असतः साधकत्वविमर्शः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अद्वैतसारः[सम्पादयतु]

श्लोकार्धेन प्रवक्ष्यामि सारात्सारतरं वचः।
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥

इति शङ्करभगवत्पादीयं वचनं, ज्ञानानन्दादिरुपे निर्गुणे निर्विकारे चैतन्ये परिदृश्यमानविश्वस्य शुक्तौ रजत् इवारोपितत्वं प्रतिपादयति ।
‘यथा सोम्येकेन मृत्पिण्डेन’ (छा.६.१.१) इत्यादि श्रुतिः कारणव्यतिरेकेण कार्यस्यानन्यत्वं प्रतिपादयति । कार्यकारणयोरनन्यत्वं नाम कारणव्यतिरेकेण कार्यस्याभाव एव । तदुक्तं ‘मृत्तिकेत्येव सत्यम्’ ‘वाचारम्भणां विकार’ इति । एवं च सर्वोऽप्ययं भेदप्रपञ्चः ब्रह्मण्यध्यस्त इति सूत्रकारोप्याह –‘तदनन्यत्वमारम्भणशब्दादिभ्य’ (ब्र.सू.२.१.६.१४.) इति ।
तदुक्तं शङ्करभगवत्पादाचार्यैः - कार्यमाकाशादिकं बहुप्रपञ्चं जगत् । कारणं परं ब्रह्म । तस्मात् कारणात् परमार्थतोऽनन्यत्वं नाम तद्व्यतिरेकेणाभावः कार्यस्य गम्यते । ‘यथा सौम्य एकेन’ (छां .६.१.१)………… ‘वाचारम्भणं विकारः नामधेयं मृत्तिकेत्येव सत्यम्’ । इति श्रुताद् दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभावः बोध्यते ।

‘मिथ्याज्ञानविजृम्भितं च नानात्वम्’ ‘य इह नानेव पश्यति’ (बृ.४.४.१९.) भेददृष्टिमपाकरोति श्रुतिः ।

असतः साधकत्वम्[सम्पादयतु]

यदीदं परिदृश्यमानं विश्वं भ्रान्तिकल्पितं तर्हि तदन्तः पातिवेदादिशास्त्रमपि मिथ्येत्युक्तं भवति । ततश्च स्वयमसता वेदादिशास्त्रेण् कथं वा जीवब्रह्मैक्यं पारमार्थिकं साध्यत इति चेत् उच्यते । सर्वव्यवहाराणां ब्रह्मात्मताविज्ञानात् प्राक् सत्यत्वमभ्युपेयते । स्वप्नव्यवहारस्येव प्राक् प्रबोधात् । यावदात्मैक्यप्रतिपत्तिर्न जायते तावदध्यासमूलकोऽयं सर्वोऽपि व्यवहार उपपद्यते ।

