आगमडम्बरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
आगमडम्बरम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः जयन्तः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

आगमडम्बरं षण्मतनाटकमपि निगद्यते । एतस्य रचयिता जयन्तः वर्तते। एतद्द्वारेण जयन्तो जयन्त इव चार्वाकेषु बौद्धेषु जैनेषु मीमांसकेषु शैव-नैयायिकेषु पञ्चरात्रागमेषु हीनतरशैवेषु नीलाम्बरजैनेषु च चञ्चुप्रहारान् कृत्वा तान् निरावरणांश्चकार । अभिनयोचितं संघटनमिदं रङ्गमञ्चमवतारयितुं जयन्तशिष्याः सूत्रधारं निवेदितवन्त इति प्रस्तावनातोऽवधार्यते । १९६४ ई० वर्षे डा० राघवन्-महोदयो मद्रासनाट्यसंघेनैनत् प्रयोजितवान्।

लेखकपरिचयः[सम्पादयतु]

काश्मीर-मूर्धन्यानां विपश्चितां रससिद्धानां कवीनां कोविदानां शास्त्रकृतां च प्रभवा अभूवन्निति को न वेद । अन्यासां ज्ञानशाखानामिव रूपकाणामपि प्रभूतं वाङ्मयं तत्र निर्मितं भवेदिति अनुमापि प्रत्यक्षायते किन्तु जयन्तभट्टस्यैनां कृतिं विहाय न किमपि काश्मीरीयं रूपकमद्ययावदुपलब्धम् ।

न्यायमञ्जरीं पुरस्कृत्य खलु जयन्तभट्टो महीयसीं समज्ञां लब्धवान् । अनेन ग्रन्थेनासौ सर्वान् न्यायेतर-सिद्धान्तानपाकृत्य गौतमीयमेव मतं प्रत्यपादयत् । अतोऽपि प्रागसौ न्यायकलिकामुन्मील्य प्रमाणादीनां षोडशनामक्षपादीयानां तत्त्वानां सुरभिदलैः शिष्यपरम्परामवाकिरत् । गौतमसूत्राणां व्याख्यामभिपल्लवयन् सातिशयं विशदं च शास्त्रानुरागमाविर्भावयन्नेषः न्यायपल्लवं नाम ग्रन्थं व्यरचयत् । सर्वातिशायिनीं न्यायराद्धान्तानुकूल्यमाबहन्तीं कैशोर एवाष्टाध्यायीवृत्तिं कृतपूर्वी किलायं नववृत्तिकारोपाधिं जग्राह । अध्यापनैकरसविश्रान्तसंविदोऽस्य शिष्याणां विपुलता व्याप्नोत् काश्मीरान् भारतवर्षं च । अयं हि साङ्गवेदानां शास्त्राणां च दोषज्ञप्रकाण्डमभवत् । एतदप्यस्य महिमानं तनोति, यदयमाथर्वणीं श्रुतिमग्रगण्यतामनयत् । नैयायिकतल्लजः सन्नप्यसौ वैदिकः शैवोपासनापश्चासीत्।

परिवारः, कालश्च[सम्पादयतु]

गोत्रेण भारद्वाजो वर्णेन ब्राह्मणोऽसौ विद्यायोनिवंशयोरेकतानतां बिर्भात । अस्य पूर्वपुरुषा गोडेभ्यः काश्मीरेषु दीर्वाभिसारीमावसन् । तेषामन्यतमः पण्डितमतल्लिका शक्तिस्वामी मुक्तापीडस्य महाराजस्य मन्त्रित्वमलंचकार। तद्वंश्य: कल्याणस्वामी योगशास्त्रनिष्णातो विमलमतिर्जयन्तभट्टस्य पितामहोऽभवत् । राज्ञः शङ्करवर्मणो धर्ममन्त्रित्वं भजन् जयन्तो राजकोपभाजनतां गतः कारां निषेवमाण एव न्यायमञ्जरीं विरचितवान् । अस्य तनुजन्मा शिष्यश्चाभिनन्दो यौवन एव ‘कादम्बरी-कथासारं' नाम ग्रन्थं विरच्य ख्यातिं लब्धवान्।

