अर्थवृत्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


अत्रार्थशब्दस्य वाच्यार्थः इति नार्थः । किन्तु रसऽदिर्वा रसवत्काव्यसन्दर्भः इति वार्थो वक्तव्यः । वृत्तिशब्दस्य व्यापारोऽर्थः । ततश्चार्थवृत्तिरित्यस्य, रसोचितो व्यापारः इत्यर्थस्समायाति । अभिनवगुप्तोऽपि रसोचितश्चेष्टा विशेषोवृत्तिरिति निर्वचनमकरोत् । रुपकेषु नायकादिभिः रसोचिततया क्रियमाणो व्यापार एव वृत्तिः । एषा वृत्तिः रीतिरिव न रचनाश्रिता किन्तु नटनाश्रिता । रीतिवृत्त्योरयमपरो भेदो यदवृत्तयो नाट्याश्रयत्वात्साक्षाद्रसोपस्कारिकाः भवन्ति । रीतयस्तु रचनाश्रयाः गुणसमाहाररुपाश्चेति परम्परया रसोपस्कारिकाः भवन्ति । यतो रीतयः प्रथमं वृत्तीरभिव्यज्य तन्माध्यमेन रसोपस्कारिकाः जायन्ते । रीतयो वाचिकाभिनयरुपाः भवन्ति । वृत्तयः सत्वाङ्गिकाभिनयप्रधानाः भवन्ति । वाचिकाभिनयसमवेतः आङ्गिकाभिनयः एव रसाभिव्यञ्जको भवति । अर्थात् रीतिभिः, स्पष्टतामापन्नाः वृत्तयो रसाभिव्यञ्जिकाः भवन्ति सहृदयानाम् । एवं रीतिवृत्ती परस्पराश्रिते भवतः ।

वृत्तीनां संख्याविषयेऽपि मतभेदा वर्तन्ते । भरतः

  1. कैशिकीवृत्तिः
  2. आरभटीवृत्तिः
  3. सात्वतीवृत्तिः
  4. भारतीवृत्तिः

इति चतस्रो वृत्तीः प्रत्यपादयत् । तत्र भारतीवृत्तिर्नटाश्रयो वाग्व्यापारः इति भरतः प्राकटयत् । वाग्व्यापारश्च शब्दव्यापार एव भवति । ततश्च भरतो भारतीं शब्दवृत्तिं कैशिक्यादित्रयमर्थवृत्तिरुपं चाभावयत् इति ज्ञायते । सिङ्गभूपालोऽपि भारतीं शब्दवृत्तिं इतरा अर्थवृत्तीर्भावयामास । विद्यानाथस्तु भारतीमप्यर्थवृत्तिष्वन्तर्भाव्य चतस्रोऽर्थवृत्तीरङ्गीचकार । साहित्यदर्पणकारादयोऽप्येवमेव चतस्रोऽर्थवृत्तीरभ्युपागमन् । प्रकाशवर्षो भरतोक्ताश्चतस्रोवृत्तीरभ्युपगम्य, ततोऽधिकतया ललिताख्यामर्थवृत्तिमभ्युपागमत् । ललितावृत्तिस्सर्वार्थविषयिणी नानामार्गविसारिणी कविचित्तहारिणी च भवतीति तेन प्रतिपादितम् । केचिदिमां ललितानाम्नीं वृत्तिं मिश्रवृत्तिमूचुः । सिङ्गभूपालो मिश्रवृत्तीर्नाङ्गीकृतवान् । उद्भटः न्यायचेष्टावृत्तिरन्यायचेष्टावृत्तिः फलसंवित्तिवृत्तिरिति तिस्रः प्रधानाः वृत्तयः इति, अवान्तरभेदैरेतासां वृत्तीनां संख्या षोडशतामापद्यत इति चाभ्युपागमत् । केचित् मध्यमकैशिकी मध्यमारभटीति नाम्ना द्वे वृत्ती प्रत्यपादयन् । वस्तुतः इमे वृत्तीः कैशिक्यारभटीभ्यां नातिभिन्ने भवतः ।

प्रथममर्थवृत्तयो दृश्यकाव्यमात्रसम्बध्दाः इति भावना समुदेति । तदा ताः नाट्यव्यापाररुपाः एव सम्भाविताः । पश्चादालङ्कारिकास्ताः वृत्तीः श्रव्यकाव्येष्वपि सम्बध्दाः भवन्तीत्यमन्यन्त । अत एवानन्दनवर्धनाचार्यो रसादितात्पर्यसन्निवेशिताः वृत्तयः नाट्ये काव्ये चाऽनिर्वाच्यां शोभां जनयन्तीति पृथक् पृथक् प्रत्यपादयत् । विद्यानाथोऽप्यन्यालङ्कारिकाननुसरन् वृत्तय श्श्रव्य काव्यमात्र सम्बध्दा इत्यमन्यन्त । यतोऽयं वृत्तीनां प्रयोक्तृ नैपथ्यभाषादिकं नैवाऽवर्णयत् ।

ईषन्मृद्वर्थसन्दर्भा इति विद्यानाथो भारतीवृत्ते र्निर्वचनमकथयत् । भरतो भारतीवृत्तिं वाग्व्यापारतया प्रकटीचकार । रीतयोऽपि वाग्व्यापाराः एव ताश्च पदरचनामाश्रित्य वर्तमानाः वृत्तिः प्रकाशयन्ति । ततश्च यथा वैदर्भी गौडी पाञ्चाल्याख्यास्तिस्रः एव रीतयस्तथा वृत्तयोऽपि तिस्र एवेति कथनं युक्तम् । भरतप्रोक्ता भारतीवृत्तिरेव रीतित्रयात्मना परिणता इति च श्री सन्निधानं सूर्यनारायणशास्त्रिमहोदयास्संभावयामासुः ।

"https://sa.wikipedia.org/w/index.php?title=अर्थवृत्तिः&oldid=372906" इत्यस्माद् पुनः प्राप्तिः