तदुक्तं शङ्करभगवत्पादाचार्यैः – ननु प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन् निर्विषयत्वात् । तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात् तदभावे व्याहन्येत् । कथां चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्यत इति ।
नैष दोषः । सर्वव्यवाहाराणां प्राक् ब्रह्मात्मताविज्ञानात् सत्यत्वोपपत्तेः । स्वप्नव्यवहारस्येव प्राक् प्रबोधात् । यावध्दि न सत्यात्मैकत्वप्रतिपत्तिः तावत् प्रमाणप्रमेयफललक्षणेषु विकारेषु अनृतत्वबुध्दिर्न कस्यचिदुत्पद्यते विकारानेव त्वहं ममेत्यविद्ययाऽत्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा । तस्मात् प्राक् प्रबोधात् उपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः ।
‘प्राक् प्रबोधात् संसारित्वाभ्युपगमात्’ । तद्विषयत्वाच्य प्रत्यक्षादिव्यवहारस्य । ‘यत्र त्वस्य’ (बृ.२.४.१९) इत्यादिना प्रबोधे प्रत्यक्षाद्यभावं दर्शयति । प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्गः इति चेत्, न इष्टत्वात् । अत्र पिताऽपिता भवति (बृ. ४.३.१९) इत्युपक्रम्य ‘वेदा अवेदाः’ इति वचनात् इष्यत एवास्माभिः श्रुतेरप्यभावः प्रबोधे । (ब्र.सू.शा.भा. ४..१.३)
वस्तुतो विचार्यमाणे भदग्राहिप्रत्यक्षस्यापौरुषेयागमेन तदनुसारिदृश्यत्वादियुक्त्या च विरुध्दत्वेनातात्विकत्वमेव युक्तम् । तथाऽपि व्यवहारे बाधाभावात् सांव्यावहारिकमेव प्रामाण्यम् ।
तदुक्तं वाचस्पतिमिश्रैः –
‘यद्यपि प्रत्यक्षादीनां तात्विकमबाधितत्व्ं नास्ति । युक्त्यागमाभ्यां बाधनात् । तथाऽपि व्यवहारे बाधाभावात् सांव्यावहारिकमबाधनम्’ । वस्तुतस्तु, यच्च वेदान्तादिना ज्ञानमुत्पद्यते तन्न सत्यम् । यच्च सत्यं न तदुत्पद्यते । तस्माद् वेदान्तजन्यं वृत्तिज्ञानमपि वेणुसङ्घर्षजवह्निवत् कतकरजोवच्च सर्वस्य मिथ्यात्वमुपपाद्य स्वयमपि विनष्टो भवति । तदुक्तं भामत्याम्
‘वस्तुतस्तु यच्चोप्तद्यते तत्सर्वमसत्यमेव । यच्च सत्यं न तदुत्पद्यते । तथा च वेदान्तसमुत्थवृत्ति-ज्ञानमपि मिथ्यैव’ इति । श्रावयति च श्रुतिरसत्यात् सत्योत्पादम् –

यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृध्दिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ॥(छां .५.२.९)

इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृध्देः प्राप्तिं दर्शयति । अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति इति असत्येनैव स्वप्नदर्शनैव स्वप्नदर्शनेन सत्यमरणं सूच्यत् । तथा रेखास्वाकारत्वादिभ्रान्त्या सत्या आकारादयो ज्ञायन्ते । एवं च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं सम्भवति । अत्रेदं विवेचनीयम्-
सर्वोऽप्ययं व्यवहारः भ्रान्तिसिध्द इति यदुक्तं तदयुक्तम् । अर्थक्रियाकारिकत्वरुपं व्यावहारिकसत्वं च जगतस्तदैव भवति यदि विश्वं ब्रह्मज्ञानाबाध्यं भवति नान्यथा । न चाबाध्यत्वं जगत अङ्गीक्रियते भवद्भिः । अतो व्यावहारिकत्वमपि न जगत इति ।
ननु शुक्तिरजतादेर्बाध्यस्याऽपि अभिज्ञाऽभिवदनरुपव्यावहारविषयत्वात् व्याप्तिहीनोऽयं तर्क इति चेत्,मैवम् । अर्थक्रियाकारित्वरुपमेव हि व्यवहारिकत्वमिह प्रकृतम् नाभिज्ञादिविषयत्वरुपम् । बाध्ये च शिक्तिरजते वलयादिनिर्माणयोग्यताभावेनार्थक्रियाकारित्वाभावात् अबाध्यत्वाभावः । तदुक्तम् –

व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ।
बाध्यं नार्थक्रियाकारि………….. ॥ इति ।

