अरावली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरावली पर्वतश्रेणी
अरावली पर्वतश्रेणी
कोटि
शिखरम् गुरुशिखरम्
औन्नत्यम् १,७२२ m
यामः २४°३५′३३″ उत्तरदिक् ७४°४२′३०″ पूर्वदिक् / 24.59250°उत्तरदिक् 74.70833°पूर्वदिक् / २४.५९२५०; ७४.७०८३३
भूगोल
श्रेण्याः स्थानदर्शि भारतस्य मानचित्रम्
Countries भारतम् and पाकिस्थानम्
States
Settlement मौण्ट् अबु

अरावली ( /ˈərɑːvəl/) (हिन्दी: अरावली, आङ्ग्ल: Aravali) राजस्थानस्य कश्चन पवित्रः पर्वतः । “पारियात्र” इत्येतत् अस्य पर्वतस्य प्राचीनं नाम । अस्य पर्वतस्य कारणतः एव राजस्थानं पौराणिकसाहित्येषु “पारियात्रमण्डलम्” इति निर्दिष्टम् । अयं पर्वतः पवित्रतायाः दृष्ट्या कैलाससमः इति एव अस्माकं विश्वासः । अद्भुतं प्राकृतिकं सौन्दर्यम् अस्य पर्वतस्य । सिन्ध् तथा पञ्जाबप्रान्तेभ्यः आगतानाम् आक्रमणकाराणाम् अवरोधाय रजपूतवीराणाम् आश्रयस्थानम् आसीत् एषः पर्वतः । देशस्य स्वातन्त्र्याय मातॄणां मानरक्षणाय च जातानां युद्धानां साक्षिरूपेण अनेके दुर्गाः इदानीम् अपि विराजमानाः सन्ति अत्र ।

अयं पर्वतः राजस्थानस्य दक्षिणभागतः देहलीपर्यन्तं प्रसृतः अस्ति । अबूपर्वतः अरावल्याः दक्षिणभागः । अयं प्राचीनकाले अर्बुदक्षेत्रम्, अर्बुदाचलम् इति वा निर्दिश्यते स्म । ११ शतकपर्यन्तं वैष्णवानां शैवानां च आराधानाक्षेत्रम् आसीत् एतत् । अनन्तरं जैनानां प्रभावः अधिकः जातः अत्र । अस्य पर्वतस्य प्रशान्तस्थाने वसिष्ठः, भृगुः, गौतमः इत्यादयः ऋषयः वसन्ति स्म । एतेषां सर्वेषां तपोभूमिः अयं पर्वतः पवित्रं तीर्थक्षेत्रम् इति महाभारतस्य कालात् आरभ्य अपि प्रसिद्धः अस्ति ।

अरावलिपर्वतपङ्क्तौ अबूपर्वतः एव अत्यन्तम् उन्नतः । राजस्थानस्य सिरोहिजनपदे आरब्धः अयं पर्वतः समुद्रतः १५२५ मीटर् यावत् उन्नतः अस्ति । अस्मिन् प्रदेशे १३ शतके परमाराः, चौहाणाः, रणकुम्भाः इत्येतेषां रजपूतानां शासनम् आसीत् । अस्मिन् पर्वते बहूनि श्रद्धाकेन्द्राणि सन्ति । पर्वतस्य आरम्भे मानपुरम् इत्यत्र हृषीकेशमन्दिरम् अस्ति । एतत् मन्दिरं द्वारकायाः द्वारम् इति उच्यते । जरासन्धस्य पीडातः यादवानां रक्षणाय श्रीकृष्णः तान् सर्वान् मथुरातः द्वारकां प्रति अनयत् । अस्मिन् पर्वते सूर्यकुण्डं, कर्णेश्वरमहादेवमन्दिरं च अस्ति । ततः मैलत्रयदूरे (३ मैल्) वसिष्ठाश्रमः अस्ति । पुरा नन्दिन्याः प्राप्त्यर्थं कौशिकेन (विश्वमित्रः) युद्धं कृतम् अस्मिन्नेव स्थाने । अत्रत्ये मन्दिरे वसिष्ठस्य ध्यानस्थमूर्तिः अस्ति । पार्श्वयोः रामस्य, लक्षमणस्य, अरुन्धत्याः, नन्दिन्याः च मूर्तयः सन्ति । तत्रैव पार्श्वे किञ्चित् अग्निकुण्डम् अपि अस्ति । वसिष्ठादयः ऋषयः अस्मिन् कुण्डे यज्ञं कृत्वा रजपूतानां चत्वारि अग्निकुलानि निर्मितवन्तः इति आख्यायिका अपि अस्ति । ततः ८ मैल् यावत् घट्टप्रदेशम् आरुह्य उपरि गतं चेत् अबुनगरं प्राप्यते । एतत् नगरं १४ मैल् यावत् दीर्घं, ४ मैल् यावत् विशालं च अस्ति ।