राजा शङ्करवर्मा ८८३ ख्रीष्टाब्दतः ९०२ पर्यन्तं राजासीदिति जयन्तभट्टस्य प्रतिभोन्मेषकालो नवम्याः शताब्द्याः परभाग एव निश्चीयते। नाट्केऽत्र स्वानुभूतमेव स्नातकस्य स्वरूपमुपस्थापितम् -

स्वाध्यायः पठितो यथाविधि परामृष्टानि चाङ्गानि षड्

मीमांसापि निरूपितेति विहितं कर्म द्विजन्मोचितम्।

नित्याधुतकुतर्कधूसरगिरां यावत्तु वेदद्विषां

न्यक्कारो न कृतः कृतार्थम् इव मे तावन्न विद्याश्रमः।।

कथावस्तु[सम्पादयतु]

प्रथमेऽङ्के राजवैभवोचिते श्रीनगरस्य विहारे विवादेन बौद्धभिक्षुन् पराजेतुं वैदिकः स्नातकः सङ्कर्षणो वटुश्च प्रविशतः । तत्रत्या अभ्यवहाराः कामुकविलासाश्च तयोरुद्वेगकरा बभूवुः । अनात्मवाद उपहास्य इति तयोर्मतम्, वैदिकयागेषु पश्वालभनं जुगुप्साकरमिति बौद्धानां दृष्टिः । तावदेव कतिपये प्राश्निका विहारं प्रविशन्ति । तान् प्रति विवादस्य विषयः उपस्थापितः -

तस्मात् सर्वं शून्यं सर्व क्षणिकं निरात्मकं सर्वम्।

सर्वं दुःखमितीत्थं ध्यायन् निर्वाणमाप्नोति॥[१]

इत्यन्ते प्राश्निकाः स्नातकविजयघोषेण सभां विसृजन्ति स्म । प्रवेशके कोऽपि क्षपणकः प्रेयस्या दुष्टतापस्याश्चरणयोः पतन् तां प्रसादयितुकामोऽनुयन्नपि प्रत्याख्यातः । तथापि नवयौवनोल्लासललामकमनीयायां बन्धक्यां रागबन्धं दृढीकरोति । बन्धकीवेषधरस्य चेटस्य व्यतिकरे कामुकः क्षपणको तस्य पुरुषभावं प्रतीतवान्।

द्वितीयेऽङ्के स्नातकेन संकर्षणेन सङ्गतः क्षपणको जिनरक्षितः स्वयमेवापूर्णमन्यतां व्याहरति -

निषिद्धं यानेनाप्यनुसरति तानेव विषयान्

न तेषां वैषम्यं विमृशति विपाके बहुविधम्।

न विद्मः किं कुर्मो विशति न शिवे वर्त्मनि मनो

न शाम्यत्येवैषा निरवधिरविद्या भगवती ।।

अनेकान्तवादं विवादविषयमवलम्ब्य संकर्षणं प्रश्नबाणसंधानपरमुपलभ्य भिक्षुकार्यमवसीदतीति व्याजेन जिनरक्षितस्ततोऽन्तर्हितः । गते तस्मिन्नन्यस्तपसः प्रविश्य स्वव्रज्यात्वरायाः कारणं प्रति स्नातकमुवाच - जिनरक्षितस्य तपोवने क्षपणकानां महती भोजनव्यवस्थासीत् । तद्यथा -

शममयमिव दृश्यते जगन्नियमवतीय चकास्ति मेदिनी।

इह खलु भवपाश-पङ्क्तयो विशकलिता इव भान्ति देहिनाम्।।

इति निशम्य स्नातको नीलाम्बरजैनोपासकानां मेलकं प्रेक्षितुं ततो निष्क्रान्तः । तान् मिथुनेविहरतो दृष्ट्वाऽसौ स्वगतमभाषत - "एकनीलवसनावृताविमौ स्त्रीपुंसौ किमप्यति पेशलं गायन्तौ सह विहरतः।"

ते च प्रत्यवदन् - जयइ मुणो नील बरणाहो, जेण समिउ भवसंवरगाहो।

इत्यादीनां गीतानामयं भाव उल्लसति - अस्मन्मते स्त्रीसुखं भुञ्जाना मोक्षं लभेरन्-इति। अत्रेदमवधेयं यद् राज्ञा शंकरवर्मणा नीलाम्बर-सम्प्रदायोऽपुनरुत्थानाय शासनेनोत्सारितः। अद्यत्वेऽस्माकं देशे प्रचलितांस्तादृशः सम्प्रदायानुपरोद्धं कः प्रभुः ?