इदमुदितं भवति । प्रत्यक्षं हि सर्वप्रमाणोपजीव्यम् । तेन च घटः सन् पटः सन् इति सर्वोऽप्ययं भेदव्यवहारः सत्य इत्येव गृह्यते । न चास्य प्रत्यक्षस्य किञ्चन बाधकमुपलभ्यते । प्रत्यक्षस्य सांव्यावहारिकत्वोपवर्णनमतीव मन्दम् । भवद्भिरपि प्रत्यक्षभीरुभिः प्रत्यक्षबाधे ‘यजमानः प्रस्तरः’ ‘तत्वमसि’ इत्यादौ श्रुतेरर्थान्तरतोपपादिता न श्रुतिविरोधेन प्रत्यक्षबाधः । एवं च वाचारम्भणश्रुत्यादेरपि सादृश्यप्राधान्याभ्यां एकविज्ञानेन सर्वविज्ञानप्रतिपादने तात्पर्यम् स्तीत्यभ्युपेयम् । ततश्च निर्बाधप्रत्यक्षसिध्दविश्वस्य विनैव मानं मिथ्यात्वोपवर्णनं यावदात्मैक्यज्ञानपर्यन्तं व्यावहारिकत्वोपपादनं चासङ्गतमिति स्थितम् ।
यावदात्मैक्यज्ञानं नोत्पद्यते तावतपर्यन्तं सर्वोऽप्ययं प्रमाणप्रमेयव्यवहार उपपद्यत इत्युक्तम् तदयुक्तम् इत्युपपादितम् =-ब्रह्मभिन्नस्य मिथ्यात्वे शास्त्रस्यापि मिथ्यात्वं दुष्परिहरम् ।
इयमाशङ्का एवं परिह्रियते अद्वैतवादिभिः –आर्मैक्यप्रतिपादकशास्त्रस्यासत्वेऽपि प्रति-पाद्यमात्मैक्यं तु पारमार्थिकमेव भवति । प्रतिपत्तिरुपायमाक्षिपति न् तूपायस्य सत्यताम् । मिथ्याभूतादपि सत्यप्रतिपत्तेर्दृष्टत्वात् । तदुक्तं मण्डनमिश्रैः - उपायमाक्षिपति प्रतिपत्तिः नोपायस्य परमार्थताम् । मिथ्याज्ञानादपि तत्वप्रतिपत्तेः । असत्यात्सत्योत्पत्तिरिति यदुक्तं तदप्यतीव मन्दम् । मानाभावात् । अत्रोच्यते –

१. असत्यमपि प्रतिबिम्बं बिम्बस्य
२. स्वाप्नार्थश्च शुभाशुभयोः
३. स्फटिकलौहित्यं चोपाधिसन्निधानस्य
४. रेखारोपितवर्णश्चार्यस्य
५. वर्णदैर्ध्यादिकं च नगो नाग इत्यादावर्थभेदस्य
६. शङ्काविषं च मरणस्य
७. सवितृसुषिरादि चारिष्टादेः

साधकमिति असतोऽपि साधकत्वमस्तीति कथमिदं निर्मूलमिति चेत् । अत्र ब्रूमः -
(१) बिम्बप्रतिबिम्बयोरुभयोरपि सत्यत्वात् । प्रतिबिम्बरुपस्य त्वन्मतेऽपि सत्यत्वात् । मायावादिना हि बिम्बप्रतिबिम्बयोरभेदमभिलषता बिम्बातिरेकेण प्रतिबिम्बसत्यता स्वीकार्यैव । अन्यथा सदसतोरैक्यप्रसङ्गः । न् हि भवति गोविषाणं शशविषाणाभिन्नम् । तथैवासत्यभूतप्रतिबिम्बात् सत्यबिम्बैक्यं न सम्भावयितुमपि शाक्यते । अतः प्रतिबिम्बसत्यताङ्गीकार्यैव । एव्ं च नासत्यात्सत्यप्रतिपत्तिः ।
(२) स्वाप्नपदार्थानां जैववासनोपादानकानामीश्वरेच्छानिमित्तजानां सत्यत्वमेवाभ्युपेयते । स्वप्नमिथ्यात्वावेदक- श्रुतिस्मृतीनां तु अनित्यत्वादिद्योतन एव तात्पर्यम् । तदुक्तं –

अनित्यत्वविकारित्वपारतन्त्र्यादिरुपतः ।
स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता ॥(वि.त.वि)

