आमेरदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
आमेरदुर्गम्
आम्बेरदुर्गम्
Part of जयपुरम्
आमेर, राजस्थानम्, भारतम्
आमेरदुर्गस्य विहङ्गमं दृश्यम्
आमेरदुर्गस्य सम्मुखं दृश्यं, यस्मिन् विशाला सर्पाकारा सोपानशृङ्खला अपि दृश्यते।
Amber Fort, Jaipur, c1858.jpg
आमेरदुर्गम् आम्बेरदुर्गम् is located in Rajasthan
आमेरदुर्गम् आम्बेरदुर्गम्
आमेरदुर्गम्
आम्बेरदुर्गम्
अवस्थानम् २६°५९′०९″उत्तरदिक् ७५°५१′०३″पूर्वदिक् / 26.9859°उत्तरदिक् 75.8507°पूर्वदिक् / २६.९८५९; ७५.८५०७
प्रकारः दुर्गम्
प्रादेशिकतथ्यानि
नियन्त्रितम् राजस्थानसर्वकारः
सार्वजनिकानां
 प्रवेशः
आम्
स्थितिः संरक्षितम्
क्षेत्रेतिहासः
निर्माणम् १५५८-१५९२[१]
उपयुक्तम् १५९२ - १७२७
निर्माता राजा मानसिंहप्रथमः तत्पश्चात् सवाई जयसिंह द्वारा अनेकानि योगदानानि, परिष्काराः च
निर्माणोपकरणानि रक्तः बलुआ-पाषाणः, पाषाणः, संगमर्मर

आमेरदुर्गं (आम्बेरदुर्गम्) भारतस्य राजस्थान-राज्यस्य राजधान्याः जयपुर-नगर्याः आमेर-क्षेत्रे कस्मिँश्चित् उन्नते पर्वते स्थितं पर्वतीयदुर्गम् अस्ति। एतत् जयपुर-नगरस्य प्रधानं पर्यटकाकर्षणम् अस्ति। आमेर-क्षेत्रं मूलरूपेण स्थानीयैः मीणा-जनैः विकसितं वर्तते, यस्मिन् कालान्तरे कछवाहा-राजपूतः मानसिंहप्रथमः राज्यम् अकरोत्। स एव दुर्गस्यास्य निर्माणम् अकारयत्। एतद्दुर्गं स्वस्य कलात्मकाय विशुद्धाय हिन्दूवास्तुशैल्याः घटकाय प्रसिद्धम् अस्ति। दुर्गस्य विशालानां प्राचीराणां, द्वाराणां शृङ्खलाः, प्रस्तरैः निर्मातैः मार्गैः युक्तं दुर्गमिदं पर्वतस्य केन्द्रीयप्रदेशे स्थित्वा मावठा-सरोवरं पश्यन्नस्ति इति प्रतीयते।

रक्तवर्णीय-मृत्प्रस्तरैः, संगमर्मर-प्रस्तरैः च निर्मितम् एतत् आकर्षकं दुर्गं पर्वतस्य चतुर्षु स्तरेषु निर्मितम् अस्ति, येषु प्रत्येकं स्तरे विशालः प्राङ्गणः अस्ति। जन-साधारणेभ्यः प्राङ्गणः, विशिष्ट-जनेभ्यः प्राङ्गणः, काचप्रासादः उत जयमन्दिरं, सुखनिवासः च मुख्यभागाः सन्ति। सुखनिवासे कृत्रिम-जलधारा वर्तते, यया औष्ण्यवातारवणेऽपि अत्र शीलतायाः आनन्दः सम्प्राप्यते। दुर्गमिदं कछवाहा-राजपूत-महाराजेभ्यः, तेषां परिवारेभ्यः च निवासाय निर्मितम् आसीत्। दुर्गे प्रासादस्य मुख्यप्रवेशद्वारस्य निकटे तेषाम् आराध्यायाः चैतन्य-पंथस्य शिला-देव्याः किञ्चन मन्दिरम् अस्ति। आमेरदुर्गस्य, जयगढ-दुर्गस्य च निर्माणम् अरावलीपर्वतमालायाः पर्वताेषु जातम् अस्ति। तयोः मध्ये कश्चन पर्वतीयः विवरमार्गः (tunnel) अपि वर्तते।

राजस्थानस्य अन्यैः पञ्चभिः दुर्गैः सह आमेरदुर्गम् अपि राजस्थानस्य पर्वतीयदुर्गेषु अन्तर्भवति, अतः फ्नोम पेन्ह, कम्बोडिया मध्ये २०१३ वर्षे आयोजिते विश्व-परम्परा-समितेः ३७ तमे सत्रे युनेस्को-विश्व-परम्परा-स्थल-त्वेन स्थानम् अलभत।

नाम्नः व्युत्पत्तिः[सम्पादयतु]

आम्बेर उत आमेर इति नाम अत्र निकटस्थे "चील के टीले " नामक-गिरिकायां स्थितस्य अम्बिकेश्वरमन्दिरस्य कारणेन प्राप्तम् अस्ति। अम्बिकेश्वर इति नाम भगवतः शिवस्य तत् स्वरूपस्य अस्ति, यत् मन्दिरेऽस्मिन् विराजते। अर्थात अम्बिकायाः ईश्वरः। अत्रस्थाः काश्चन स्थानीयाः किंवदन्त्यः प्रचलिताः, तासाम् अनुसारं दुर्गस्य नाम दुर्गादेव्याः पर्यायवाचिना शब्देन अम्बा इत्यनेन प्रसिद्धम् अस्ति। एतन्नाम विहाय अम्बावती, अमरपुरा, अम्बरं, आम्रदाद्री, अमरगढ इत्यादिनी अपि नामानि सन्ति अस्य। इतिहासकारः कर्नल जेम्स टॉड इत्यस्य अनुसारं एत्रस्थाः राजपूताः आत्मानं अयोध्यापतेः रामचन्द्रस्य कुश-नामकपुत्रस्य वंशजत्वेन मन्यमानाः आसन्।अतः एव ते कुशवाहा-नाम्ना अपि प्रसिद्धाः जाताः, ततश्च कालान्तरे कछवाहा इति अपभ्रंशः जातः। आमेर-स्थितात् संघी-जूथाराम-मन्दिरात् मिर्जा-राजा-जयसिंहस्य वि॰सं॰ १७१४ तदनुसारं १६५७ ई॰ कालस्य शिलालेखानुसारम् अम्बावती इति नाम ढूंढाड-क्षेत्रस्य राजधानी उल्लिखिता। शिलालेखमिदं राजस्थानसर्वकारस्य पुरातत्त्व-एवं-इतिहास-विभागस्य सङ्ग्रहालये सुरक्षितम् अस्ति।

अत्रस्थाः अधिकांशजनाः एतस्य मूलनाम अयोध्यायाः इक्ष्वाकु-वंशस्य विष्णुभक्तस्य राज्ञः अम्बरीषस्य नाम्ना सह संयोजयन्ति। कस्याश्चित् मान्यतायाः अनुसारम् अम्बरीषः दीन-दुःखितानां सहायतायै स्वराज्यस्य  भण्डारान् सार्वजनिकान् अकरोत्। अतः राज्ये सर्वत्र सुखंं, शांतिः च आसीत्। परन्तु राज्यस्य भण्डारः प्रतिदिनं न्यूनः जायमानः आसीत्। यदा तस्य पिता राजा नाभागः अम्बरीशम् अपृच्छत्, तदा सः प्रत्युदतरत् यत्, धनकोषः भगवतः भक्तानाम् एव अस्ति, तेभ्यश्च सदैव उद्घाटितः भविष्यति। तदा अम्बरीशः राज्यहित-विरुद्धं कार्यं करोति इति आरोपत्वात् सः दोषी घोषितः। किन्तु यदा राजकोषे सम्पत्तेः मूल्याङ्कनम् अभवत्, तदा सर्वे चकिताः, यतः दिने रिक्तः कृतः राजकोषः रात्रौ पुनः पूर्णः भवति स्म। अम्बरीशः ईश्वरकृपां मन्यमानः ईश्वराय कृतज्ञतां प्राकटयत्। ततः तस्य पिता अपि राज्ञः भक्तेः शक्तिम् अनजानत्। ततः ईश्वरस्य आराधनां कर्तुम् अम्बरीशः अरावली-पर्वतमायां मन्दिरनिर्माणस्य निर्णयम् अकरोत्। तन्मन्दिरं तस्य नाम्ना एव प्रसिद्धम् अभवत्, परन्तु कालान्तर अपभ्रंशत्वात् अम्बरीशात् "आम्बेर" इति अभवत्।

परन्तु टॉड, कन्निंघम इत्येतौ महोदयौ अम्बिकेश्वर-नामकात् शिवस्वरूपादेव नाममिदं व्युत्पन्नम् इति मन्येते। एषा अम्बिकेश्वरशिवस्य मूर्तिः पुरातन-नगर्याः मध्यस्थिते कस्यचित् कुण्डस्य समीपे स्थिता अस्ति। कदाचित् पुरातनकाले अनेके आम्राः अत्र आसन् अतः राजपूत-इतिहासे आम्रदाद्री इति नाम प्राप्यते। जगदीश सिंह गहलौत इत्यस्य मतानुसारं[उद्धरणं वाञ्छितम्] कछवाह-इतिहासे महाराणाकुम्भस्य समये अभिलेख-आमेर इति आम्रदाद्रि-नाम्ना एव सम्बोधितम् अस्ति।

