अवधानकला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शतावधानसभा[१]

चित्तैकाग्र्यम् अवधानम् इति वामनः काव्यालङ्कारसूत्रवृत्तौ उल्लिखति। अवधानम् इत्यस्य व्युत्पत्तिलभ्यः अर्थः एकाग्रता इति। तथापि भारतीयसंस्कृतौ अवधानं कलारूपेण प्रसिद्धम् वर्तते। अवधानम् इति काचित् बौद्धिकक्रीडा। भारते आ बहोः कालाद् पूर्वमेव अवधानकला आसीत्। सङ्गीतावधानम् साहित्यावधानम्, नृत्यावधानम्, यक्षावधानम्, गणितावधानम् नेत्रावधानम् इत्यादयः अनेके भेदाः अवधाने विद्यन्ते। अवधानस्य प्रधानम् विषयम् आश्रित्य अयं भेदः कृतः। अवधाने अवधानी प्रच्छकश्च भवति। पृच्छकानां सङ्ख्यानुगुणं अष्टावधानम्, दशावधानम्, त्रिगुणित-अष्टावधानम्, शतावधानं सहस्रावधानम् इति नैके भेदाः विद्यन्ते।

साहित्यावधानम्[सम्पादयतु]

विभागाः[सम्पादयतु]

अद्यत्वे संस्कृते कन्नडे तेलुगुभाषायां च साहित्यावधानं प्रसिद्धं वर्तते। साहित्यावधाने छन्दोबद्धपद्यरचनमेव प्राधान्येन भवति। अष्टावधानं चेद् अवधानी मध्ये उपविशति। तम् उभयतः प्रतिपार्श्वं चत्वारः प्रच्छकाः भवन्ति। क्रमशः ते प्रश्नान् पृच्छन्ति। अवधानी उत्तरं वदन् गच्छति। एवं प्रायेण घण्टात्रयात्मकः काले अष्टावधानं समाप्यते। प्रच्छकानां प्रश्नान् अनुसृत्य अवधानी आशुरूपेण छन्दसा पद्यानि रचयति। साहित्यावधाने कतिचन प्रश्नविभागाः प्रसिद्धाः सन्ति।

निषेधाक्षरी[सम्पादयतु]

अत्र प्रच्छकः प्रत्यक्षरं निषेधं करोति। उदाहरणार्थं गणेशवर्णनं करणीयम् इति सूचयित्वा प्रथमाक्षरं गकारः न भवेदिति वदति। अवधानी वि इति वदति चेद् अग्रे सः विनायक इति वदेत् इति किमपि चिन्तयित्वा नकारः द्वितीयाक्षरं न भवेदिति वदति। अवधानी अक्षरान्तरम् उक्त्वा पद्यम् अग्रे नयति। एवं एकपादस्य समाप्तेः अनन्तरं द्वितीयप्रच्छकः द्वितीयविभागस्य प्रश्नं करोति। द्वितीये चक्रे पुनः अवधानी निषेधाक्षरिपद्यम् अनुवर्तयेत्। प्रायेण अवधानेषु पादत्रयं यावत् निषेधः क्रियते। चतुर्थे पादे निषेधं विना अवधानी पद्यं समापयति।

समस्यापूरणम्[सम्पादयतु]

प्रच्छकः छन्दोबद्धां काञ्चित् पङ्क्तिं वदति। सा च पङ्क्तिः निरर्थका, अश्लीलार्थद्योतिका, विरुद्धार्थद्योतिका वा भवति। अवधानी प्रतिचक्रं एकैकं पादम् वदन् तां समस्याः परिहरेत्। नाम प्रच्छकेन उक्ते पादे असङ्गतिः यथा न स्यात् तथा पादत्रयं योजयेत्। उदाहरणार्थं सुतोदरस्थो जनको विराजते इति काचित् पङ्क्तिः। अत्र अर्थः विरुद्धः वर्तते। तस्य

 वने न किञ्चित् लभते स्म भोजनं
तदा स भीमो बहुखिन्नमानसः।
समीक्ष्य कुक्षिं वदति स्म धर्मजं
सुतोदरस्थो जनको विराजते॥

इति परिहारः अवधानिना कृतः

दत्तपदी[सम्पादयतु]

अत्र चत्वारि पदानि प्रच्छकेन उच्यन्ते। तेन सह पद्यरचनार्थं विषयः छन्दः च सूच्यते। प्रच्छकेन उक्तानि पदानि क्रमशः प्रतिपादं भवेयुः। प्रतिचक्रं एकैकः पादः अवधानिना रचनीयः। उदाहरणार्थं कोला, लेस्, गोबि, सोस् इति पदानि प्रतिपादे निवेश्य शालिनीछन्दसा बाबारामदेवः वर्णनीयः इति प्रश्नः कृतः। तस्य अवधानिना एवं पद्यं कृतम्।

भ्रष्टेशानां नाशको लाति सौख्यं
कालेऽस्मिन्नप्येष योगी तु योगात्।
रोगो बिभ्यद्दूरदेशं प्रयाति
यस्मात् सोऽसौ रामदेवो विभाति॥

चित्रबन्धः[सम्पादयतु]