एतैः संकथापि पापलेपदायिनीति मत्वा स्नातको निर्गतः ।

प्रवेशके कङ्कालकेतुर्नाम दुवृत्तो माहेश्वरसाधकः स्वमित्रेण श्मशानभूतिना सह राजशासनभयेन पलायितुं व्यवतिष्ठते । कङ्कालकेतुर्मित्रं वदति - सुरां पिबामो मांस भक्षयाम: स्त्रीसमागमसुखमधिगच्छामः, सर्वथा नीलाम्बरा इव वयमपि वर्तामहे, तेनावां साधकवेषं निगूह्यान्धतमसे पलायावहै-इति । तौ च सुगन्धादेव्या नाम राजमहिष्या दत्तमानायाः कालशिखाग्नेर्नाम योगेश्वर्याः साहाय्येनात्मरक्षां वाञ्छतः।

तृतीयेऽङ्क संकर्षणो वटुं पृच्छति - तत् किमन्ये न नीलाम्बरच्छायानुकारिणे उत्सारणयोग्याः प्रचरन्ति पृथिव्यामलीकतापसाः" इति। वटुराह -

अपेयं किं तेषां न तु विरहितं यद् द्रवतया

अभक्ष्यं यत् तिक्तं दलयितुमशक्यं च दशनैः।

अजाता प्रेता वा यदि परमगम्या स्तनवती

तपःस्थाने योग्यं किमिव यदि वा शौण्डिकगृहम्॥

इति माहेश्वरानपि कांश्चन तथाभूताञ्छ्रुत्वा तान् सन्मार्गाच्च्युतेर्वारयितुं चिन्तयति संकर्षणे दूतो राजाज्ञातो भीतानन्यानपि तापसान् पलायनपरान् सन्दिष्टवान्। संकर्षणस्तादृशान् यथास्थिति स्थापयितुमनुरोधयांबभूव ।

ततः श्रीधर्मशिवभट्टारकस्याश्रमं गतः संकर्षणस्तद्दर्शनपूतमनास्तेनानुगृहीतः कियन्तं घटीकालं तस्थौ । तावदेव वृद्धाम्भिर्नाम चार्वाकस्तत्र समेतः पूर्वं धर्मशिवेन पश्चाच्च संकर्षणेन कृतविवादः पराभूतः । इमे चार्वाका अपि राष्ट्रवादपसारणमहन्तीति धर्मशिवः संकर्षणं प्रोक्तवान् । अथ राज्ञः शंकरवर्मण आगमनसमाचारेणाङ्कसमाप्तेः पूर्वं संकर्षणो धर्मशिवं यथास्थितं वृत्तं वर्णितवान् -

न हि द्विष्मो देवं शिवमनुपमैश्वर्यविभवं

स एवैको हेतुः स्थितिविलयसर्गेषु जगताम्।

स रुद्रः स ब्रह्मा स हरिरपरो वापि पुरुषः

परस्तेभ्यस्तस्मिन् भुवनमखिलं संश्रितमिदम्।।

इति शैवाः पाशुपताः कालामुखा महाव्रतिनश्च स्वैरं काश्मीरेष्वेव निवसन्त्विति ।

चतुर्थेऽङ्के राजादेशेन महानैयायिकस्य धैर्यराशेरध्यक्षत्वे विपश्चिता सभा पाञ्चरात्रादीनां वेदानामिव प्रामाण्यमप्रामाण्यं वेति निर्णतुं समायोजिता। वेदा इव पाञ्चरात्रागमा अपि प्रमाणमितिनिर्णयन् धैर्यश्रीराह -