प्रसिद्धविवरणानुसारं दूल्हाराय कछवाहा इत्यस्य सं॰ १०९३ ई॰ मध्ये मृत्योपरान्तं पुत्रः अम्बाभक्तः राजा कांकिलः आमेर-नाम्ना  सम्बोधितः अभवत्।

भूगोलम्[सम्पादयतु]

आमेर-क्षेत्रं जयपुरात् ११ कि.मी. (६.८३५ मील) उत्तरदिशि स्थितम् अस्ति। क्षेत्रस्यास्य विस्तारः ४ वर्गं किलोमीटर (४,३०,००,००० वर्ग-फुट) [२] व्याप्तः अस्ति। दुर्गं उन्नते पर्वते स्थितम् अस्ति। एतस्य प्राचीराणां, द्वाराणां, मार्गाणां च वैभवं धारयन् मवाठा-सरोवरं पश्यन्नस्ति इति प्रतीयते। [३][४][५][६][७][८]

सरोवरोऽयम् आमेर-प्रासादस्य जलापूर्तेः मुख्यस्रोतोऽपि अस्ति। क्षेत्रमिदं पूर्वस्मादेव ढूंढाड-नाम्ना प्रसिद्धम् अस्ति। राजस्थानस्य पूर्वीभागे ढूण्ढ-नदी प्रवहति स्म, अतः तस्याः तटवर्तीयं क्षेत्रं ढूण्ढाड इति जातम्। सद्यः क्षेत्रेऽस्मिन् जयपुर, दौसा, सवाई माधोपुर, टोंक इत्येतानि मण्डलानि, करौली-प्रदेशस्य उत्तरभागश्च अन्तर्भवति। [९]

आमेर-क्षेत्रं जयपुर-नगरात् नातिदूरे स्थितम् अस्ति। अत्र ऊष्म-मरुस्थलीय-जलवायोः, ऊष्म-अर्ध-शुष्क-जलवायोः च प्रभावः भवति। [१०] "BWh/BSh", अत्र वार्षिक्यः वर्षाः ६५० मि॰मी॰ (२६ इंच) भवन्ति, किन्तु अधिकांशभागः वर्षार्तौ, जून-तः सितम्बर-मध्ये एव भवन्ति। ग्रीष्मकाले अपेक्षाकृतम् उच्चतापमानं भवति, यस्य प्रतिशतं दैनिक-तापमानम् अनुमानेन ३०° से॰ (८६° फै॰)} भवति। वर्षाकाले प्रायः तीव्रवर्षाः भन्ति, किन्तु अतिवृष्ट्याः स्थितिः न भवति। शीतकालः नवम्बर-तः फरवरी-पर्यन्तं अपेक्षाकृततया आनन्ददायी भवति। तदा तापमानप्रतिशतं १०-१५° से॰ (५०-५९° फै॰) पर्यन्तं भवति, येन सह सूक्ष्मा उत शून्या आर्द्रता अपि भवति। तदा शीतप्रवाहः तापमानं शीततरं करोति।

पुरातत्त्वविज्ञान-एवं-संग्रहालय-विभागस्य अधीक्षकद्वारा उक्त-वार्षिक-पर्यटन-अङ्कानुसारम् अत्र ५००० पर्यटकाः प्रतिदिनं समागच्छन्ति। २००७ वर्षस्य अङ्कानुसारं अत्र १४ लक्षं दर्शनार्थिनः समागताः आसन्।

इतिहासः[सम्पादयतु]

आरम्भिकेतिहासः[सम्पादयतु]

आम्बेर-दुर्गस्य एकं दृश्यम्, विलियम सिम्पसन, सं.१८६०, जलरङ्गः

आमेरस्य स्थापना मूलरूपेण ९६७ ई॰ मध्ये राजस्थानस्य मीणा-जनेषु चन्दावंशस्य एलान-सिंह-नामकेन राज्ञा कृता आसीत्। सद्यः विद्यमानम् आमेरदुर्गं कछवाहा-वंशीयस्य मानसिंहस्य शासनकाले पुरावशेषेषु निर्मितम्। मानसिंहद्वारा निर्मितप्रासादस्य विस्तारं तस्य वंशजः जयसिंह-प्रथमः अकरोत्। आगामिषु १५० वर्षेषु कछवाहा-राजपूत-राजभिः आमेरदुर्गे अनेके परिष्काराः कृताः। ततः अन्ततः सवाई-जयसिंह-द्वितीयस्य शासनकाले १७२७ वर्षे  जयपुर-नगरे स्वराजधानी स्थानांतरिता।

कछवाह-जनैः आमेरस्य अधिग्रहणम्[सम्पादयतु]

Empty citation‎ (help) 

पन्नामीणाण्याः कुण्डः (बावली)।

इतिहासकारः जेम्स टॉड इत्यस्य अनुसारं क्षेत्रमिदं प्रप्रथमं खोगोंग-नाम्ना प्रसिद्धम् आसीत्। तदा अत्र मीणा-राजः रलुनसिंहः, यस्यापरं नाम एलान-सिंह-चन्दा अपि आसीत्, तस्य शासनम् आसीत्। सहृदयः सः  असहाय्यां राजपूतमातरं, तस्य पुत्रं च  स्वशरणे अनयत्। तस्य बाकलस्य नाम  ढोलारायम् (दूल्हेरायः) आसीत्। कालान्तरे सः युवा अभवत्, तदा मीणाराज्यस्य प्रतिनिधित्वेन सः देहलीम् अगच्छत्। मीणाराजवंशस्य जनाः सर्वदा शस्त्रैः सज्जिताः भवन्ति स्म, अतः तेषु आक्रमणं सरलं नासीत्। किन्तु वर्षे केवलम् एकवारं दीपावल्याः दिने ते अत्रस्थे कुण्डे स्वशस्त्राणि परे स्थापयित्वा स्नानं, पितृ-तर्पणं च कुर्वन्ति स्म। एषा परिपाटिः अतीव गोपनीया आसीत्, किन्तु ढोलारायः मृदङ्गवादकम् अस्याः परिपाटेः भेदम् उदघाटयत्। एवं शनैः शनैः सर्वराजपूतेषु विषयोऽयम् उद्घाटितः। ततः अनेके राजपूताः दिपावल्याः दिने निःशस्त्रेषु तेषु मीणा-जनेषु आक्रमणम् अकुर्वन्। तस्मिन् नरसंहारे कुण्डः मीणा-जनानां रक्तेन रञ्जितः, शवैः परिपूर्णश्च अभवत्।[११] एवं तत्र राजपूतानाम् आधिपत्यम् अभवत्।[१२] राजस्थानस्य इतिहासे कछवाहा-राजपूतानां कृत्यमिदं हेयदृष्ट्या दृश्यते।[१३] तस्मिन् समये अत्र मीणाराजस्य पन्नामीणा इत्यस्य शासनम् आसीत्, अतः कुण्डोऽयं "पन्नामीणा-कुण्डः" इति प्रसिद्धः अभवत्। सद्यः अपि अत्र कुण्डः अस्ति, सश्च २०० फीट गभीरः अस्ति। तस्मिन् १८०० सोपानानि सन्ति।

राजपूतराजः काङ्किलदेवः १०३६ वर्षे आमेरं स्वराजधानीत्वेन अघोषयत्। ततः सः आमेरदूर्गे प्रप्रथमवारं निर्माणम् अकारयत्।तन्निर्माणमेव जयगढदुर्गम्। सद्यः विद्यमानानि अधिकांशभवनानि मानसिंहप्रथमस्य (दिसम्बर २१, १५५० – जुलाई ६, १६१४ ई॰) शासनकाले १६०० ई॰ पश्चात् निर्मितानि। तेषु कानिचन प्रमुखानि भवनानि आमेर-प्रासादस्य मुख्यभागः मन्यते। मिर्जा इत्यस्य अनुसारं प्रासादे चित्रितयुक्तः गणेशस्तम्भः जयसिंहप्रथमस्य शासनकाले अभवत्।

वर्तमानः आमेरप्रासादः १६ शताब्द्याः परार्धे निर्मितः। मुख्यतया निर्माणकारणं शासकानां निवासव्यवस्थायां विस्तारः आसीत्। अत्रस्थः पुरातनः प्रासादः, यः कादिमी -प्रासादः इति प्रसिद्धः अस्ति, सः भारतस्य प्राचीनतमेषु विद्यमानप्रासादेषु अन्यतमः अस्ति। एषः प्राचीनः प्रासादः आमेर-प्रासादस्य पृष्ठे स्थितायां गिरिकायां निर्मितः अस्ति।

आमेरः मध्यकाले ढूंढाड-नाम्ना प्रसिद्धः आसीत् (अर्थात् पश्चिमीसीमायां कश्चन बलि-पर्वतः)। अत्र ११ शताब्द्याः – अर्थात् १०३७ तः १७२७ ई॰ पर्यन्तं कछवाहा-राजपूतानां शासनम् आसीत्, यावत् पर्यन्तम् स्वनवीनां जयपुर-नामिकां राजधानीं प्रति तेषां स्थानान्तरणं नाभवत्। अतः आमेरस्य इतिहासः तेभ्यः शासकेभ्यः पूर्णतया संलग्नः अस्ति, यतः तैः स्वसामग्राज्यम् अत्र विस्तारितम् आसीत्।

