अल्बर्ट् ऐन्स्टैन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
अल्बर्ट् ऐन्स्टायिन्
Albert Einstein in 1921
जननम् 14 1879(1879-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम �-14)
Ulm, Kingdom of Württemberg, German Empire
मरणम् 18 1955(1955 -  वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम � - 18) (वयः 76) 
Princeton, New Jersey, U.S.
वासस्थानम् Germany, Italy, Switzerland, Austria, Belgium, United States
नागरीकता
  • Kingdom of Württemberg (1879–1896)
  • Statelessness
कार्यक्षेत्राणि Physics
संस्थाः
  • Swiss Patent Office (Bern)
  • University of Zurich
  • Charles University in Prague
  • ETH Zurich
  • Caltech
  • Prussian Academy of Sciences
  • Kaiser Wilhelm Institute
  • Leiden University
मातृसंस्थाः
  • ETH Zurich
  • University of Zurich
शोधविषयः Folgerungen aus den Capillaritatserscheinungen (1901)
संशोधनमार्गदर्शी Alfred Kleiner
Other academic advisors Heinrich Friedrich Weber
Notable students
  • Ernst G. Straus
  • Nathan Rosen
  • Leó Szilárd
  • Raziuddin Siddiqui[१]
विषयेषु प्रसिद्धः
  • General relativity and special relativity
  • Photoelectric effect
  • Mass-energy equivalence
  • Brownian motion
प्रमुखाः प्रशस्तयः
  • Nobel Prize in Physics (1921)
  • Matteucci Medal (1921)
  • Copley Medal (1925)
  • Max Planck Medal (1929)
  • Time 100: Time Person of the Century (1999)
पतिः/पत्नी Mileva Marić (1903–1919)
Elsa Löwentha (1919–1936)
हस्ताक्षरम्


अल्बर्ट ऐन्स्टायिन् (Albert Einstein) जर्मनीदेशस्य विश्वविख्यातः वैज्ञानिकः आसीत् । भौतविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । भौतशास्त्रस्य जनकः इति प्रसिद्धिः अस्य । द्युतिविद्युत्परिणामस्य नियमं निरूपितवान् । एषः सुप्रसिद्धः नियमः भवति । 'बनेश् हाफ्’ अस्य शिष्यः अस्य जीवनस्य साधनस्य च विषये 'दि स्ट्रेञ्ज् स्टोरि आफ् दि क्वाण्टम्' इत्यस्मिन् पुस्तके विस्तृततया लिखितवान् अस्ति ।

जननम्, बाल्यञ्च[सम्पादयतु]

ऐन्स्टायिन् मार्चमासस्य १४ दिनाङ्के १८७९ तमे संवत्सरे जर्मनीदेशस्य वुर्टेन् बर्गप्रान्तस्य उल्म्-नगरे अजायत । अस्य पिता 'हर्मन्' । मता 'पौलीन्' । हर्मन् एकस्य आपणस्य स्वामी आसीत् । पौलीन् सङ्गीतप्रिया आसीत् । बाल्ये अध्ययने अभिरुचिः न आसीत् । शालां गन्तुं मनः न आसीत् ।

अध्ययनम् , उध्योगञ्च[सम्पादयतु]

