सामग्री पर जाएँ

अलवरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अलवरमण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)
अलवरमण्डलम्
मण्डलम्
राजस्थानराज्ये अलवरमण्डलम्
राजस्थानराज्ये अलवरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total ८,३८० km
Population
 (२००१)
  Total ३६,७१,९९९
  Density ३०८/km
Website http://alwar.nic.in

अलवरमण्डलं (हिन्दी: अलवर जिला, आङ्ग्ल: Alwar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति अलवरनामकं नगरम् ।

भौगोलिकम्

[सम्पादयतु]

अलवरमण्डलस्य विस्तारः ८३८० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे, उत्तरे च हरियाणाराज्यं, पश्चिमे जयपुरमण्डलं, दक्षिणे दौसामण्डलम् अस्ति । अत्र साहिबी, अरवरी इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणम् अलवरमण्डलस्य जनसङ्ख्या ३,६७१,९९९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४३८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४३८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९४ अस्ति । अत्र साक्षरता ७१.६८ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-

  • अलवर
  • बनसूर
  • बेह्रोर
  • कटुमार
  • किशानगढ
  • कोट कासिम
  • लक्ष्मणगढ
  • मुण्डवार
  • राजगृह
  • रामगृह
  • तानगाडि
  • तिजारा

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अलवरमण्डलम्&oldid=482117" इत्यस्माद् प्रतिप्राप्तम्