मीणा-जनानां समयस्य मध्यकाले अनेकानि निर्माणानि उत ध्वंसाः अभवन्। कालान्तरे तत्स्थाने अन्यनिर्माणम् अपि आकृतिं प्रापत्। यद्यपि १६ शताब्द्याः आमेरदुर्गं निहित-प्रासादस्य परिसरः अस्ति, यस्य निर्माणं राजपूतमहाराजैः कृतम् आसीत्, तथापि पूर्णतया संरक्षितम् अस्ति।

अन्या कथा[सम्पादयतु]

श्रीरामचन्द्रस्य पुत्रस्य कुशस्य वंशजस्य शासकस्य नरवरसस्य सोढासिंहस्य पुत्रः दुलहरायः अनुमानतया सन् ११३७ ई॰ मध्ये तत्कालीने रामगढे (ढूंढाड) मीणाजनान् युद्धे  पराजितवान्। दौसा-प्रदेशस्य बडगूजर-वंशीयान्  पराजित्य कछवाहा-वंशस्य राज्यं स्थापितम् आसीत्। तदा सः रामगढे स्वकुलदेव्याः जमुवायदेव्याः मन्दिरं निर्मितम् आसीत्। तस्य पुत्रः काङ्किलदेवः १२०७ वर्षे आमेरप्रदेशे राज्यं कुर्वन् मीणा-जनान् पराजित्य स्वराज्ये विलयम् अकरोत्। ततश्च तं प्रदेशं स्वराजधानीत्वेन अघोषयत्। तदारभ्य आमेरप्रदेशः कछवाहा-जनानां राजधानी अभवत्। नवनिर्मितस्य जयपुर-नगरस्य निर्माणं यावत् सा राजधानीत्वेन अविद्यत। एतस्य वंशस्य  शासकः पृथ्वीराजस्य महाराणासांगा-प्रदेशे सामन्तः आसीत्, यः खानवा-युद्धे सांगा-पक्षात् युद्धम् अकरोत्। पृथ्वीराजः स्वयं गलता-प्रदेशस्य श्रीवैष्णवसम्प्रदायस्य साधोः कृष्णदासपयहारी इत्यस्य अनुयायी आसीत्। एतस्य पुत्रः सांगा एव सांगानेर-ग्रामम् अस्थापयत्। [१४]

अभिन्यासः[सम्पादयतु]

आमेरदुर्गं, जयगढदुर्गं च अरावलीपर्वतमालायाः  चील का टीला -नामके पर्वते वर्तेते। वास्तव्येन प्रासादोऽयं प्रासादः जयगढदुर्गं च समानः परिसरः एव अस्ति। उभयं पर्वतीयगुप्तमार्गेण सम्बद्धे स्तः।गुप्तमार्गस्य निर्माणप्रयोजनं युद्धकाले विपरीतपरिस्थित्यां राजवंशस्य सुरक्षा आसीत्।[४][७][१५][१६]

प्रवेशद्वारः[सम्पादयतु]

एषः प्रासादः चतुर्षु मुख्यभागेषु विभक्तः अस्ति, येषां प्रत्येकं प्रवेशद्वारः, प्राङ्गणं च स्तः। मुख्यप्रवेशः सूरजपोल-द्वार-त्वेन प्रसिद्धः अस्ति, यत् जलेब-चौक-नामके विभागे अन्तर्भवति। जलेब-चौक-भागः प्रथमं विशालं मुख्यप्राङ्गणम् अस्ति। एतस्य विस्तार अनुमानतया १०० मी लम्बमानः, ६५ मी. विस्तृतः च अस्ति। प्राङ्गणे युद्धविजयिन्याः सेनायाः यात्रा भवति स्म। सा यात्रा राज-परिवारस्य महिलाभिः जालिकायुक्तेभ्यः वातायनेभ्यः दृश्यते स्म।[१७] अत्र द्वारपालाः नियुक्ताः आसन्, यतः एतत् दुर्गस्य मुख्यप्रवेशद्वारम् आसीत्। द्वारमिदं पूर्वाभिमुखम् आसीत्। उदयमानस्य सूर्यस्य किरणआः दुर्गे प्रवेशं प्राप्नुवन्ति स्म, अतः एव एतत् सूरजस्तम्भः इति प्रसिद्धः आसीत्। सेनायाः अश्वारोहिणः राज्यस्य गणमान्याः च प्रासादे अनेन द्वारेण एव प्रविशन्ति स्म।

जलेब इति अरबीभाषायाः कश्चन शब्दः। सैनिकेभ्यः सभास्थानम् इति तस्य अर्थः भवति। आमेरदुर्गस्य चतुर्षु प्रमुखेषु प्राङ्गणेषु अन्यतमः, यस्य निर्माणं सवाई जय सिंह इत्यस्य शासनकाले (१६९३-१७४३ ई॰) जातम् आसीत्। अत्रैव सेनानायकानाम् आध्यक्ष्ये महाराजस्य निजाङ्गरक्षकानां युद्धाभ्यासः भवति स्म। महाराजा रक्षकानां अभ्यासस्य निरीक्षणं करोति स्म। प्राङ्गणस्यास्य समीपे एव अश्वशाला विद्यते, यस्याः उपरि अङ्गरक्षकाणां निवासस्थानम् आसीत्।

प्रथमप्राङ्गणम्[सम्पादयतु]

गणेशद्वारम्

जलेब-प्राङ्गणात् सोपानीयमार्गेण मुख्यप्राङ्गणं प्रति गन्तुं शक्यते। अत्र प्रवेशे सति वामतः स्थितः मार्गः शिलादेवीमन्दिरं प्रति नयति। अत्र राजपूतमहाराजा १६ शताब्द्याः आरभ्य  १९८० पर्यन्तं पूजनं करोति स्म। तावत्पर्यन्तम् अत्र महिषीबलेः प्रथा आसीच्च। १९८० ई॰ तः अत्र बलिप्रथा समाप्ता। तस्य मन्दिरस्य निकटे एव शिरोमणेः वैष्णवमन्दिरम् अस्ति। एतस्य मन्दिरस्य तोरणः श्वेतरङ्गस्य संगमरमर-प्रस्तरेण निर्मितः अस्ति। तद् उभयतः गजयोः प्रतिमे स्तः।

गणेशद्वारम्[सम्पादयतु]
अग्रिमद्वारस्य नाम गणेशद्वारम् अस्ति। भगवतः गणेशस्य प्रथमपूजनत्वात्, विघ्नहर्तृत्वात् च एतत् नाम अस्ति। अत्र गणेशप्रतिमा स्थापिता अस्ति। एतद्भवनं त्रि-स्तरीयं विद्यते, यस्य अलंकरणं जयसिंहस्य (१६२१-१६२७ ई॰) आदेशानुसारं जातम् आसीत्। द्वारस्यास्य उपरि सौभाग्य-मन्दिरम् अस्ति, यत्र राजवंशस्य महिलाः मुख्यप्राङ्गणे आयोजितान् कार्यक्रमान् वातायनेभ्यः पश्यन्ति स्म। द्वारेऽस्मिन् आकर्षकम् उत्कीर्णकार्यं जातम् अस्ति। द्वारेण सह संलग्नायां भित्तिकायां कलात्मकानि चित्राणि निर्मितानि सन्ति। चित्राणां सन्दर्भे मान्यता अस्ति यत्, चित्राणां कलाकारेभ्यः मुगल-राजः जहांगीरः अत्यधिकः रुष्टः जातः, अतः सः तेषु चित्रेषु कर्कर-मृत्तिकायाः लेपनम् अकारयत्। कालान्तरे लेपनस्य तलपतिते सति चित्राणि दर्शनीयानि अभवुन्।

शिलादेवीमन्दिरम्[सम्पादयतु]

रजतस्य पत्रेण विभूषितं शिलादेवीमन्दिरस्य प्रवेशद्वारम्

जलेब-प्राङ्गणस्य दक्षिणतः लघु  किन्तु भव्यं मन्दिरं राराजते, यत् कछवाहा-राजपूतानां कुलदेव्याः शिलामातुः विद्यते। शिलादेवी कालीमातुः उत दुर्गायाः अवतारः इति मन्यते। मन्दिरस्य मुख्यप्रवेशद्वारे रजतपत्रैः विभूषिते द्वारे स्तः। रजतपत्रे नवदुर्गायाः,  दश महाविद्यानां च चित्राणि उत्कीर्णानि सन्ति। मन्दिरस्य गर्भगृहे रजतनिर्मिते गजमूर्ती स्तः। तयोः गजयोः मध्ये प्रधानदेव्याः मूर्तिः स्थापिता अस्ति। मूर्तिना सह सम्बद्धाः अनेकाः कथाः प्रसिद्धाः सन्ति। तासु एकस्याः कथायाः अनुसारं महाराजः मानसिंहः मुगल-राजेन बङ्गालप्रदेशस्य सामन्तत्वेन नियुक्तः।ततः तस्य युद्धं जेस्सोर-प्रदेशस्य राज्ञा सह युद्धं निश्चितम् आसीत्, तस्मिन् समये तेन अत्र पूजा कृता आसीत्। ततः देवी विजयार्शीर्वादम् अयच्छत्, स्वप्ने च समुद्रतटे स्थितां शिलाम् आनेतुम् आदेशम् अयच्छत्।[३][१८][१९]  राजा १६०४ वर्षे विजयोत्तरं तांं शीलां समुद्रतटात् आनीय् मूर्तिस्वरूपम् अयच्छत्। शिलारूपेण माता प्राप्ता आसीत्, अतः शिलामाता इति नाम अभवत्। मन्दिरस्य प्रवेशद्वारे गणेशस्य एकाश्ममूर्तिः अपि स्थापिता अस्ति।