शब्दालङ्कारेषु चित्रबन्धाः प्रसिद्धाः। विविधेषु आकारेषु वर्णानां क्रमस्य विन्यासं कृत्वा विविधाः बन्धाः रच्यन्ते। तत्र गोमूत्रिका, मुरजबन्धः, सर्वतोभद्रः, पद्मबन्धः, चक्रबन्धः इत्यादयः बन्धाः प्रसिद्धाः सन्ति। अवधाने प्रच्छकः बन्धं विषयं च सूचयति। अवधानी आशुरूपेण पद्यं रचयेत्। अत्रापि प्रितिचक्रं क्रमशः एकैकं पादं अवधानी रचयति। आशुरूपेण चित्रकाव्यरचनं न सुकरम् इति कारणतः अनेकेषु अवधानेषु अयं विभागः न भवति।

चित्रस्य पद्यम्[सम्पादयतु]

प्रच्छकः किञ्चित् चित्रं दर्शयित्वा छन्दसः निर्देशं करोति। अवधानी तदाश्रित्य पद्यं रचयति। प्रच्छकः चित्रकारः चेत् कदाचित् सः अवधानवेदिकायाम् अपि चित्रं रचयेत्।

आशुपद्यम्[सम्पादयतु]

प्रच्छकः विषयं छन्दः च सूचयति। अवधानी सम्पूर्णं पद्यं प्रतिचक्रं रचयति। अत्र कोऽपि निर्बन्धः न भवति। अतः अवधानिनः कवित्वस्य निकषरूपः अयं विभागः इति विन्दांसः मन्वते। एवं अवधानान्ते चत्वारि पद्यानि रचितानि भवन्ति।

अक्षरमुष्टिका[सम्पादयतु]

अक्षरमुष्टिकापृच्छकः केनचित् छन्दसा निबद्धस्य पद्यस्य स्वराक्षराणि एव वदति, वस्तु च सूचयति। उदाहरणार्थं वागर्थाविवसम्पृक्तौ इति वर्तते चेत् आ-अ-आ-इ-अ-अं-ऋ-औ इति वदति अवधानी तदाश्रित्य पद्यं रचयेत्। एतेषु स्वरवर्णेषु अवधानी व्यञ्जनानि योजयित्वा वस्तु वर्णयेत्।

सङ्ख्याबन्धः[सम्पादयतु]

सङ्ख्या अवधानवेदिकायां किञ्चन कृष्णफलकं अवधानी यथा न पश्येत् तथा स्थाप्यते। सङ्ख्याबन्धप्रच्छकः अवधानादौ काञ्चित् सङ्ख्यां सूचयति। कृष्णफलके कोष्टकानि लिख्यन्ते। प्रायेण 3X3, 4 X4, 5 X5 रूपेण कोष्टकानि भवन्ति। अत्र अवधानस्य मध्ये मध्ये प्रच्छकः तृतीयपङ्क्तौ द्वितीयकोष्टके का सङ्ख्या इत्यादिरूपेण पृच्छति। अवधानी सङ्ख्यां वदति। एवं उक्ताः सङ्ख्याः स्तम्भपङ्क्तौ अनुभौमपङ्क्तौ वा योज्यन्ते चेद् आरम्भे उक्ता सङ्ख्या सर्वत्र भवेत्। अवधानिनः अवधानभङ्गं कर्तुं मध्ये मध्ये प्रच्छकः प्रश्नं करोति। अवधानान्ते सर्वाण्यपि कोष्टकानि पूर्णानि यथा भवेयुः तथा प्रश्नं प्रच्छकः करोति।

अप्रस्तुतप्रसङ्गः[सम्पादयतु]

अत्र प्रच्छकः मध्ये मध्ये हास्ययुक्तान् प्रश्नान् करोति। अवधानी अपि हास्यमुखेनैव तस्य प्रश्नस्य उत्तरं वदति। तथा च छन्दः व्याकरणम् इत्यादीनां गम्भीराणाम् अंशानां श्रवणेन सामान्यस्य सभ्यस्य जामीता न भवेद् इति धिया अयं विभागः अवधाने योज्यते। अत्र अवधानी साधूत्तरमेव वदेदिति नास्ति नियमः। परन्तु प्रतिप्रश्नं किमपि उत्तरम् अवश्यं वदेत्।

काव्यवाचनम्[सम्पादयतु]

प्रतिपादं पूर्वकविभिः रचितं किञ्चन पद्यं प्रच्छकेन गीयते। अवधानी तस्य काव्यस्य स्वारस्यं वर्णयेत्। काव्येषु अवधानिनः गतिं परीक्षितुं, गानरसास्वादनार्थं च अयं विभागः अवधाने भवति।

अवधानिनः[सम्पादयतु]

संस्कृतभाषायां नैके अपधानिनः वर्तन्ते। विंशतितमेशताब्दे एते अवधानिनः प्रसिद्धाः विद्यन्ते।

  • डा. रा गणेशः
  • डा. आर् शङ्करः
  • डा. रामकृष्ण पेजत्तायः
  • डा. महेशभट्टः
  • श्री. गुण्डिबैलु सुब्रह्मण्य भट्टः

बाह्यसम्पर्काः[सम्पादयतु]

  • "ಪದ್ಯಸಪ್ತಾಹ ೪೯: ಮೊತ್ತಮೊದಲ ತುಂಬುಗನ್ನಡದ ಶತಾವಧಾನದ ಐತಿಹಾಸಿಕ ಕ್ಷಣಗಳು". http://padyapaana.com/?p=1367. 
  • "https://sa.wikipedia.org/w/index.php?title=अवधानकला&oldid=445833" इत्यस्माद् पुनः प्राप्तिः