आपस्तम्बशुल्वसूत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अापस्तम्बस्य शुल्वसूत्रं षट् पटलेषु विभक्तमस्ति । अस्य ग्रन्थस्य आभ्यन्तरे अन्यावान्तरवर्गाः सन्ति । अनेन प्रकारेण अस्मिन्नेकविंशतिः अध्यायाः, २२३ सूत्राणि च सन्ति । अन्तिमाध्याये काम्येष्ट्यै आवश्यकविभिन्नवेद्या आकारप्रकारस्य विशदं विवेचनमस्ति ।

टीकाकाराः[सम्पादयतु]

टीकादृष्ट्या शुल्वसूत्रमिदम् अतिलोकप्रियमस्ति । अद्यावधि अस्य चतस्रः टीकाः समुपलभ्यन्ते।

कपर्दिस्वामी[सम्पादयतु]

टीकाकारेषु सर्वाधिकः प्राचीनोऽयं मन्यते। आपस्तम्बश्रौतसूत्र-आपस्तम्बसूत्रपरिभाषा-दर्शपौर्णमाससूत्र-भारद्वाजगृह्यसूत्रादीनां ग्रन्थानां टीका कृताऽनेनेति । एतेषां ग्रन्थानामुद्धरणं शूलपाणि-हेमाद्रि-नीलकण्ठादिप्रतिष्ठितैः आचार्यैः कृतम् अतः एषः प्रमाणिकः मन्यते। शूलपाणेः समयस्तु ११५० ख्रीष्टाब्दस्य पार्श्वर्त्तीं वर्तते । वेदार्थदीपिकायाः रचयितुः षड्गुरुशिष्यस्य ( ११४१ ई०-११९३ ई० ) अयं गुरुरासीत् । हेमाद्रेः कालस्तु त्रयोदशतमशती अासीत् । महादेवो देवगिरिवंश्यो राजाऽऽसीत् । त्रयोदशे च ईशवीये शतकेऽस्य वंशस्योत्तरभारते प्रचुरः प्रभावः अासीत् । अस्योत्तराधिकारी रामचन्द्रः ( १२७१ ई०१३०९ ई०) आसीत् । महादेवरामचन्द्रौ मिलित्वा १२६० ईशवीतः १३०९ ई० पर्यन्तं राज्यं चक्रतुः । अतः कपर्दिस्वामिनः स्थितिकालो चतुर्दशशतकस्य पूर्वार्द्धभागो मन्यते । विद्वानयं दक्षिणभारतस्य निवासी।

करविन्दस्वामी[सम्पादयतु]

अयं हि विद्वान् आपस्तम्बस्य सम्पूर्णश्रौतसूत्रोपरि स्वव्याख्यामलिखत्। समयस्त्वस्य निश्चयेन किमपि वक्तुं न शक्यते । नामनिर्देशं विनैव अयमार्यभटप्रथमस्य ( जन्मकालः ४७६ ई० ) आर्यभटीयग्रन्थस्य (रचनाकालः ४९९ ई०) कतिपयनिर्देशान् स्वग्रन्थेषूल्लिखितवान्, येनायं पञ्चमशतीतः अवर्द्राचीनः मन्यते। अस्य टीकायाः नाम शुल्वप्रदीपिका इति।

सुन्दरराजः[सम्पादयतु]

अस्य टीकायाः नाम शुल्वप्रदीपः इति। ग्रन्थोऽयं ग्रन्थकारस्य नामोपरि ‘सुन्दरराजीय’ नाम्नाऽपि ख्याताऽस्ति । अस्यापि समयस्योचितरीत्या ज्ञानं न भवति । अस्य ग्रन्थस्य प्राचीनहस्तलेखस्य समयः १५८१ ख्रीष्टाब्दोऽस्ति । इयं मातृकाग्रन्थत्वेन तञ्जोर-राजकीयपुस्तकालये सुरक्षितः अस्ति । अस्य समयः षोडशशताब्दीतः प्राचीनः स्वीक्रियते।

गोपालः[सम्पादयतु]

अस्य व्याख्यायाः नाम अापस्तम्बीयशुल्वभाष्यम् इति अस्ति । अस्य पितुर्नाम गातर्यनृसिंहसोमसुत इति। अयं कर्मकाण्डेन दीक्षिते वैदिकपरिवारे समुत्पन्नोऽभवत् । कर्मकाण्डीयपरम्परयाऽयं पूर्णपरिचितः आसीत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]