अस्य पिता कालान्तरे म्यूनिक् नगरे यन्त्रागारं स्थापितवान् । अस्मिन् समये पुत्रं क्याथोलिक् शालायाम् अध्ययनार्थं प्रेशितवान् । अत्रत्यनां कठिणनियमपालने अनासक्तः। अतः शालां गन्तुम् इच्छा एव न भवति स्म । पुत्राय विद्यायाः महत्त्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । अस्य माता 'पिटिलु’ वाद्यं पाठितवती । शालासु भाषाविषयेषु अनासक्तः, विज्ञाने, गणीते च आसक्तिः आसीत् । तत्रापि यूक्लिडस्य रेखागणीते अतीवासक्तिः आसीत् । अस्य प्रश्नाः शालासु अध्यापकान् पीडयन्ति स्म । अतीव सूक्ष्माः कठिणाश्च प्रश्नाः भवन्ति स्म । अस्मै अत्रत्य पाठनव्यवस्था न रोचते स्म । अतः स्विट्झर्ल्याण्ड्देशस्य आकानगरस्य प्रसिद्धां शालां प्रविष्टवान् । अत्रत्या पाठनशैली आकर्शिता । उत्तमशिक्षणं प्राप्य, जूरिच्नगरस्य पालिटेक्निक् कलाशालां प्रविष्टवान् । अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान् । अपेक्षितान् गणीतशास्त्रनियमान् अधीतवान् । अध्ययनानन्तरं उद्योगावकाशाः न प्राप्ताः । एषु दिनेषु बालेभ्यः पाठयति स्म । जूरच् विश्वविद्यालयस्य डाक्टरेट् पदवीं प्राप्तवान् । अस्मिन्नेव विश्वविद्यालये एव १९०९ तमे संवत्सरे प्राध्यापकपदवीं प्राप्तवान् । १९१२ तमे संवत्सरे जूरिच् पालिटेक्निक् विद्यालये सहप्राध्यापकत्वेन कार्यं कृतवान् । १९१३ तमे संवत्सरे बर्लिन् विश्वविद्यालये प्राध्यापकत्वेन कार्यं कृतवान् । कैसर् विल् हेल्म् इन्स्टिट्यूट संस्थायाः विंशतिवर्षाणि यावत् निदेशकः आसीत् ।

वैय्यक्तिकजीवनम्[सम्पादयतु]

अस्य बहुसरलजीवनम् आसीत् । यहूदिसम्प्रदायस्थः आसीत् । १९०३ तमे संवत्सरे विद्याभ्यासस्य कालीनां मिलेवा मारिस् सखीं परिणीतवान् । १९०४ तमे संवत्सरे "ह्यान्स् अल्बर्ट्” नाम प्रथमः पुत्रः अजायत् । द्वितीयस्य पुत्रस्य नाम एड्वर्ड इति । १९१४ तमे संवत्सरे परिवारेण सह बर्लिन्-प्रदेशम् आगतवान् । अत्र नूतन उद्योगं प्राप्तवान् । किञ्चित् कालानन्तरं दाम्पत्ये क्लेशाः उत्पन्नाः। १९१९ तमे संवत्सरे विच्छेदनम् अपि प्राप्तवान् । पुत्राभ्यां गृहात् निर्गता मिलेवा । अनेन दुःखितः ऋग्णश्च सञ्जातः । अस्मिन् समये अस्य पालनम् 'एल्सा’ कृतवती । एनाम् एव अल्बर्ट परिणीतवान् । अस्य प्रसिद्धौ एषा अपि कारणीभूता । उपन्यासेन युरोपदेशेषु , अमेरिकादेशेषु च प्रसिद्धिः आसीत् । १९३३ तमे संवत्सरे अडाल्फ् हिट्लर स्वशासनकाले अस्य गृहादिकं स्वायत्तीकृतवान् । अस्य पौरत्वमपि स्वीकृतवान् । अतः एषः अमेरिकादेशे एव वासं कृतवान् । स्वान्त्यकालपर्यन्तं न्यूजेर्सिया प्रिन्स्-टन् विश्वविद्यालये कार्यं कृतवान् ।

अल्बर्ट् सिद्धान्तः[सम्पादयतु]

