आवृत्तिदीपकालङ्कारः
पठन सेटिंग्स
लक्षणाश्लोकः
[सम्पादयतु]- त्रिविधं दीपकावृत्तै भवेदावृत्तिदीपकम्
- वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ।
- उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।
- माद्यन्ति चातकास्तृप्ताः माद्यन्ति च शिखावलाः ॥
अर्थः
[सम्पादयतु]दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्य अर्थस्य उभयोर्वा आवृत्तौ त्रिविधमावृत्तिदीपकम् । क्रमेणार्धत्रयेणोदाहरणानि दर्शितानि ।
उदाहरणान्तरम्
[सम्पादयतु]- उत्कण्ठयति मेघानां मालावर्गं कलापिनाम् ।
- यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥
- शमयति जलधरधारा चातकयूनां तृषं चिरोपनताम् ।
- क्षपयति च वधूलोचनजलधारा कामिनां प्रवासरुचिम् ॥
एवं चावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावे अपि दीपकच्छायापत्तिमात्रेण दीपकस्य व्यपदेशः ॥