अबुनगरस्य समीपे “नाखितलाव्” इति कश्चन सरोवरः अस्ति । अबुनगरस्य सौन्दर्यवर्धकम् एतं सरोवरं देवाः नखैः निर्मितवन्तः इति । ८०० मीटर् यावत् दीर्घः, ४०० मीटर् यावत् विशालः, ६-९ मीटर् यावत् गभीरः च अयं सरोवरः अत्यन्तं सुन्दरः । एतं सरोवरं परितः सुन्दराणि उद्यानानि सन्ति । अत्रत्यम् अन्यदेकम् आकर्षणं नाम परितः विद्यमानाः महाशिलाः । मानवस्य विविधप्राणिनां च आकृतियुक्ताः शिलाः सर्वेषां मनः आकर्षन्ति । कस्याञ्चित् शिलायां जले कूर्दितुं सिद्धः [[मण्डूकः|मण्डूकः इव अस्ति चेत् अपरा नन्दी इव अस्ति । अन्या एका उष्ट्रः इव अस्ति चेत् पुनरेका भगवद्भक्त्यां रता विरक्ता इव दृश्यते । सरोवरस्य एकस्मिन् पार्श्वे १४ श्तके स्वामिरामानन्देन स्थापितं रघुनाथमन्दिरम् अस्ति ।

अबूतः ३ किलोमीटर् दूरे अर्बुदादेव्याः गुहामन्दिरम् अस्ति । एषा अस्य पर्वतस्य स्थलदेवता । अस्याः दर्शनार्थं शिलानां मध्ये प्रकृत्या निर्मितानि प्रायः ३०० सोपानानि आरुह्य गन्तव्यम् । अबूतः २-३ मैल् दूरे “देवळवाड” इत्येकं नगरम् अस्ति । इदानीं तत् दिलवाड इति प्रसिद्धम् । एतत् जैनानां पवित्रं तीर्थक्षेत्रम् । अत्र जैनानां प्रमुखाणि ५ मन्दिराणि सन्ति । एतत् क्षेत्रं प्रति वर्षस्य सर्वस्मिन् अपि काले यात्रिकाः आगच्छन्ति । तेषु ५ मन्दिरेषु “विमलवसहि” “लूणवसहि” इत्याख्ये द्वे मन्दिरे अत्यन्तं प्रसिद्धे । विमलवसहिमन्दिरं गुजरातस्य चालुक्यराजस्य प्रथमभीमदेवस्य मन्त्रिणा विमलशा इत्येतेन निर्मितम् । क्रि.श.१०३१तमे वर्षे आरब्धम् अस्य मन्दिरस्य निर्माणकार्यं क्रि.श.१०८०तमे वर्षे समाप्तम् । अस्य मन्दिरस्य निर्माणार्थं तदानीन्तनकाले एव १८ कोटिमितानि रूप्यकाणि व्ययीतानि इति । एतत् मन्दिरं जैनानां प्रथमतीर्थङ्कराय ऋषभदेवाय अर्पितम् । शिल्पकलाक्षेत्रं प्रति जैनानाम् अत्युत्तमम् उपायनम् एतत् मन्दिरम् इति उक्तं चेत् सा अतिशयोक्तिः न । बहिस्तात् दर्शनेन सामान्यं मन्दिरम् इव अस्ति । अन्तः प्रवेशानुक्षणं विस्मयलोकं प्रविष्टवन्तः इव भाति । अमृतशिलया निर्मितानि शिल्पकार्याणि अत्यन्तं सुन्दराणि सन्ति ।

“लूणवसहि”मन्दिरं वस्तुपालः तेजपालःच इति नामकौ सहोदरौ निर्मितवन्तौ । द्वाविंशतितमाय तीर्थङ्कराय अर्पितम् अस्ति एतत् मन्दिरम् । कृष्णशिलया निर्मिता रत्नैः विभूषिता तीर्थङ्करस्य मूर्तिः अपि अस्ति अत्र । अस्य मन्दिरस्य रचना अपि विमलवसहि-मन्दिरस्य रचना इव अस्ति । शिल्पकलाकार्यम् इतोपि सुन्दरम् अस्ति । अस्मिन् मन्दिरे प्रगल्भशैल्याः स्थापत्यकलायाः विलासः नेत्रे विस्फारयति । सभामण्डपस्य भित्तिषु कृतं शिल्पकार्यम् अत्यन्तं सुन्दरम् अस्ति । तत्र मध्ये विद्यमानः ताटङ्कः तु अद्भुतायाः कलायाः सङ्केतः इव अस्ति ।

