सामग्री पर जाएँ

अमरेलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अम्रेली मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
अमरेलीमण्डलम्
मण्डलम्
गुजरातराज्ये अमरेलीमण्डलम्
गुजरातराज्ये अमरेलीमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters अमरेली
Area
  Total ७,३९७ km
Population
 (२०११)
  Total १५,१३,६१४
Languages
  Official गुजराती, हिन्दी
Website amreli.gujarat.gov.in

अमरेलीमण्डलम् (गुजराती: અમરેલી જિલ્લો, आङ्ग्ल: Amreli district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अमरेली इति नगरम् । संस्कृतभाषायाम् अस्य नगरस्य पुरातनं नाम अमरवल्ली इति आसीत् ।

भौगोलिकम्

[सम्पादयतु]

अमरेलीमण्डलस्य विस्तारः ७,३९७ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे विद्यते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भावनगरमण्डलं, पश्चिमे जुनागढमण्डलम्, उत्तरे राजकोटमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ५५० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा- शेत्रुञ्जी, थेबी, धातरवाडी, गागडियो, शान्तिः, वडी, रायडी ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणम् अमरेलीमण्डलस्य जनसङ्ख्या १५,१३,६१४ अस्ति । अत्र ७,७०,६५१ पुरुषाः ७,४२,९६३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.५९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ७४.४९% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ अमरेली २ बाबरा ३ बगसरा ४ धारी ५ जाफराबाद् ६ खाम्भा ७ लाठी ८ लिलिया ९ राजुला १० सावरकुण्डला ११ वडिया

कृषिः वाणिज्यं च

[सम्पादयतु]

कलायः, कार्पासः, तिलः, 'जवार', 'बाजरा' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कृष्युत्पादने इदं जनपदम् अन्यतमम् अस्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य उत्पादने अस्य मण्डलस्य पञ्चमं स्थानम् अस्ति । गुजरातराज्यस्य सर्वकारेण वाणिज्यकेन्द्रत्वेन अस्य मण्डलस्य विकासः क्रियमाणः अस्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

पिपावाव-सागरतीरम् एकं प्रमुखं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले ३०,८९८ 'हेक्टेर्' अरण्यप्रदेशः अस्ति यस्मिन् विविधप्राणिसस्यविशेषाः दृश्यन्ते । अस्य मण्डलस्य ३७९.९ चतुरस्रकिलोमीटर्मितः भूप्रदेशः गिर्-अभयारण्ये अन्तर्भवति । श्रीगिरिधरभाई वस्तुसङ्ग्रहालयः प्रसिद्धं वीक्षणीयस्थलम् अस्ति यस्मिन् कला, पुरातत्त्वशास्त्रं, खगोलशास्त्रम्, इतिहासः इत्यादिविषयिकी प्रदर्शिनी अस्ति । पनियाला-वन्यजीविधाम, मितियाला-वन्यजीविधाम च प्रसिद्धं पर्यटकस्थलम् अस्ति । भुरखिया-हनुमानमन्दिरं, खोडियार-मन्दिरम् इति मन्दिरद्वयम् अपि अस्य मण्डलस्य प्रसिद्धं वीक्षणीयस्थलम् अस्ति ।

बाह्यानुबन्धाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अमरेलीमण्डलम्&oldid=484836" इत्यस्माद् प्रतिप्राप्तम्