अन्यकिम्वदन्त्याः अनुसारं मानसिंहः  जेस्सोर-अधिपतिं पराजयत, ततः पराजितः राजा मानसिंहाय श्यामशिलाम् उपहारत्वेन अयच्छत्, यस्य सम्बन्धः महाभारतेन सह अस्ति। महाभारते कृष्णस्य मातुलः मथुरायाः राजा कंसः कृष्णस्य ७ भ्रातॄन्, १ भगिनीं च अस्यां शिलायां पातयित्वा अमारयत्। अस्याः शिलायाः विनमये राजा मानसिंहः जेस्सोर-क्षेत्रं पराजिताय तस्मै नरेशाय प्रत्ययच्छत्। तदा एतस्यां शिलायां दुर्गायाः महिषासुरमर्दिनी-रूपम् उत्कर्णीं कारयित्वा अस्मिन् आमेरमन्दिरे स्थापितम्। तदारभ्य शिलादेव्याः पूजनम् आमेरस्य कछवाहा-राजपूतेषु प्राचीनदेव्याः रूपेण प्रचलति। परन्तु तेषां परिवारे कुलदेवीत्वेन पूज्यमाना रामगढ-प्रदेशस्य जामवादेवी एव तेषां कुलदेवी अस्ति।[१९]

अनेन मन्दिरेण सह सम्बद्धा काचित् अन्या प्रथा पशु-बलेः अपि आसीत्, या प्रतिवर्षं द्वयोः नवरात्र्योः (शारदीयायां, चैत्रीयायां च) भवति स्म। तस्यां प्रथायां नवरात्र्याः महाष्टम्याः दिने मन्दिरस्य द्वारं पुरतः महीषस्य, अजस्य च बलिः भवति स्म। एतस्याः प्रथायाः साक्षिणः राजपरिवारस्य सर्वे सदस्याः, अनेके जनाः अपि भवन्ति स्म। प्रथैषा १९७५ ई॰ तः भारतीयदण्डसंहितायाः ४२८,[२०] ४२९ [२१] धारयोः अनुसारं निषेधा अभवत्।तत्पश्चात् एषा प्रथा जयपुरस्य प्रासादे गुप्ततया भवति स्म। तदा एतस्याः साक्षिणः केवलं राजपरिवारस्य निकटवर्तिसदस्याः एव भवन्ति स्म। कालान्तरे एषा प्रथा पूर्णतया समाप्ता अभवत्। सद्यः देव्यै केवलं शाकाहारीभोज्यं प्रदीयते।

द्वितीयप्राङ्गणम्[सम्पादयतु]

आमेरदुर्गस्य मुख्यभवनं २७ स्तम्भानां द्वाभ्यां पङ्क्तिभ्याम् आवृत्तम् अस्ति।

प्रथमप्राङ्गणात् मुख्यसोपानैः द्वितीयप्राङ्गणं प्राप्तुं शक्यते, यत्र उपभवनं निर्मितम् अस्ति। एतस्य प्रयोगः जनसाधारणस्य सभाहेतु भवति स्म। संगमर्मर-प्रस्तराणां द्वाभ्यां स्तम्भपङ्क्तिभ्याम् आवृत्तम् उपभवनं पक्षिवेदिकायां रक्त-मुत्तिकाप्रस्तरैः २७ स्तम्भयुक्तः विशालः खण्डः अस्ति। एतस्य स्तम्भेषु गजरूपिणः स्तम्भशीर्षाणि राराजन्ते। तेषाम् उपरि चित्रशृङ्खला विद्यते। सभाखण्डेऽस्मिन् सभाकाले राजा जनसाधारणस्य समस्याः, विनतीः, याचिकाः च श्रुत्वा तासां निवारणं करोति स्म। 

तृतीयप्राङ्गणम्[सम्पादयतु]

तृतीयप्राङ्गणे महाराजस्य, तस्य परिवारसदस्यानां, परिचराणां च निजकक्षाः निर्मिताः सन्ति। एतस्य प्राङ्गणस्य प्रवेशः गणेशद्वारेण तुल्यः अस्ति। गणेशद्वारे उत्कृष्टस्तरस्य चित्राकृतिः, शिल्पाकृतिः च अस्ति। प्राङ्गणेऽस्मिन् भवनद्वयं परस्परं पश्यदस्ति। तयोः मुगलशैल्या निर्मितम् उद्यानम् अस्ति। प्रवेशद्वारस्य वामतः जयमन्दिरम् विद्यते। प्रासादेऽस्मिन् दर्पण-अङ्कितैः फलकैः निर्मितम् अस्ति। छदि च बहुरङ्गयुक्तानां काचानाम् उत्कृष्टप्रयोगं कृत्वा चित्रकृतयः सन्ति। दर्पणखण्डाः रङ्गयुक्तधातोः साहाय्येन अङ्किताः सन्ति। अतः प्रकाशस्य सङ्गमे सति सिक्थदीपवत् देदीप्यमानाः भवन्ति। तस्मिन् समये अत्र सिक्थदीपानाम् एव प्रयोगः भवति। अत एव अस्य नाम काच-प्रासादः इति। तस्य दृश्यस्य साहित्यिकं विवरणं लिखितम् अस्ति यत्, यथा प्रकम्पमाने सिक्थदीपानां प्रकाशे द्यूतिमानम् आभूषणम् अस्ति इति"। काचप्रासादस्य निर्माणं मानसिंहः १६ शताब्द्याम् अकारयत्। तत्कार्यं १७२७ ई॰ मध्ये पूर्णम् अभवत्। तद्वर्षम् एव जयपुरराज्यस्य स्थापनावर्षम् अपि आसीत्।[२२] यद्यपि अत्रस्थम् अधिकांशं कार्यं १९७०-८० दशके नष्टं, भ्रष्टं च अभवत्, किन्तु तत्पश्चात् अस्य पुनरोद्धारस्य, नवीनीकरणस्य च कार्यम् आरब्धम्। कक्षस्य भित्तिकाः संगमर्मर-प्रस्तरैः निर्मिताः सन्ति। तासु च उत्कृष्टानि उत्कीर्णानि अपि कृतानि सन्ति। अस्मात् कक्षात् मावठा-तडागस्य रोचकं, विहङ्गं च दृश्यं प्रस्तुतं भवति।[१७]

एतस्मिन् प्राङ्गणे जयमन्दिरम् अपि अन्तर्भवति। तस्य अपरं नाम सुखनिवासः उत सुखप्रासादः अपि प्रसिद्धम्। तस्य प्रदवेशद्वारं चन्दनकाष्ठैः निर्मितम् अस्ति। तस्मिन् च जालिकायुक्तं उत्कीर्णनकार्यं जातम् अस्ति। नलिकाभिः आनितं जलं सुखनालिकया प्रवहदेव भवति, येनास्य भवनस्य वातावरणं वातानुकूलित-वायुयुक्त-कक्षवत् शीतलं भवति स्म। नालिकाभ्यः निर्गम्यमानं जलम् उद्यानस्य सस्य-समूहं प्रति गच्छति। एतस्य प्रासादस्य विशेषाकर्षणं शिविका-प्रासादः (डोली महल) मन्यते, यस्य आकारः शिविकावत् अस्ति। शिविका राजपूतमहिलानां यात्रायाः साधनम् आसीत्। एतस्मिन् प्रसादे एव प्रवेशद्वारे शिविकाप्रासादात् पूर्वं कश्चन गहनमराग्ः (भूल-भूलैया) अपि निर्मितः अस्ति, यत्र महाराजा स्वराज्ञिभिस्सह परिहासं करोति स्म उत क्रीडाः करोति स्म। राज्ञः मानसिंहस्य अनेकाः राज्ञ्यः आसन्। यदा सः युद्धात् प्रत्यागच्छति स्म, तदा सर्वासु राज्ञीसु तेन सह मेलनस्य स्पर्धा भवति स्म। तदा राजा मानसिंहः गहनमार्गेऽस्मिन् इतस्ततः भ्रमति स्म, या राज्ञी तस्य अन्वेषणे सफला भवति स्म, सः तेन सह एव प्रप्रथमं मेलनं करोति स्म।

दीव्यपुष्पम्
आमेरदुर्गस्य स्तम्भेषु संगमर्मर-प्रस्तरे उत्कीर्णं दीव्यपुष्पम्, यस्मिन् सप्त विशिष्टानि प्रारूपाणि सन्ति।