प्रमत्तगीतित्वमलौकिकत्वं लाभादि लोभादि न यत्र मूलम् ।

तथाविधानामयमागमानां प्रामाण्यमार्गों न तु यत्र तत्र ।।

इति सर्वे धैर्यश्रिया कृतं सत्यानुसन्धान प्राशंसन् । तात्कालिकस्य वस्तुनः समायोग आगमडम्बरस्य महान् विशेषः । तदानीन्तनस्य काश्मीराधीश्वरस्य शंकरवर्मणो मन्त्रिपदं भूषयतो जयन्तभट्टस्य पट्टशिष्यः संकर्षणः स्नातकः सन् समयाचार-दूषकाणां वेदनिन्दापराणां साधुब्रुवाणां दुष्प्रवृत्तीः संपरिज्ञाय काश्मीरांस्तैर्मुक्तान् विधातुं गुरुं प्रोत्साहयति स्म । जयन्तभट्टस्य सम्मतः संकर्षणो राज्ञा धर्माधिकारिपदेन सम्मानित: काश्मीरान धर्मकण्टकशोधनेन निरवद्यान् कत्तुमादिष्टवान् - "भो भोः पौरजानपदाः, एष खलु महाराजशंकरवर्मदेवराज्ञया भट्टश्रीसंकर्षणः सर्वानेव युष्मान् बोधयति -

ये धानादि-जगत्प्रवाह-पतिता नानागमाः साधव-

स्ते तिष्ठन्तु यथास्थिताः स्वसमाविष्टाचरन्तः क्रियाः।

ये तु प्रस्तुत-धर्म-विप्लवकृतः पापास्तपोऽपायिन-

स्ते चेदाशु न यान्ति घातयति तान् दस्यूनिव क्ष्मापतिः।।

इति वस्तु-पर्यालोचनेन समयाचारिकस्य धर्मस्य प्रतिष्ठापनैव लक्ष्यभूता। अभिनयशिल्पाजतजीविकोपायानां तदा का स्थितिरभूदिति सूचयदागमडम्बरं कमपि विशेषं दधाति । तद्यथा सूत्रधारः - “भरतमुनिनोपदिष्टे दशरूपकप्रयोगे किल कृतश्रमा वयम्।"

इति वदन् परिशीलितनाट्यशास्त्रैरेव नटैर्भाव्यमासीदिति सूच्यते। तथापि तेषां दुःस्थितिर्मनो दुनोतितराम् । यथा च स एव -

"नटत्वं नाम जघन्यः कोऽपि सतताव्यस्तसूत्कटकपट-व्यापा-डम्बरः कुटुम्बभरणोपायः। ....इन्द्रजालमायाप्रायं नटवृत्तम् । नटो वस्तुस्थित्या जठरभरणे शिल्पपूरणः । तद्वरमिदं कुशिल्पमल्पफलमलघुक्लेशमतित्रपाकरमुपसंहृत्य....-'' इत्यादि।

समीक्षा[सम्पादयतु]

प्रस्तावनैवामुष्य नाटकस्य नावीन्यं प्रावीण्यं च वहति, यत्र सूत्रधारः स्वव्यवसाय-दुःस्थितिं प्रति क्रन्दमानः प्रेक्षकान् सर्वतो व्यावृत्य चेतो नाट्यप्रयोगे दत्तावधानान् करोति । अपि चैनत् सर्वथैवालौकिकमशास्त्रीयं च स्पष्टमुद्घोषयति । पारिपार्श्विकोऽपि जयन्तभट्टस्य व्याजस्तुतिं तन्वान आह -

"काव्यं करोति स कविर्भरतोपदेशमुल्लंघ्य" इत्यादि । किमिदं नाटकं नाम, यत्र पञ्चावस्थात्मकं कार्यव्यापारमुल्लंघ्यैव कापि स्वैरिणी सरणिरनुसृता दृश्यते । अपीदं नाटकनामसार्थक्यमपि वहति यत्र चत्वार एवाङ्काः विराजन्ते, मन्ये रूपकपर्यायं नाटकशब्दं मनसिकृत्यैव दुर्दुरूढत्वं नैयायिकस्य नाट्यकृतः संसूचयति । प्रथमाङ्कात् पुरस्तादुपनिबद्धो विष्कम्भको नैव स्कभ्नाति किमपि सूच्यं तत्त्वजालं कथाभागमेवाङ्गस्य दृश्यतां नयति । अमुष्मिन् प्राधान्यं दधद् भिक्षुरङ्गतस्य नायकस्य संकर्षणस्य प्रतिपक्षत्वं वहति । प्रथमयोरङ्कयोः प्रवेशके क्षपणकयोश्चेटस्य च स्ववृत्तमेव दृश्यते, नैव पूर्वापरकथायोगस्तेन सूच्यते। चतुर्थेऽङ्के धैर्यराशिधैर्येण नटस्य सामाजिकस्य च धैर्यपरम्परा व्याहुन्यमाना चकास्ति । धैर्यराशिर्हि पञ्चदशाद् आ च व्यधिकशततमात् एकनवत्या पद्यानां प्रवचनेन पीडयतितमाम् । नेदं नैसगिर्कं न वा रङ्गोपयुक्तम् इति सूत्रधारो यदस्य नाटकस्याशास्त्रीयत्वमलौकिकत्वं च व्याजेन स्तौति तत् समीचीनमेव निन्दापरं प्रशस्तिवाचनम् ।