अस्य सापेक्षतासिद्धान्तः सुप्रसिद्धः भवति । एन्स्टैन् प्लाङ्कनस्य शकलसिद्धान्तस्य सारं स्वीकृत्य प्रकाशस्य गुणधर्मान् ज्ञातुं संशोधनं कृतवान् । अनेन स्वसिद्धान्तं निरूपितवान् । "यन्यू डेफिनिशन् आफ् मालिक्टूलर् डैमेन्षन्" इति प्रबन्धमेकं रचितवान् । एन्स्टैन् प्रकाशस्य सञ्चारस्य, वेगस्य च विषये स्व नूतनं सिद्धान्तं निरूपितवान् । "प्रकाशस्य सञ्चाराय माध्यमम् अनपेक्षितम्, सः प्रकाशः निर्वाते सञ्चारसामर्थ्यसहितः शक्तिरूपः भवति । प्रकाशस्य वेगस्य समानः वेगः कस्यापि न भवति। प्रकाशः स्वमूलात् बहिरागत्य समानवेगे प्रसरति ।" इति अस्य निरूपणं भवति। प्रकाशस्य वेगः गरिष्ठः भवति । अतः स्थिरवेगं 'C" इति आङ्ग्लाक्षरेण सूचितवान् । एन्स्टैन् निरूपितं समीकरणम् E = mc2 इति । जडवस्तु त्रिषु रूपेषु घन, द्रव, अनिलादि भेदेन विद्यते । वस्तुने द्रव्यराशिः अस्ति । द्रव्यराशिं m इति सङ्केतेन निरूपितवान् अस्ति । प्रकाशम्, उष्णञ्च भारपरिमाणेन मापयितुं न शक्यते । ईदृशां शक्तीं E इति सङ्केतितवान् । वैज्ञानिकाः शक्तिराशी पृथक् इति चिन्तयन्तः आसन् । उभयोर्मध्ये एन्स्टैन् सम्बन्धं कल्पयित्वा, उभयोः समत्वं च कल्पयित्वा E=mc2 इति सरलं समीकरणं निरूपितवान् । अनेन समीकरणेन परमाणुगोलस्य तत्वं निरूपितम् ।

कृतयः[सम्पादयतु]

एन्स्टैन् न केवलं वैज्ञानिकः, किन्तु प्रसिद्धः लेखकोऽपि । अनेन बहवः ग्रन्थाः रचिताः । अस्य कृतयः जर्मनीभाषायां विद्यन्ते । कालन्तरे आङ्ग्लभाषायाम् अपि प्रकटिताः। "दि यवुल्यूषन् आफ् फिसिक्स्” इति लीफाल्ड् इन्फेल्डवर्येण सह लिखितः प्रसिद्धकृतिः ।

  • दिफैट् एगेन्स्ट् वार्
  • इन्वेस्टिगेषन्स् आफ् दि थियरि आफ् दि ब्रौनियन् मूव्मेण्ट्
  • दि थियरि आफ् दि रिलेटिविटि
  • दि वर्ल्ड् आस् ऐ सी इट्

पुरस्काराः[सम्पादयतु]

  • १९२१ तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवान् ।
  • १९२९ तमे संवत्सरे जर्मन् शारीरकसंस्थायाः 'म्याक्स् प्लाङ्क्’ पदकं प्राप्तवान् ।
  • १९३६ तमे संवत्सरे फ्राङ्क्लिन् संस्थायाः फ्राङ्क्लिन् पदकं प्राप्तवान् ।

मरणम्[सम्पादयतु]

एन्स्टैन् प्रिन्सटन् वैद्यालये एप्रिल्मासस्य १८ तम दिनाङ्कस्य १९५५ तमे वर्षे मृतवान् । एन्स्टैनवर्यस्य मरणानन्तरम् अस्य मस्तिष्कं प्रिन्स्-टन् वैद्यालये स्थापितवन्तः । अस्य प्रतिभायाः रहस्यं ज्ञातुं अत्रत्य वैज्ञानिकाः कुतूहलीनः आसन् । एवम् अस्योपरि अध्ययनम् अपि कृतवन्तः

टिप्पणी[सम्पादयतु]

  1. "Mohammad Raziuddin Siddiqui". Ias.ac.in. 2 January 1998. Archived from the original on 1 June 2004. Retrieved 3 April 2011. 

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अल्बर्ट्_ऐन्स्टैन्&oldid=398932" इत्यस्माद् पुनः प्राप्तिः