अत्र स्थितस्य काचप्रासादस्य स्तम्भेषु एकस्य आधारभागे उत्कीर्णकार्यं कृतम् अस्ति। तस्मिन्नेव दीव्यपुष्पम् अत्रस्थं विशेषाकर्षणं मन्यते। एषः स्तम्भाधारः पतङ्गयुगलं प्रदर्शयति, यस्मिन् पुष्पाकृतिना सप्त विशिष्टानि प्रारूपाणि उत्कीर्णानि सन्ति। तत्र मत्स्यस्य पृच्छं, कमलं, नागस्य फणा, हस्तिनः शूण्डा, सिंहस्य पृच्छं, धान्यकं, वृश्चिकः इत्येतेषां  रूपाङ्कनानि सन्ति। उक्तेषु सर्वेषु रूपाङ्कनेषु किमपि एकं हस्तस्य निश्चितकोणे स्थापिते सति दृश्यते। एवं विभिन्नेषु कोणेषु क्रमशः उक्तानि सर्वाणि अङ्कानि दृश्यन्ते

मानसिंहप्रथमस्य प्रासादः
मानसिंहप्रथमस्य प्रासादस्य मण्डपः

एतस्य प्राङ्गणस्य दक्षिणे  मानसिंहप्रथमस्य प्रासादः विद्यते। एषः भागः प्रासादस्य पुरातनतमः भागः अस्ति।  अस्य निर्माणे २५ वर्षाणि व्यतीतानि आसन्। एतस्य निर्माणं मानसिंहप्रथमस्य काले (१५८९-१६१४ ई॰) १५९९ ई॰ मध्ये पूर्णम् अभवत्। एषः प्रासादः अत्रस्थः मुख्यप्रासादः अस्ति। एतस्य केन्द्रीये प्राङ्गणे स्तम्भयुक्तः मण्डपः अस्ति, यः अलङ्कारैः सज्जितः अस्ति। भित्तिचित्राणि उपरि, अधः च तले व्याप्तानि सन्ति। एकान्तं सुदृढं कर्तुम् एषः प्रासादः जवनिकाभिः आच्छादितः भवति स्म। राजपरिवारस्य स्त्रिभ्यः एषः सभाकक्षः आसीत्। एतस्य मण्डपस्य चतुर्षु दिक्षु बाह्योद्घाट्यमानैः वातायनैः युक्ताः कक्षाः आसन्। एतस्य प्रासादस्य निकासमार्गः आमेरनगरं प्रति गच्छति, यत्र विभिन्नानि मन्दिराणि, भवनानि च विद्यन्ते।

उद्यानम्

तृतीये प्राङ्गणे निर्मितस्य उद्यानस्य पूर्वदिशि पक्षिवेदिकायां जयमन्दिरं, पश्चिमे पक्षिवेदिकायां सुखनिवासः च निर्मितः अस्ति। उभयमपि भवनं जयसिंहः (१६२३-६८ ई॰) निर्मितवान्। मध्ये च उद्यानं विद्यते। तस्य निर्माणशैली मुगलोद्यानस्य चारवाग-शैलीवत् अस्ति। सितार-वाद्यस्य आकारवत् निर्मिते उद्याने तालबद्धतया केन्द्रीय-जलाकरान् (fountain) परितः आच्छादयन्ती शेषभूमिः नत-स्तरे षटकोणीयाकारस्य निर्मिता अस्ति, यस्यां संगमर्मर-प्रस्तरैः तनवः नालिककाः जलं वहन्ति। उद्यानाय जलं सुखनिवासस्य निकासमार्गेण समागच्छति। ततोधिकं जयमन्दिरस्य परकोटात् आरब्धा "चीनी खाना नाइचेस " इत्यस्य नालिकाः अत्र जलापूर्तिं कुर्वन्ति।[१६]

त्रिपोलीय-द्वारम्

अत्र स्थानीयभाषायां 'पोल'-शब्दस्य अर्थः द्वारम् इति, अतः 'त्रिपोलीय' अर्थात् त्रिभिः उपद्वारै निर्मितं द्वारम् इति। एतद्वारं पश्चिमदिशः प्रासादस्य प्रवेशाय निर्मितम्। त्रीणि द्वाराणि क्रमेण – जलेब-चतुष्पथं, मानसिंह-प्रासादं, राज्ञीवासं च प्रति नयति।

सिंहद्वारम्

सिंहद्वारं विशिष्टं द्वारं मन्यते, यत् द्वारपालैः सुरक्षितम् अस्ति। ततः नीजभवनानि प्राप्तुं शक्यन्ते। सुरक्षिततमद्वारत्वादेव अस्य नाम सिंहद्वारम् इति। जयसिंहस्य (१६९९-१७४३ ई०) काले निर्मितं द्वारमिदं भित्तिचित्रैः अलङ्कृतम् अस्ति। अतस्य प्रारूपं किञ्चित् विचित्रम् अस्ति, येन आक्रमणस्थितौ आक्रमणकारिणः सहजतया द्वारम् अन्वेष्टुं न शक्नुयुः।

चतुर्थं प्राङ्गणम्[सम्पादयतु]

चतुर्थे प्राङ्गणे राजपरिवारस्य महिलाः निवासं कुर्वन्ति स्म। तदतिरिक्तं राज्ञीनां दास्यः, राज्ञः उपस्त्रियः अपि अत्रैव निवासं कुर्वन्ति स्म। एतस्मिन् प्रभागे अनेके निवासकक्षाः सन्ति, येषु प्रत्येकं राज्ञां निवासः आसीत्। राजा स्वरुच्यानुसारं प्रतिदिनं कस्यापि एकस्य पार्श्वे गच्छति स्म, किन्तु अन्य राज्ञीनां तद्विषये ज्ञानं न भवति स्म यत्, राजा कदा, केन सह भवति इति। सर्वे कक्षा लघुमार्गं प्रति उद्घाटिताः भवन्ति स्म।[१७]

प्रासादस्य एतस्मिन् भागे राजमाता, राजमहिषी च निवसतः स्म। तयोः दासीनां निवासः अपि अत्रैव आसीत्। राजमातॄणां आमेरनगरे मन्दिरनिर्माणे रूचिः विशेषतया दरीदृश्यते।[२३]

अत्र जस-मन्दिर-नाम्ना कश्चन नैज-कक्षः अपि विद्यते, यस्मिन् काचस्य पुष्पाणां कलात्मकं शृङ्गारः दरीदृश्यते। तदतिरक्तं सिलखड़ी उत संगमर्मरी-वातायने (प्लास्टर ऑफ़ पैरिस) उत्कीर्णाः उत्कृष्टाः शिल्पकला अपि अस्ति।[४]

संरक्षण[सम्पादयतु]

राजस्थानस्य षट् दुर्गाणि, आमेरदुर्गं, चित्तौडदुर्गं, गागरौनदुर्गम्, जैसलमेरदुर्गम्, कुम्भलगढदुर्गम्, रणथम्भोरदुर्गम् च यूनेस्को-विश्वदाय-समितिद्वारा 'फ्नोम पेन' इत्यत्र जून २०१३ वर्षे आयोजित ३७ तमस्य सत्रस्य गोष्ठ्यां यूनेस्कोविश्वपरम्परास्थलसूच्यां सम्मिलितानि जातानि। एतानि सांस्कृतिकपरम्परायाः श्रेण्यां परिणगितानि, राजपूतपर्वतीयवास्तुकलायाम् अपि श्रेणीगतानि जातानि। [२४][२५]

आमेरदुर्गस्य क्षेत्रं दुर्गस्य, प्रासादस्य अभिन्नम्, अपरिहार्यं च अङ्गं मन्यते, एतस्य प्रवेशद्वारः अपि तत्र अन्तर्भवति। एतत् क्षेत्रं सद्यः परम्परास्थलत्वेन दृश्यते, एतस्य च अर्थव्यवस्था अधिकांशरूपेण अत्र पर्यटनाय आन्तॄणां (लगभग ४००० से ५००० प्रतिदिनं, सर्वोच्चपर्यटककाले) उपरि निर्भरते। एतत् क्षेत्रं ४ वर्गं कि॰मी॰ (४,३०,००,००० वर्ग फीट) क्षेत्रफले विस्तृतः अस्ति, अत्र १८ मन्दिराणि, ३ जैनमन्दिराणि, २ यवन-प्रार्थनागृहाणि च सन्ति। एतत्स्थानं विश्वस्मारकनिधिद्वारा (वर्ल्ड मॉन्युमेण्ट फण्ड) विश्वस्य १०० लुप्तप्रायस्थलेषु मन्यते। एतस्य संरक्षणाय व्ययः 'रॉबर्ट विलियम चैलेन्ज ग्रांट'-द्वारा भवति।[२] वर्ष २००५ के आंकड़ों के अनुसार दुर्ग में ८७ हाथी रहते थे, जिनमें से कई हाथी पैसों की कमी के कारण कुपोषण के शिकार थे।[२६]

आमेर-विकास-एवं-प्रबन्धन-प्राधिकरण(आमेर डवलपमेण्ट एण्ड मैनेजमेण्ट अथॉरिटी (एडीएमए))द्वारा आमेरप्रासादे, परिसरे च ४० कोटि-रूप्यकाणि ( ८.८८ मिलियन अमरीकी डॉलर) संरक्षणस्य, विकासस्य च कार्येषु व्ययीतानि। एतस्य संरक्षणस्य, पुनरोद्धारस्य कार्यसम्बद्ध-प्राचीन-संरचनानाम् ऐतिहासिकतायाः, स्थापत्यसुविधायाः उपयोगिता-विषये अनेके विरोधाः जाताः। एतस्य परिसरस्य व्यावसायिकरणस्य विषये अपि विरोधः प्राप्यते।[२७]