बाधदर्शनं तु जाग्रत्कालीनगजादिपदार्थाभावपरम् । न तु वासनोपादानकसूक्ष्मार्थप्रतिषेधपरम् । तदुक्तं –‘जाग्रत्वमिति हि भ्रमः’ इति (ब्र.सू. अनु.१.४.६) ।
ननु स्वप्ने असत्याया एव कामिन्याः भोगेन धातुविसर्ग (विकार) दर्शनात् कथं सत एव साधकत्वमिति चेत् उच्यते- न, तत्राऽपि ज्ञानमेव विकारजनकमज्ञातकामिन्या सुखाहेतुत्वात् । तस्मात् कामिनीज्ञानमेव विकारजनकं तच्च सत्यमेवेति नोक्तव्याप्तिभङ्गः ।
(३) स्फटिकलौहित्यस्याऽपि प्रतिबिम्बत्वात् । अनुभवबलेन धर्ममात्रारोपवत् धर्ममात्रप्रतिबिम्बस्याऽपि स्वीकार्यत्वात् । न च शुक्तिरजतवत् स्फटिके लौहित्यं मिथ्येति कृत्वा स्फटिके तदारोप इति वाच्यम् । अत्र रजतत्वं नेतिवत् स्फटिके लौहित्यं मिथ्येति बाधकाभावात् । अन्यथा प्रतिमुखमपि मिथ्या स्यादविशेषात् इति साधु समर्थितो जीवब्रह्मैक्यवादः ।
(४) रेखायाश्च वर्णे पदस्यार्थ इव सङ्केतितत्वेन रेखास्मारितवर्णस्यैवार्थबोधकत्वात् । अत एव रेखां दृष्ट्वा वर्णमुच्चारयन्ति । लिपीनां देशभेदेन भेदानुभवेऽपि वर्णानामेकत्वानुसन्धानेन ‘लिपिमात्रमिदं नाना, वर्णस्तु सर्वलिपिज्ञाप्य एक एवेत्यनुभवेन अयं ककारो अयं गकार इत्यस्याभेदोपचारत्वात् । ततश्च न वर्णारोप’ इति नायमपि असतः साधकत्वे दृष्टान्तः ।
(५) नगो नाग इत्यादौ दीर्घत्वादिकं स्वरुपसदेवार्थविशेषधीहेतुश्चेत् दीर्घध्वनिसाहित्यरुपं वा तद्व्यक्तत्वरुपं वा दीर्घत्वं वर्णगतं सत्यमेव हेतुः । न ध्वनिगतं वर्णेष्वारोपितं हेतुः ।
(६) शङ्काविषेऽपि शङ्कानिमित्तभयजन्या धातुव्याकुलतैव मरणहेतुः न तु विषम् । तथा चात्राऽपि सत्यस्यैव साधकत्वम् । ननु स्वप्नस्यासत्वेन तत्रोपदिष्टमन्त्रादिना रोगनिवृत्तिदर्शनात्,अ महाभारतयुध्दे घटोत्कचादि - सृष्ट मायागजादिना प्रतिपक्षविनाशाच्चासतोऽपि साधकत्वमायातमिति चेत्, न । स्वप्नस्य सत्यत्वं प्रागेवोपपादितम् । स्वाप्नप्रतीतमन्त्रस्य स्वप्नप्रतीतात्मवत् स्वयंप्रतिभातवेदवच्च अदृष्टाद् प्रतिभासोपपत्तेः । भारतयुध्दादौ । घटोत्कचादिशक्तिविशेषसृष्टं गजादिकमप्यर्थक्रियाकारिकारित्वेन सत्यमेव ।
(७) सवितृसुषिररज्जुसर्पादिज्ञानमेवारिष्टादि भयहेतुः न त्वर्यः । सत्यप्यर्थे तदज्ञाने भयाद्यभावात् ।
न चैवमनुमितिं प्रत्यपि हेतुव्याप्त्यादिज्ञानमेव कारणं न तु हेत्वादीति हेत्वादेरसत्वेऽपि ज्ञानमात्रेणानुमितिः स्यादिति चेत्, मैवम् । हेत्वाभासस्थले यथा हेत्वाद्यसत्वेन व्याप्त्यभावादनुमितेराभासत्वं तथा विश्वमिथ्यात्वानुमानेऽपि व्याप्त्याद्यभावादनुमानस्याभासत्वमेव ।
किञ्च हेत्वाभासस्थले ज्ञानमात्रस्य सत्वेन तत्र कार्थोप्तत्तिः समभाविता । प्रकृतानुमानेत्वन्मते तु वृत्तिरुपस्य तत्प्रतिबिम्बितचैतन्यरुपस्य वा ज्ञानस्यापि मिथ्यात्वाच्च ।
नन्वर्थानवच्छिन्नज्ञानमात्रं कार्यहेतुः उत अर्थावच्छिन्नम् ? नाद्यः । घटज्ञानादिनाऽपि भयापत्तेः । अवच्छिन्नस्य हेतुत्वे, अवच्छिन्नस्य यद् भवति तदवच्छेदकस्याऽपीति न्यायेन असतोऽपि कारणत्वं प्राप्तमेवेति ।