दार्शनिकविवादोत्तोलकेऽत्र नाट्ये चरित्रानुशीलनं नैव समीक्षादेशमनुवसति, तथापि शत्नभूतेन जिनरक्षितेन कृता स्नातकस्य प्रशंसा समाकर्षति - "दुर्विषहमस्य पौरुषम् । अपूर्वैषा वक्तृशक्तिः प्रज्ञा च ।" इत्येवं जयन्तभट्टो जैनानां मनोबलहानमेव सूचयितुकामः।

दर्शनोपदेशपरेऽमुष्मिन् रूपके काव्योचितसौभाग्यभाञ्जि विरलान्येव सन्ति स्थलानि, किन्तु यत्र कुत्रापि कलास्वारस्यमनुरुन्धानो दृश्यत एव जयन्त भट्टः । यथा पद्मिन्याश्छविः -

अधः शाखैरूर्ध्वस्थित-चिततमलैः कमलिनीजलं धत्ते लक्ष्मीं पुलिन-तरु-षण्डैः प्रतिमितैः । इहान्तर्दृश्यन्ते विटप-विनिविष्टाः क्षितिरुहां विहङ्गाः खादन्तः फलशकलमुत्तानवदनाः।।[२] नीरसानां चर्चानां मध्ये जातु चर्चेव चन्दनच्छायाः स्पृशति हृदयमानुप्रासिकी रचना -

एते धूलनभस्मधूसररुचो धूपाग्निसंधुक्षणे

दक्षास्तत्क्षण-पीत-पुण्य-पुरजित्पूजार्थ-पुष्पासवाः।

धन्याः कं न हरन्ति तापस-जटा-ग्रन्थि-श्लथीकारिणः

कंथामन्थर-लास्य-दान-रसिकाः शैवाश्रमे वायवः॥[३]

नीरसता-कर्शितेष्वपि हास्यस्पर्शः समुत्फुल्लतामेव पुष्णाति । यथा द्वितीयाङ्कात् पुरस्तने प्रवेशके क्षपणिकावेषवञ्चनापरश्चेटः क्षपणकं विज्ञापयति - बालिकेवाहं प्रव्रजिता केनापि यूना शीलभङ्गं कारितेति। क्षपणकस्तु सुधाकुल्यामेवागतां मनसि करोति । चेटे च–स युवा तां विहाय कामपि जरतीं क्षपणिकामवगाहत इति कथयति । क्षेपणकंस्तं (तां) चुम्बितुकामः । अनुद्गतवक्षोजंवक्षो वीक्ष्य परीक्ष्य च स्पृष्टाङ्गसन्निवेशोऽसौ कुपितश्चेटमधर्षयत् । मां ताडयसि वा भर्सयसि वा चेदहं परमाचार्यमाह्वयेयमिति चेटेन पराभूतः क्षपणकस्तस्य पादयोः साष्टाङ्गमपतत् । तावदेवागता पुरातनी जरती क्षपणिका चेटं परास्य क्षपणकं सुनिभृतं भृशं प्रहारैः शिथिलतबन्धनसन्धिं कृतवती।

आस्तां तावज्जैनान् प्रति वितृष्णा, स्यादेतद् यदि नीलाम्बरीया आसन् कामुकताकीलितहृदयाः, भवतु यथा वा तथा वा स्थितिः, जयन्तभट्टसदृशाद् विदुषो नापेक्षामहे तादृशमधमपात्रावतारणं तथाविधं च हास्यताण्डवम् । अभिव्यञ्जनाया गम्भीरमा तावज्जयन्तभट्टेन न किमपि सख्यं रक्षतीति न्यायमञ्जरीतोऽपि जानीमः।