कस्यचित् चलचित्रस्य निर्माणकाले चलचित्रसंस्थया ५०० वर्षपुरातनं वातायनं खण्डितं कृतम्। चन्द्रप्रासादस्य पुरातने चूना-प्रस्तरस्य छदे हानिः अपि अभवत्। संस्था स्वमञ्चस्य कृते छिद्राणि अपि करोत्। जलेब-खण्डे इतस्ततः धूलिकाः अपि विक्रितानि आसन्। एवं राजस्थान-स्मारक-पुरातात्त्विक-स्थल-एन्टीक-अधिनियमस्य (१९६१) उपेक्षा, उल्लङ्घनं च अभवत्।[२८]

राजस्थानोच्चन्यायालयस्य जयपुरपीठः हस्तक्षेपं कृत्वा चलचित्रनिर्माणकार्यम् अस्थगयत्। निरीक्षणोत्तरं तस्याः घटनायाः विषये तस्य पीठस्य कथनम् आसीत् यत्, : "दुर्भाग्यवशात् न केवलं जनता अपि तु विशेषरूपेण सम्बन्धिनः अधिकारिणः अपि धनलोलूपतायां अधाः, बधिराः, मौनिनः जाताः। एतादृशः ऐतिहासिक-संरक्षित-स्मारकः आयस्य स्रोतमात्रम् अभवत्।"[२८]

पशूणां शोषणम्[सम्पादयतु]

अनेकैः समूहैः, संस्थाभिः च गजयात्राद्वारा आमेरदुर्गे आरोहणं तेषु अत्याचारत्वेन अङ्गीकृतम्, तैः चिन्ता अपि प्रदर्शिता। तेषां मतः आसीत् यत्, एतत् अमानवीयम् अस्ति।[२९] पीईटीए नामक-संगटनः, केन्द्रीयवन्योद्यानप्राधिकरणः च तस्मिन् अंशे गभीरतया विरोधम् अकुरुताम्। अत्र गजग्रामः (हाथीगाँव) बन्दिपशु-नियंत्रणस्य नियमानाम् उल्लङ्घनं करोति। पेटा-संस्थया यदा अत्र अन्वेषणम् आरब्धं, तदा अत्र अनेके गजाः कण्टकयुक्त-लोह-शृङ्खलया बद्धाः प्राप्ताः। अत्र अन्धेभ्यः, रोगिभ्यः, आहतेभ्यः गजेभ्यः बलपूर्वकं कार्यं कार्यते। तेषां दन्ताः, कर्णाः चापि विक्षतावस्थायाम् आसन्।[३०] सद्यः २०१७ वर्षे न्यूयॉर्क-नगरस्य यात्रा-सञ्चालकः गजानां स्थाने यानेन पर्यटकान् आमेरदुर्गं यावत् स्वीकर्तुम् अघोषयत्। तस्य कथनम् आसीत् यत्, सः पशुषु अत्याचारस्य विरुद्धी अस्ति।"[३१]

विश्वपरम्परात्वेन घोषणा[सम्पादयतु]

राजस्थानस्य सर्वकारः जनवरी २०११ मध्ये केषाञ्चन दुर्गाणां विश्व-परम्परायाम् अन्तर्भवनार्थं प्रस्तावं प्रैषयत्। ततः यूनेस्को-दलस्य आकलन-समित्याः द्वौ प्रतिनिधी जयपुरम् आगच्छताम्। एएसआई, राज्यसर्वकारस्य च अघिकारिभिः सह तयोः गोष्ठी अभवत्। तत्पश्चात् मई २०१३ मध्ये स्थानमदिं विश्वपरम्परायां सम्मिलितम् अभवत्। परन्तु औपचारिकी घोषणा २१ जून २०१३ दिनाङ्के जाता।[३२][३३][३४] वर्ष २०११-१३ मध्ये स्मारके, दुर्गेषु च कार्यरता अन्ताराष्ट्रिय-परिषद् (इन्टरनेश्नल काउन्सिल ऑन मॉन्युमेण्ट्स एण्ड फ़ोर्ट्स, ICOMOS) विभिन्नाभियानस्य माध्यमेन दुर्गाणां निरीक्षणमम् अकरोत्। नामाङ्कनेन सह सम्बद्धैः अनेकैः अधिकारिभिः, विशेषज्ञैः च सह विचार-विमर्शम् अकरोत्। अन्ताराष्ट्रिय-परिषदः विवरणे एतेषां दुर्गाणाम् एतस्याः शृङ्खलायाः सार्वभौमिकं महत्त्वम् अतुलनीयं स्वीकृतम्। राजस्थानराज्यस्य एतेषां ६ विशालकायानां, वैभवशालिनां पर्वर्तीयदूर्णां रूपे ८ (अष्टमी) शताब्दीतः १८ (अष्टादश) शताब्दीं यावत् राजपूतशासनानां (राजपूतानाशैल्याः वास्तुशिल्पस्य) विहङ्गं दृश्यं प्राप्यते - एतादृशं तस्मिन् विवरणे उल्लिखितम् अस्ति। २०१० वर्षे जन्तर-मन्तर-स्थानम् अपि विश्व-परम्परायाः सूच्यां स्थानम् अलभत।[३५][३६]

प्रचलितेषु चलचित्रेषु दृश्यम्[सम्पादयतु]

आमेर-दुर्गम् अनेकेषु हिन्दी-चलचित्रेषु (बॉलीवुड) प्रदर्शितम्। बाजीराव मस्तानी मध्ये - मोहे रंग दो लाल.. नामके गीते अभिनेत्री दीपिका पादुकोण कत्थकनृत्यम् एतस्मिन् दुर्गे एव अकरोत्। एतस्य मञ्चनं केसर-क्यारी-उद्याने जातम् आसीत्।

तदतिरिक्तं मुगले आझम, जोधा अकबर, शुद्ध देसी रोमांस, भूल भुलैया[३७][३८] आदीनां चलच्चित्राणां भागः अपि अत्र निर्मितः। हॉलीवुडचलच्चित्राणि यथा नार्थ वेस्ट फ्रन्टियर[३९][४०], द बेस्ट एग्ज़ॉटिक मॅरिगोल्ड होटल, आदीनां चलच्चित्राणां भागः अत्र निर्मितः च।

आवागमनम्[सम्पादयतु]

मुख्यनगरात् जयपुरात् ११ किलोमीटर उत्तरे स्थितं आमेरदुर्गं, नगरस्य अन्यपर्यटकस्थलेभ्यः अपेक्षाकृतं भिन्नं, दूरे च अस्ति। दुर्गस्य आधारं यावत् प्राप्तिः तु सरला एव। तस्य कृते नगरकेन्द्रात् भाटकेन यानानि, रिक्षा-यानं, नगर-बस-सेवा उत नैज-कार-यानं च उत्पमः विकल्पः भवति। नगरात् अत्यधिकं दूरे नास्ति, अतः मात्रम् अर्धहोरायाः यात्रा भवति। नगर-बस-सेवायाः सार्वजनिक-यानानि 'अजमेरीद्वारम्', 'एम.आई'-मार्गात् कदाचित् २० तः ३० मिनट मध्ये प्रापयन्ति। आधार-स्थलस्य प्राप्त्योत्तरं यात्रायाः द्वितीयं चरणम् आरभते। इतः दुर्गं यावत् पर्यटकेभ्यः गजयात्रायाः व्यवस्था उपलब्धा भवति।[४१] तदतिरिक्तं नैज-यानानि, जीप उत टैक्सि इत्यादि अपि दुर्गस्य पृष्ठमार्गात् उपरि नयति। यदि वातावरणं सुकरम् अस्ति, तर्हि पद्भ्याम् अपि गन्तु शक्यते। अल्पव्ययित्वात्स सरलत्वाच्च अनेक पर्यटकाः एतस्यापि उपयोगं कुर्वन्ति। अन्ततोगत्वा सर्वे सूरज-पोल-द्वारात् प्रवेशं प्राप्नुवन्ति।[४२][४३]

भूमार्गः[सम्पादयतु]

जयपुरनगरं रेल-बस-वायु-सेवा-द्वारा देशस्य प्रमुखैः नगरैः सह संयोजितम् अस्ति। अत्र राजस्थानराज्यपथपरिवहननिगमस्य बस-यानानि दिल्ली, आगरा, अहमदाबाद, अजमेर, उदयपुर इत्यादिभ्यः नगरेभ्यः समयानुसारं साधारणे, वातानुकूलिते प्रकारे च उपलब्धानि भवन्ति। अन्यराज्यानां सर्वकारीय-परिवहन-निगमस्य बस-यानानि अपि अधिकमात्राां प्राप्यन्ते। निज-यात्रा-सञ्चालकाः अपि साधारणे, वातानुकूलिते, वॉल्वो-बस-याने च आवागमनव्यवस्थां कुर्वन्ति। नगरस्य प्रमुखं बस-स्थानकं 'सिंधी कैम्प'नामके स्थानके विद्यते। निज-वॉल्वो-बस-सेवाः नारायणसिंह-चतुष्पथ-मार्गात् आरभन्ते।[४४]