अत्रोच्यते
अवच्छिन्नस्य यद् भवति तदवच्छेदकस्यापीति किं सामान्यव्याप्तिरभिप्रेता आहोस्वित अवच्छिन्नस्य कारणत्वे अवच्छेदकस्याऽपि कारणत्वमव्याहतमिति विशेषव्याप्तिरभिप्रेता वा ?

१. आद्ये, घटदेशकालाभिन्नदेशकालादित्वेऽपि घटात्यन्ताभावघटध्वंसादेः अवच्छेदकस्य घटस्य तद्देशवृत्तित्वाभावात् नावच्छिन्नस्य यद् भवति तदवच्छेदकस्यापीति व्याप्तिसिध्दिः । घटकालदेशौ गृहीत्वा तदभिन्नदेशकालत्वं तदत्यन्ताभावादौ ग्राह्यम् । घटस्याऽपि तत्सम्बन्धे तद्देशकालभिन्नदेशकालत्वमेव व्याहृतं स्यात् ।
२. नाऽपि विशेषव्याप्तिरभिमता । घटज्ञानेन हि घटीच्छा जायते । वेदान्तेन च ब्रह्मज्ञानम् । एवं च घटेच्छाब्रह्मज्ञानयोः घटज्ञानवेदान्तसाध्यत्वेऽपि अवच्छेदकीभूटयोः घटाब्रह्मणोः तदभाववत् ।
३. घटप्रागभावस्य घटं प्रति हेतुत्वेऽपि अवच्छिन्नस्य यद्भवतीति न्यायेनावच्छेदकस्य घटस्य स्वं प्रत्यहेतुत्वात् । प्रागभाववत् घटस्य जनकत्वे प्रतियोगिप्रगभावयोः समानकालत्वापत्तिः । स्वावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन् व्याहतत्वं च ।
४. विशेषदर्शनाद्यभावस्य भ्रमहेतुत्वेऽपि अवच्छेदकस्य विशेषदर्शनस्य तदभाववत् ।
५. विहितकरणाभावे प्रत्यवायः । निषिध्दकरणाभावे चापूर्वलाभः । एवं च विहितनिषिध्दकरणाभावयोः प्रत्यवायादिं प्रति हेतुत्वेऽपि अवच्छेदकयोः विहितनिषिध्दकरणयोः तदभाववत् (अत्र चतुर्थे पञ्चमे च् प्रतियोगितदभावयोः सहावृत्या भ्रमप्रत्यवाययोरनुत्पत्तिप्रसङ्गः) ।
६. स्वर्गकामनाया यागं प्रति हेतुत्वेऽपि अवच्छेदकस्य अतीतस्य तदभाववत् ।
७. अतीतादिस्मृत्यादेर्दुःखादिकं प्रति हेतुत्वेऽपि अवच्छॆदकस्य अतीतस्य तदभाववत् ।
८. असद्विषयकापरोक्षज्ञानस्य तद्व्यवहारं प्रति हेतुत्वेऽपि अवच्छेदकस्य अत्यन्तासतश्च तदभाववत् ।
९. चिकीर्षितघटबुध्देर्घटं प्रति हेतुत्वेऽपि घटस्य तदहेतुत्ववत् ।
१०. ब्रह्मज्ञानस्य तदज्ञाननिवर्तकत्वेऽपि उदासीनस्वभावस्य ब्रह्मणस्तदहेतुत्ववत् ।
११. ब्रह्मगताज्ञानस्य विश्वपरिणामिकारणत्वेऽपि अवच्छेदकस्य ब्रह्मणस्तदभाववत् अवच्छेदकार्यस्य कुरुणां क्षेत्रे वसतीत्यत्र कुरुणामिव ताटस्थ्येनाहेतुत्वोपपत्तेः । तथा च –
रज्जुसर्पादिधीसाध्यभयादौ सर्पपूर्वकम् ।
फलेच्छासाध्ययागादौ फलवन्नैव कारणम् ॥