चौमुखजीमन्दिरं, शान्तिनाथमन्दिरं, वच्छाशहमन्दिरं च अन्यानि त्रीणि मन्दिराणि । वस्तुपालः तेजपालः इति नामकौ सहोदरौ यद्यपि जैनमतानुयायिनौ तथापि तौ अन्यमतानां श्रद्धाकेन्द्राणां निर्माणार्थम् अपि साहाय्यं कृतवन्तौ । गातेश्वरमन्दिरस्य, ब्रह्मशालायाः, दानशालायाः, धर्मशालायाः, कूप-कासाराणां च निर्माणार्थं साहाय्यं कृतवन्तौ । दिलवाडतः ३-४ कि.मी. दूरे अचलेश्वरस्य मन्दिरम् अस्ति । अस्मिन् मन्दिरे दर्शनयोग्याः विषयाः बहवः सन्ति । कम्पमानम् अर्बुदगिरिं शिवः अङ्गुष्ठेन नुत्त्वा अचलम् अकरोत् इति । अतः अत्र अचलेश्वरस्य महामन्दिरं निर्मितम् अस्ति । शिवस्य अङ्गुष्ठः, पित्तलस्य नन्दिविग्रहः च दर्शनयोग्यौ स्तः । क्रि.श.८१३तमे वर्षे एतत् मन्दिरं निर्मितम् । ततः किञ्चित् दूरे “अचलगढ”नामकं दुर्गम् अस्ति । एतत् परमारवंशीयाः राजानः ९ शतके निर्मितवन्तः स्युः इति अभिप्रायः । क्रि.श.१४३३तमे वर्षे मेवाडस्य राजा राणाकुम्भः एतत् दुर्गं सम्यकारयत् । अत्र जैनानां चत्वारः सुन्दराः देवालयाः सन्ति । इतः मैलद्वयमिते (२ मैल्) दूरे विद्यमाने बरियाग्रामे कोटेश्वरमहादेवस्य मन्दिरम् अस्ति । एतस्मात् बरियाग्रामात् एव अबूपर्वतपङ्क्तेः अत्यन्तम् उन्नतस्य गुरुशिखरस्य यात्रा आरप्स्यते । एतत् शिखरं समुद्रतः ५६५३ पादमितम् उन्नतम् अस्ति । एतत् दत्तात्रेयस्य आवासस्थानम् । अत्रत्ये मन्दिरे दत्तात्रेयस्य पदचिह्नानि सन्ति । पर्वताग्रे महर्षेः अत्रेः आश्रमः अस्ति ।

एवं प्रतिपदं श्रद्धाकेन्द्रयुक्तः अयं पर्वतः अस्माकम् इतिहासस्य मूकसाक्षी इव स्थितः अस्ति । अस्य उपत्यकायां कति घोरयुद्धानि अजायन्त ? कति पद्मिन्यः मानरक्षणार्थम् आत्माहुतिम् अकुर्वन् वा ? इत्यादिकं सः एव जानाति अथवा भगवान् एव जानीयात्, नान्यः कोऽपि जानाति । हलदीघाटयुद्धे शत्रवः मेवाडं स्व्यकुर्वन् इति प्रातःस्मरणीयः राणाप्रतापः स्वर्णस्थालिकया भोजनं, सुखशय्यां च त्यक्तवान् आसीत् । तेन पुनः स्वातन्त्र्यवायुसेवनं कृतम् अस्याः एव अरावल्याः साहाय्येन ।

हरितवर्णस्य तृणकवचः, महाशिलाः, सरोवराः, आश्रमाः, मन्दिराणि एवं विविधैः प्राकृतिकरम्यदृश्यैः विराजते अयम् अरावलिपर्वतः । अस्मात् पर्वतशिखरात् सूर्यास्तदर्शनम् एव आनन्ददायकम् । एतदर्थम् एव बहवः जनाः अत्र आगच्छन्ति । एतद् वैभवं द्रष्टुमेव अस्मभ्यं दृष्टिशक्तिं ददातु इति अन्धाः अत्र सूर्यं प्रार्थयन्ति । अन्ताराष्ट्रियं प्रवासिस्थानम् अबु अस्वस्थमनसे देहाय च मुदं ददाति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अरावली&oldid=479917" इत्यस्माद् प्रतिप्राप्तम्