रेल-मार्गः[सम्पादयतु]

जयपुर-नगरं रेल-मार्ग-द्वारा देशस्य मुख्यनगरैः सह संयुक्तम् अस्ति। नगरे पञ्च रेल-स्थानकानि विभिन्नासु दिक्षु स्थितानि सन्ति : जयपुरमहानगरम्, जयपुरगांधीनगरं, गेटोर, जगतपुरं, दुर्गापुरं च रेल-स्थानकम्। अत्र शताब्दी, राजधानी, दूरन्तो, डबल डेकर, गरीबरथः सदृशानि मुख्यानि, अमुख्यानि च रेल-यानानि उपलभ्यन्ते।[४५]

वायुमार्गः[सम्पादयतु]

जयपुर-आन्तर्राष्ट्रिय-विमानक्षेत्रस्य मुख्यद्वारम्

जयपुर-नगरं देशस्य प्रमुखैः नगरैः सह वायुमार्गेण संयुक्तम् अस्ति। तदतिरिक्तम् एतत् कैश्चित् अन्ताराष्ट्रियमार्गैः सह अपि संयुक्तम् अस्ति। नगरस्य वायुस्थानकं सवाई-मानसिंह-अन्ताराष्ट्रियविमानक्षेत्रम् अस्ति, यत् नगरस्य दक्षिणक्षेत्रे सांगानेर-स्थाने स्थितम् अस्ति। इतः जेट एयरवेझ, एअर इण्डिया, ओमान एयर, स्पाइसजेट, इण्डिगो इत्यादयः वायुसञ्चालक-संस्थाः सेवां प्रयच्छन्ति।[४६]

चित्र दीर्घा[सम्पादयतु]

आमेरदुर्गस्य मनोरम्यं प्रातःकालीनं दृश्यम्
चित्रस्य विवरणं द्रष्टुं मूषकं चित्रस्य उपरि स्थापयतु।

सन्दर्भग्रन्थः, टीका च[सम्पादयतु]

  • ^क राजेन्द्रकृत-जमुवायगाथातः :-

काङ्किलरायचरित्रम्

श्रीदुलहराय माघ शुक्ला सप्तमी विक्रमी सं॰ १०९३ दिने स्वर्गवासी अभवत्। ततः तस्य ज्येष्ठपुत्रः काङ्किलरायस्य राज्याभिषेकः अभवत्। सोऽपि प्रसिद्धः राजा मन्यते।
चौपाई
कांकिल पाय पिता ते ज्ञाना। मां जमुवाय करे नित ध्याना।।
सुंसावत कुल भत्तोरावा। मीना समाज ही सकल बुलावा।।

—जमुवाय गाथा

काङ्किलरायः स्वस्य पितुः दूलहरायस्य शिक्षामार्गम् अनुसृत्य मातुः जमुवाय-देव्याः प्रतिदिनं भजनं, पूजनं च करोति स्म। तदा सूंसावत-मीनो इत्यस्य राव-भत्तो-जनानां आमेरप्रान्ते शासनम् आसीत्। तत् परितः सर्वे मीना-समुदायस्य जनाः एकत्रिताः कृताः।

होय संगठित कीना धावा। कछु कांकिल की भूमि दबावा।।
:तब कांकिल निज बुला समाजा। करी मंत्रणा रण के काजा।।

—जमुवाय गाथा

राव-भत्तो इत्यस्य नेतृत्वे सर्वः मीना-समाजः संगटितः अभवत्, काङ्किलरायस्य राज्यस्य च भूमिप्रदेशं स्वाधीनम् अकुर्वन्। तदा काङ्किलः स्वहितेषभिः सह चर्चां कृत्वा युद्धस्य निर्णयम् अकरोत्।

सन्दर्भग्रन्थः

फलकम्:कालम

  1. कर्नल जेम्स टॉड: ऐनल्ज एण्ड एण्टिक्विटीज़ ऑफ़ राजस्थान, भाग ३, पृ. १३२८ फलकम्:अंग्रेज़ी
  2. कन्निंघम: आर्क्यिलॉजिकल सर्वे ऑफ़ इण्डिया, जिल्द २, पृ ३१९फलकम्:अंग्रेज़ी
  3. पृथ्वीराज रासो (उदयपुर संस्करण), भाग तृतीय, पृ. ७१-७४
  4. जर्नल ऑफ़ एशियाटिक सोसाइटी, जिल्द 31, अंक ६ पृष्ठ ३९३, फलकम्:अंग्रेज़ी
  5. साहनी, दयाराम, आरक्योलॉजिकल रिमेंस एंड एक्सप्रेशन ऐट बैराट, पृष्ठ 9 , फलकम्:अंग्रेज़ी
  6. टॉड, कर्नल, एनल्स एंड एक्टिविटी ऑफ राजस्थान, पृष्ठ ३४६, फलकम्:अंग्रेज़ी
  7. कनिंघम, आरक्योलॉजिकल सर्वे ऑफ इंडिया, जिल्द-२, पृष्ठ ५५, फलकम्:अंग्रेज़ी
  8. नाटाणी, सियाशरण, कछवाहा राजघराने की अमूल्य विरासत आमेर सवाई जयपुर, पृष्ठ 69
  9. मुक्तक संग्रह- राजस्थान पत्रिका के नगर परिक्रमा में, ११-०५-८९ जयपुर
  10. मीणा, यशोदा, मीणा जनजाति का इतिहास, पृष्ठ ५० से ५६
  11. मंडावा, देवी सिंह, कछवाहों का इतिहास, राजस्थानी ग्रंथागार, जोधपुर, २०१०, पृष्ठ ४५
  12. प्रसाद, राजीव नयन, राजा मानसिंह आमेर, राजस्थानी ग्रंथागार, जोधपुर, २०१०, पृष्ठ ४८
  13. सिंह, फतेह, ए ब्रीफ़ हिस्ट्री ऑफ जयपुर, पृष्ठ १६२ से १६५
  14. सिंह, चंद्रमणि, जयपुर राज्य का इतिहास, राजस्थानी ग्रंथागार, जोधपुर २००८, पृष्ठ ६६
  15. श्यामलदास, वीर वीनो भाग २, पृष्ठ ६६
  16. श्यामलदास वीर वीनो, भाग २, १३३२
  17. गहलोत, जगदीश सिंह, कछवाहों का इतिहास, पृष्ठ २१५

सन्दर्भ[सम्पादयतु]

Empty citation‎ (help) 

बाह्यपरिसन्धयः[सम्पादयतु]