ननु केवलस्यतिप्रसङ्गित्वात् अर्थावच्छिन्नस्य हेतुत्वमभ्युपेत्यार्थस्यावच्छेदकत्वमङ्गीकरणीयम् । अवच्छेदकत्वं च व्यावर्तकत्वम् । तच्च व्यावृत्तिधीजनकत्वम् । तथा च व्यावृत्तिधीहेतुभूतस्यासतः सर्पस्य हेतुत्वं प्राप्तमेवेति चेत् ।
अत्रोच्यते । न व्यावृत्तिधीजनकत्वं व्यावर्तकत्वम् । किन्तु व्यावृत्तिधीहेतुधीविषयत्वमेव । अन्यथा सत्यपि दण्डे तदज्ञाने व्यावृत्यज्ञानात् । एवं च दण्डविशिष्टो देवदत्त इति ज्ञानात् देवदत्ते अदण्डिव्यावृत्तिधीर्जायते तद्विषयत्वं नाम तत्प्रकारकत्वं विवक्षितम् । अतो दण्डाविशिष्टात् व्यावृत्तिहेतुभूता या धीः दण्डप्रकारिका देवदत्तविशेष्यका विशिष्टधीः तत्प्रकरकत्वं दण्डेऽस्ति । एवमिहाऽपि सर्पज्ञानेऽसर्पज्ञानाद् व्यावृत्तिबुध्दिर्भवति । तज्जनिका या धीः ‘इदं सर्पज्ञानम्’ इत्येवं सर्पप्रकारिका तज्ज्ञानविशेष्यकाऽनुव्यवसायरुपा विशिष्टधीः तत्प्रकारत्वं सर्पेऽस्ति । अतो न मिथ्यार्थस्य व्यावृत्तिधीजनकत्वं किन्तु तज्ज्ञानस्यैव प्राप्तमिति च कोऽपि दोषः ।
नन्वथाऽपि ज्ञानस्यैव हेतुत्वाङ्गीकारे असत्यस्यैव हेतुत्वं सिध्दयति । अनवच्छिन्नस्य हेतुत्वेऽतिप्रसङ्ग भयात् अवच्छिन्नस्य हेतुत्वं वाच्यम् । तत्र अवच्छेदकीभूतस्य मिथ्यात्वेन तदवच्छिन्नस्याऽपि मिथ्यात्वं प्रसज्यते ।
अत्रोच्यते । स्यादिदं यद्यवच्छिन्नस्य यद् भवति तदवच्छेदकस्यापीति नियमो भवेत् । न चैवम् । तुच्छावच्छिन्ने तद् ज्ञाने तुच्छवैलक्षण्ये च तुच्छत्वाभावात् । प्रातिभासिकाद् वैलक्षण्ये च प्रातिभासिकत्वस्य पञ्चमप्रकारतायाम् आत्मस्वरुपभूतायां वाऽनिर्वचनीयाज्ञाननिवृत्तौ च चतुर्थप्रकाररुपानिर्वचनीयत्वस्य प्राप्तेः । तुच्छज्ञानादौ तुच्छादीनां ताटस्थ्ये (उपलक्षणत्वे) सर्पज्ञानादावपि विषय उपलक्षणमस्तु ।
वस्तुतस्तु अर्थानवच्छिन्नं ज्ञानमेव हेतुः । न चातिप्रसङ्गः । विषयावच्छेदमनपेक्ष्य स्वत एव सर्पज्ञानस्यासर्पज्ञानाद् व्यावृत्तेः । तथा हि सर्पज्ञानमसर्पज्ञानाद् व्यावृत्तम् । व्यावृत्तिश्च व्यावर्तकाधीना । न च विषयस्तत्सम्बन्धो वा व्यावर्तकः । विषयतत्सम्बन्धयोर्ज्ञानेन सह स्वरुपातिरिक्तद्विष्टसम्बन्धाभावात् ।
असम्बध्दस्य चाव्यावर्तकत्वात् । अतः कश्चित् ज्ञानगत् एव धर्मोऽभ्युपगन्तव्यः ।
किञ्च विलक्षणसामग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरुपो विशेषः विषयोपाधिना विनाभ्युपगम्यते एवमपरोक्षज्ञानेऽपि कथं स्वगतो विशेषो नाङ्गीकरणीयः स च क्षीरमाधुर्यादिवदाख्यातुमशक्यो वा तदव्यवहारजननशक्तत्वरुपो वा वक्ष्यमाणरीत्या द्र्ष्टव्यः ।
किञ्च सत्यसर्पज्ञानं विषयोपाधिमनपेक्ष्यासर्पज्ञानाद् विलक्षणम् तज्जनकविलक्षणजनकजन्यत्वात् परोक्षज्ञानजनकविलक्षणजनकजन्यापरोक्षज्ञानवत् ।
किञ्च त्वन्मते तत्तद्वृत्तेस्तत्तदाकारत्वेन चैतन्यस्य् च तत्प्रतिबिम्बितत्वेन वा तदभिव्यक्तत्वेन वा मम तु तत्तज्ज्ञानस्य तत्तदीयस्वाभावत्वेन वा तत्तद्व्यवहारजननशक्तत्वेन वा स्वत एव वैलक्षण्यम् । एव्ं च सत्यासत्यसर्पज्ञानयोः स्वत एव वैलक्षण्ये सिध्दे ज्ञानस्यैव भयादिजनकत्वं नार्थस्येति ।

