इत इतो गौरसिंह! उपविश, उपविश चिराय दृष्टोऽसि, अपि कुशलं कलयसि? अपि कुशलिनः तव सहवासिनः। अभ्यंगीकृतमहाव्रतं निर्वहत यूयम्। अपि कश्चन नूतनो वृत्तान्तः।
कविः चरित्रचित्रणे सफलः। शिवराजे नायकोचिताः सर्वे गुणाः सन्ति। स धीरोदात्तो नायकः। स वीरो नम्रो दयावान् मर्यादायाः स्वतन्त्रतायाश्च रक्षकः। तमेव परिवृत्य उपन्यासस्य कथावस्तु प्रसृतम्। ऐतिहासिके कथानके कल्पनाया अपि मिश्रणं वर्तते।
संवादा स्वाभाविकाः सरलाः प्रकरणानुकूलाः पात्राणां विविध-मनोवृत्तीनां परिचायकाश्च सन्ति। तद्यथा-

रसनारी- कतमोऽसौ भ्राता?
महाराजः- कुमारो मायाजिम्हः।
रसनारी- कथमत्रायातः?
महाराजः- सोऽस्माभिर्योद्धुमायात आसीत्।

प्रकृतिचित्रणे तु व्यासः अभिनवो बाणः। तेन प्रकृते विविधरूपाणां शब्दचित्राणि प्रस्तुतानि। प्रकृतेः सौन्दर्यम् आलम्बनत्वेन उद्दीपनत्वेन् च वर्णितम्। अलङ्कारप्रयोगस्तु चमत्कारजनकः। शब्दार्थालङ्काराः यथावसरं नैपुण्येन प्रयुक्ताः। उपमायां यमकालङ्कारस्य रमणीयः प्रयोगो यथा- "यदीयचित्रपूरदुर्ग परसहस्रा: क्षत्रियकुलांगनाः, शारदा इव विशारदाः, अनसूया इवानसूया, यशोदा इव यशोदाः, सत्या इव सत्याः, रूक्मिण्य इव रूक्मिण्यः, सुवर्णा इव सुवर्णाः।”

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अम्बिकादत्तव्यासः&oldid=418984" इत्यस्माद् प्रतिप्राप्तम्