चरित्रानुरूपतां भजन्ती भाषा सुतरां भावयति चेतः । प्रवेशके चेटो मागधी परिनिष्ठितामेव वक्ति । नीलाम्बरमिथुनस्य गीतान्यपभ्रशनिबद्धानि चकासति । वाग्विवादेषु सुस्पष्टतां सुगमतां प्रभावशीलतां च वहन्ती भाषा न क्वापि दुर्वहा भवति - यथा वृद्धाम्भेः कथनम् -

मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः।

एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः॥[४]

इत्यभिनयमनुबध्नतीं संदृब्धा गीः सर्वथा जयन्तभट्टं यशस्वितां नयति । छन्दःसु प्राचुर्येण अनुष्टुभ एव प्रायुज्यन्त । शिखरिणी, शार्दूलविक्रीडितं, वसन्ततिलकमुपजातिरार्याचेति बहुशः निबद्धाः । एकैकशः प्रयुक्तानिच्छन्दांसि तु अपरवक्त्रमुपगीतिः पुष्पिताग्रा मञ्जुभाषिणी प्रामाणिका प्रहर्षिणी रुचिरौपच्छन्दसिकं रथोद्धता स्वागता वैश्वदेवी च सन्ति । इदमपि वैविध्यं वैचिन्त्यं वहति।

दार्शनिकेष्वपि वाचारम्भणेषु समुदाचारः समीचीनतां बिभर्ति यथा स्नातकस्य प्रतिपक्षेण जिनरक्षितेन सहालापः -

“स्नातकः - अपि कुशलिनः शिष्यपरिषदा सह भवन्तः।

भिक्षुः – स्वागतमार्यस्य । इत उपविश्यताम् । कुशलम्।

स्नातकः - अनुकूलालाप-पेशलैव भवदृशां निर्मिता प्रजापतिना रसना।”

यथा वा संकर्षणमाश्लिष्य धैर्यराशिर्ब्रूते - "अयमप्रयास-सुलभोऽनुभूयते सकलतीर्थसलिलाभिषेकः" इत्यादि ।

सात्त्विकभावेन वस्तुस्थितिगतं वैषम्यमवगमयितुं जयन्तभट्टेनेदं नाटकं रचितम् । प्रथमेऽङ्के विहारस्य रोचकं वर्णनं समाप्य स्नातकेन व्याहारयामास -

"न खलु तपस्विजनमठिकास्थानमिदम् । राजोद्यानमेतद् । कष्टं भोः कष्टम् -

विट-पथिक-लुण्ठ्यमानैर्वन्द्य पथि जातगहनदिमोहैः।

अस्थाने क्षिप्यन्ते विविधानि धनानि धनवद्भिः॥ [५]"

किलाप्रमाणेऽप्यस्मिन्नागमे विषयसुखपराङ्मुखमनसां समाधिभावनाभ्याससक्तानां यथातथाकल्पितप्राणवृत्तीनां किमेवंविधैरनुपशान्तजनोचितैर्भोगसाधनविभवैः'' इति ।

अपि च सांस्कृतिकमुच्चावचत्वं सूचयन्तः संभाषा महीयन्ते । यथा बौद्धविहारेषु भिक्षुणामभ्यवहारवर्णना -

पक्वरस-शब्द-निह्नुतमन्यव्यपदेशमत्र मधुपानम् ।

मांसाशनं च कोटित्रय-रहितमहो तपः कृच्छम्।।[६]

भोज्य-परिवेषिण्योऽनावृतप्राय-गोप्याङ्ग-भङ्ग्यः किंकर्यो भिक्षुन् प्रति । कटाक्षनिपातैः सरसतरतां नयन्ति स्वादून्यन्न-पानानि । अहो पानविक्रमशीलता भिक्षोः -

तृषितोऽपि पिबति न तथा जिह्वया भ्राभ्यत्कुवलयं पानम्।

दृष्ट्या यथा दासीनां विकसिततरलोचनं वदनम्॥[७]

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. १.२६
  2. १.१९
  3. ३.५
  4. ३.१०
  5. १.२०
  6. १.२१
  7. १.२२
"https://sa.wikipedia.org/w/index.php?title=आगमडम्बरम्&oldid=437116" इत्यस्माद् पुनः प्राप्तिः