तदुक्तमाचार्यपादैः –

सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ।
तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ॥ इति ॥

एतेन-

अन्तर्भावितसत्वं चेत् कारणं तदसत्ततः ।
नान्तर्भावितसत्वं चेत् कारणं तदसत्ततः ॥

इत्यादिखण्डनोक्तासत्कारणता अस्यैव श्लोकस्याकारप्रश्लेषेण पठितुं शक्येति न सत्कारणातावादभङ्गः ।

अन्तर्भावितसत्वं चेत् अकारणमसत्ततः ।
नान्तर्भावितसत्वं चेत् अकारणमसत्ततः ॥

‘कथमसतः सज्जायेत्’ इत्यादिश्रुत्या ‘नासतोऽदृष्टत्वाद’ इत्यादिसूत्रेण, ‘असद्भ्यः शशविषाणादिभ्यः सदृत्पत्त्यदर्शनाद्’ इत्यादिस्वीयभाष्येण च विरुध्दाऽन्यत्र निरस्ता च । तस्माद्धेतुव्याप्त्यादीनामसत्त्वेऽसिध्दयादि दुर्वारमिति ।

सन्दर्भाः[सम्पादयतु]

F.N. page 1

1. ब्र.सू.शा. भा. 2.1.6.14 P.373
2. Ibid P. 373

Page -2

1. शां . भा. फ्. 377
2. भामती p. 377

Page 3

1. अभिज्ञा- अनुभवः अभिवदनमभिलपनम् ।
2. श्रीसुधा. P. 2075-76

Page -4

1. ब्र.सि. P. 41
2. तत्राऽपि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वं सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्यमानत्वात् इत्यभिप्रायः –शां .भा. 3.2.1.4. P. 626
"https://sa.wikipedia.org/w/index.php?title=असतः_साधकत्वविमर्शः&oldid=395145" इत्यस्माद् प्रतिप्राप्तम्