फलकम्:विकियात्रा

  • "आमेरदुर्गस्य इतिहासः, तथ्यः च". अच्छी ज्ञान.कॉम. ७ जून २०१७. 
  • २.० २.१ आउटलुक पब्लिशिंग (१ दिसम्बर २००८) (in अंग्रेज़ी). आउटलुक. आउटलुक पब्लिशिंग. pp. ३९–. https://books.google.com/books?id=PTEEAAAAMBAJ&pg=PA39. Retrieved १८ अप्रैल २०११. 
  • ३.० ३.१ Abram, डेविड (१५ दिसम्बर २००३) (in अंग्रेज़ी). रफ़ गाइड टू इण्डिया. रफ़ गाइड्स. p. १६१. ISBN 978-1-84353-089-3. https://books.google.com/books?id=kAMik_6LbwUC&pg=PA161. Retrieved १९ अप्रैल २०११. 
  • ४.० ४.१ ४.२ पिप्पा द ब्रूयेन; कीथ बैन; डेविड एलार्डाइस; शोनार जोशी (१ मार्च २०१०) (in अंग्रेज़ी). फ़्रॉमर्स इण्डिया [Frommer's India]. फ़्रॉमर्स. pp. 521–522. ISBN 978-0-470-55610-8. https://books.google.com/books?id=HlqM2CR4vfUC&pg=PA521. Retrieved १८ अप्रैल २०११. 
  • {Cite web|url=https://www.jaipur.org.uk/forts-monuments/amber.html%7Ctitle=आमेर फ़ोर्ट|accessdate=२० मार्च २०१४|publisher = जयपुर.ऑर्ग |language=अंग्रेज़ी}}
  • "आमेर पैलेस [Amer Palace]" (in अंग्रेज़ी). राजस्थान पर्यटन विभाग: भारत सरकार. Retrieved ३१ मार्च २०११. 
  • ७.० ७.१ "आमेर फ़ोर्ट [[Amer Fort]]" (in अंग्रेज़ी). iloveindia.com. Retrieved १४ फ़रवरी २०१८.  Wikilink embedded in URL title (help)
  • "माओठा सरोवर-आमेर-जयपुर [Maota Sarover -Amer-jaipur]". http://amerjaipur.in (in अंग्रेज़ी). अगम पारीख. Retrieved २५ सितम्बर २०१५. 
  • जयपुर रिवर मैप।मैप्स ऑफ इण्डिया।अभिगमन तिथि १८ फ़रवरी २०१८]
  • विश्व कोप्पन मानचित्र
  • [टॉड.द्वितीय.२८१]
  • "आमेर(आम्बेर)" (in अंग्रेज़ी). Retrieved १२ मार्च २०१८. 
  • उपाध्याय, बृजेश. "इस बावड़ी की परंपरा का खुल गया राज तो जान गवां बैठे मीणा". bhaskar.com/. दैनिक भास्कर. Retrieved 16 नवम्बर 2017. 
  • "आमेर के कच्छवाहो का इतिहास". Retrieved १२ मार्च २०१८. 
  • "जयपुर" (in अंग्रेज़ी). Jaipur.org.uk. Retrieved १६ अप्रैल २०११. 
  • १६.० १६.१ डी फ़ेयरचाइल्ड रग्ग्ल्स (२००८) (in अंग्रेज़ी). इस्लामिक गार्डन्स एण्ड लैण्डस्केप्स [Islamic gardens and landscapes]. पेन्नसिल्वेनिया विश्वविद्यालय प्रेस. pp. २०५-२०६. ISBN 978-0-8122-4025-2. https://books.google.com/books?id=PgbjhGwfXBEC&pg=PA205. Retrieved १६ अप्रैल २०११. 
  • १७.० १७.१ १७.२ लिण्डसे ब्राउन; अमेलिया थॉमस (१ अक्तूबर २००८) (in अंग्रेज़ी). राजस्थान, दिल्ली एण्ड आगरा [Rajasthan, Delhi & Agra]. लोनली प्लानेट. pp. १७८–. ISBN 978-1-74104-690-8. https://books.google.com/books?id=Zz0_zXPb68kC&pg=PA178. Retrieved १८ अप्रैल २०११. 
  • राजीव नयन प्रसाद (१९६६) (in अंग्रेज़ी). आमेर के राजा मान सिंह [Raja Mān Singh of Amer]. वर्ल्ड प्रेस. https://books.google.com/books?id=FsA5AQAAIAAJ. Retrieved १८ अप्रैल २०११. 
  • १९.० १९.१ लॉरेन्स ए बॅब (१ जुलाई २००४) (in अंग्रेज़ी). Alchemies of violence: myths of identity and the life of trade in western India. SAGE. pp. २३०-२३१. ISBN 978-0-7619-3223-9. https://books.google.com/books?id=74tUY0le33UC&pg=PA230. Retrieved १९ अप्रैल २०११. 
  • "इंडियन कानून धारा 428 आईपीसी - इंडियन पीनल कोड - दस रुपए के मूल्य के जीवजन्तु को वध करने या उसे विकलांग करने द्वारा रिष्टि". lawrato.com. Retrieved २६ मार्च २०१८. 
  • "इंडियन कानून धारा 429 आईपीसी - इंडियन पीनल कोड - किसी मूल्य के ढोर, आदि को या पचास रुपए के मूल्य के किसी जीवजन्तु का वध करने या उसे विकलांग करने आदि द्वारा कुचेष्टा।". lawrato.com. Retrieved २६ मार्च २०१८. 
  • पारीख, अमित कुमार पारीख एवं अगम कुमार. "शीश महल, आमेर महल [Sheesh mahal Amer palace]". www.amerjaipur.in (in अंग्रेज़ी). आमेर जयपुर . इन. Retrieved १ जनवरी २०१६. 
  • "जनानी ड्योढ़ी पर सूचना पट्ट [Information plaque on Zenani Deorhi]". पुरा. विभाग, राज. सरकार. Retrieved १७ अप्रैल २०११. [नष्टसम्पर्कः]
  • "दुर्गों की विरासत स्थिति [Heritage Status for Forts]", ईस्टर्न आई, २८ जून २०१३. Retrieved on ५ जुलाई २०१५. (in अंग्रेज़ी) 
  • "संयुक्त राष्ट्र संघ के प्रतिष्ठित विरासत दुर्ग स्थल [Iconic Hill Forts on UN Heritage List]", मेल टुडे, २२ जून २०१३. Retrieved on ५ जुलाई २०१५. (in अंग्रेज़ी) 
  • घोष, र्हिया (२००५) (in अंग्रेज़ी). कड़ियों में ईश्वर [Gods in chains]. फ़ाउण्डेशन बुक्स. p. 24. ISBN 978-81-7596-285-9. https://books.google.com/books?id=3Av0YQXO1mgC&pg=PT24. Retrieved १९ अप्रैल २०११. 
  • "आमेर महल पुनरोद्धार: इतिहास से छेड़छाड़? [Amer Palace renovation: Tampering with history?]", टाइम्स ऑफ़ इण्डिया, ३ जून २००९. Retrieved on १९ अप्रैल २०११. (in अंग्रेज़ी) 
  • २८.० २८.१ "फ़िल्म दल ने आमेर में ड्रिल किये [ Film crew drilled holes in Amer]", टाइम्स ऑफ़ इण्डिया, १६ फ़रवरी २००९. Retrieved on १९ अप्रैल २०११. (in अंग्रेज़ी) 
  • Amber Fort centre for elephant trafficking: Welfare board द टाइम्स ऑफ़ इण्डिया। १८ दिसम्बर २०१४| (अंग्रेज़ी)|अभिगमन तिथि: १२ मार्च २०१८
  • PETA takes up jumbo cause, seeks end to elephant ride at Amber, द टाइम्स ऑफ़ इण्डिया। ११ दिसम्बर २०१४ | (अंग्रेज़ी)|अभिगमन तिथि: १२ मार्च २०१८
  • "Zachary Kussin, "पेटा की रिपोर्ट के बाद टूर में भारतीय हाथियों की सवारी हटायी गई [Tour Cuts Indian Elephant Rides After PETA Reports Abuse]," NY पोस्ट, ९ अक्तूबर २०१७.| (अंग्रेज़ी) |अभिगमन तिथि: १२ मार्च २०१८
  • राजस्थान के 6 दुर्ग विश्व विरासत - पिंक सिटी समाचार पत्र | अभिगमन तिथि: १२ मार्च २०१८
  • राजस्थानस्य षड् दुर्गाणि सहसा विश्व-परम्परासूच्याम् - जागरण समाचार | अभिगमन तिथि: १२ मार्च २०१८
  • "यूनेस्को राजस्थानस्य ६ दुर्गाणि विश्वपरम्परास्थलत्वेन अघोषयत् [Unesco declares 6 Rajasthan forts World Heritage Sites]", द हिन्दू, २२ जून २०१३. Retrieved on १ अप्रैल २०१५. (in अंग्रेज़ी) 
  • "विश्वपरम्परायां राजस्थानस्य ६ दुर्गाणां चयनम्". खास खबर.कॉम. २१ जून २०१३. Retrieved १४ फरवरी २०१८. 
  • मिश्रा, मनोज कुमार (२२ जून २०१३). "राजस्थानस्य अरावली-गिरमालियायां निर्मतानि षड् दुर्गाणि यूनेस्को-विश्व-परम्परायाः सूच्यां स्थानम् अलभन्त". जागरण जोश. Retrieved १२ मार्च २०१८. 
  • अग्रवाल, नूपुर. "19-hindi-movies-to-watch-before-you-visit-jaipur" [जयपुर भ्रमण से पूर्व देखने योग्य १९ फिल्में]. १४ दिसम्बर २०१६. द कल्चर ट्रिप. Retrieved 1 दिसम्बर 2017. 
  • "Amber Fort from eye of Bollywood" [आमेर दुर्ग - बॉलीवुड की दृष्टि में]. जयपुर.ऑर्ग. पिंक सिटी. Retrieved 1 दिसम्बर 2017. 
  • रोज़, जॉन (६ अप्रैल २०१४). "नॉर्थ वैस्ट फ़्रण्टियर [NORTH WEST FRONTIER]" (in आङ्ग्लम्). जे के रोमिंग. Retrieved १२१ मार्च २०१८. 
  • "Good action and bad stereotypes on the Northwest Frontier" (in आङ्ग्लम्). विली लोगान. २७ जनवरी २०१६. Retrieved १२ मार्च २०१८. 
  • "आमेरदुर्गे गजयात्रायाः संयुक्ततया (ओनलाइन) आरक्षणं भविष्यति". amarujala.com. अमर उजाला. १५ जून २०१३. 
  • "आमेरदुर्गस्य प्राप्तिः कथम्< [How to reach Amber Fort]". pinkcity.com (in आङ्ग्लम्). पिंकसिटी.कॉम. 
  • "जयपुरस्य आमेरदुर्गम् : सम्पूर्णा मार्गदर्शिका [Jaipur's Amber Fort: The Complete Guide]". tripsavvy.com (in आङ्ग्लम्). ट्रिप्सैवी. 
  • "गुलाबी मौसम में जाएँ 'गुलाबी नगर' जयपुर". nativeplanet.com/. नेटिव प्लानेट. २२ अप्रैल २०१५. 
  • चौहान, प्रदीप (२६ फरवरी, २०१६). "आमेरदुर्गे कानिचित् पलानि". omusafir.com. ओ मुसाफ़िर. 
  • "जयपुर-अन्ताराष्ट्रिय-विमानस्थानकम्". aimactimes. पिंकसिटी. 6 मार्च 2013. 
  • "https://sa.wikipedia.org/w/index.php?title=आमेरदुर्गम्&oldid=438164" इत्यस्माद् पुनः प्राप्तिः