आर्षेयकल्पसूत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

आर्षेयकल्पसूत्रस्य नाम सामवेदीयकल्पसूत्रेषु मुख्यं मन्यते । मशकाख्यः ऋषिरस्य कर्ता अासीत् । विशालोऽयं ग्रन्थोऽस्ति । ग्रन्थेऽस्मिन्नेकादशाध्यायाः सन्ति । कस्मिन् यागे कस्य विशिष्टसाम्नो गायनं सम्पन्नं कर्त्तव्यमिति प्रदर्शनमेवास्य ग्रन्थस्य मुख्योद्देश्यमस्ति ।

सोमयागस्त्रिविधो भवति । तद्यथा - एकाहः, अहीनः, सत्रयागश्चेति । अार्षेयकल्पस्य सम्बन्धः ताण्ड्यब्राह्मणेन सहास्ति। अर्थादिदं सामवेदीयानां ब्राह्मणयागानां येन क्रमेणोल्लेखं करोति, तेनैव क्रमेण तस्य क्रमस्य अनुवर्त्तनमपि कल्पसूत्रमिदं करोति । एतेषां यागानाम् अतिरिक्तोऽत्र चतुर्णाम् अभिचारयागानाम् अपि उल्लेखोऽस्ति । तद्यथा - श्येन-इषु-सन्दंश-वजु इति ।

ज्योतिष्टोमसंस्थाऽपि चतुर्धा भवति — अग्निष्टोमः, उक्थ्यः, षोडशी तथा अतिरात्र इति । अग्निष्टोमसोमयागानामन्तरग्निष्टोमनामकसामगायनेन भवति । उक्थ्ययागानामन्तरुक्थ्यस्तोमैः भवति । षोडशीयागस्य अन्त: षोडशीसाम्ना भवति । तथा अतिरात्रयागस्य अतिरात्रिष्टोमेन भवति । ज्योतिष्टोमे प्रयुक्तो ‘ज्योतिः'-शब्दः पारिभाषिकशब्दोऽस्ति, यः त्रिवृत्-पञ्चदश-सप्तदश-एकविंशस्तोमानां वाचकोऽस्ति । अग्निष्टोमसंस्थायां बहिष्पवमान-अाज्यमाध्यन्दिन-पृष्ट-अार्भवाश्च अग्निष्टोमसाम्ना सह नियतक्रमे सम्बन्धं रक्षति । अार्षेयकल्पस्यैकः पूरकोऽपि ग्रन्थोऽस्ति क्षुद्रकल्पसूत्रमिति ।

विषयवस्तु[सम्पादयतु]

आर्षयकल्पे एकादशाध्यायाः सन्ति । अस्य प्रतिपाद्यविषयाणां निम्नलिखितविवरणमस्ति —

(१) प्रथमाध्याये गवामयनस्य विवरणमस्ति । अस्यान्तर्गते प्रायणीयमहः, अभिप्लवषडहः (ज्योतिः, गौः, अायुः) गौः, अायुस्तथा ज्योतिः तथा पृष्टषडहस्य विस्तृतं निरूपणमस्ति।

(२) द्वितीयाध्याये गवामयनस्य अग्रिमं विवरणमस्ति, यस्य अन्तर्गते अभिजित्, स्वरसामानः, विषुवान्, अावृत्तः, स्वरसामानः, महाव्रतः, उदयनीयानां क्रमशो वर्णनमस्ति ।

(३) तृतीयाध्यायादारभ्य पञ्चमाध्यायपर्यन्तम् एकाहस्य वर्णनमस्ति । तृतीयाध्याये ज्योतिष्टोम-गौ-आायु-श्येन-एकत्रिक-व्रात्य-स्तोम-बृहस्पतिसव-इषुसर्वस्वारादीनां विवरणमस्ति ।

( ४) चतुर्थाध्याये-चातुर्मास्यस्य विस्तृतं विवरणमस्ति । अस्मिन्नेवाध्याये वाजपेयस्य राजसूयस्य च सविस्तरं निरूपणमस्ति ।

( ५ ) अस्याध्यायस्यान्तर्गते राट्-विराट्-औपशद्-गरुत्स्तोम-इन्द्रस्तोमसन्दंश-वज्रादीनां वर्णनमुपलब्धमस्ति ।

(६) षष्ठाध्यायादारभ्य अष्टाध्यायपर्यन्तम् अहीनयागानां वर्णनमस्ति । अस्मिन्नध्याये ज्योतिष्टोम-अतिरात्र-अाप्तोयमि-एकस्तोम-द्विरात्र-त्रिरात्रादीनां निरूपणमस्ति।

( ७ ) सप्तमाध्यायस्य विषयः चतूरात्र-पञ्चरात्र-षडह-सप्तरात्रअष्टरात्र-नवरात्रादियागानां निरूपणम् अस्ति।

(८) अष्टमाध्याये दशरात्र-एकादशरात्रभागादारभ्याहीनयागपर्यन्तं वर्णनमस्ति ।

(९) नवमाध्याये साम्नो वर्णनमस्ति, यस्यान्तर्गते द्वादशरात्रादारभ्य एकषष्टिरात्रयागपर्यन्तं क्रमशो वर्धिष्णुयागानां वर्णनमस्ति ।

(१०) दशमाध्याये तथा एकादशाध्याये नानाप्रकाराणाम् अयनानां वर्णनमस्ति, येषु प्रमुखाः सन्ति — आदित्यानामयन-अङ्गिरसामयन-सारस्वतमयनादयः । अत्र दशविधानां यागानां निर्देशोऽस्ति । ग्रन्थोऽयं सर्परात्र-प्रजापतेः सहस्रसंवत्सर-विश्वसृजामयनादीनां संक्षिप्तेन वर्णनेन सह समाप्तो भवति।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आर्षेयकल्पसूत्रम्&oldid=427246" इत्यस्माद् पुनः प्राप्तिः