सामग्री पर जाएँ

उञ्चळ्ळिजलपातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

उञ्चळ्ळि जलपातः अथवा लुषिंग्स्टन् जलपातः ।अघनाशिनी नद्या निर्मितः जलपातः अस्ति । अस्य ऊर्ध्वता प्रायः ११६ मीटर् अस्ति । कर्णाटकस्य उत्तरकन्नडमण्डले शिरसीतः ३० कि.मी दूरे अयं जलपातः अस्ति | अस्य नामकरणं ब्रिटिश्अधिकारिणः जे.डी. लुषिंग्स्टन्-इत्यस्य नामधेयेन अभवत्, यः १८४५ तमे वर्षे अस्य जलपातस्य आविष्कारं कृतवान् । एषः उत्तरकन्नडमण्डलस्य कलेक्टर् आसीत्। जलप्रपातस्य कारणात् स्थानीयजनाः केप्प-जोगा इति अपि कथयन्ति ।

उञ्चळ्ळि जलपातः - उत्तरकन्नडमण्डलस्य सिद्दापुरतः वायव्यदिशि प्रायः १९ कि.मी दूरे उञ्चळ्ळिग्रामस्य समीपे स्थितः सुन्दरः जलपातः । कृष्णशिलासु क्षीरफेनवत् अधः प्रवहतः जलस्य सौन्दर्यं स्फूर्तिदायकं भवति । जलपातं परितः स्थितं कन्धरं, पूगोद्यानानि, समृद्ध वनानि,उभयतः कृष्णशिलायाः अखण्डभित्तिः च अस्य जलपातस्य विशेषम् आकर्षणम् अस्ति।अधः केवलं शूरा एव अवतरितुं शक्नुवन्ति । प्रायः १३ कि.मी दूरे स्थितस्य बिलगिग्रामपर्यन्तं जलपातस्य शब्दः श्रूयते। अस्मात् जलपातात् १ कि.मी. दूरे बुरुडे जलपातः अस्ति । सा एव नदी प्रायः ३०० पादपर्यन्तं पतति ततः उपनदीद्वये विभज्य १५० पादपर्यन्तं कूर्दित्वा किञ्चित् दूरं प्रवहति ,अन्यः जलपातः भवति।सिद्धापुरतः उञ्चळ्ळिजलपातपर्यन्तं मार्गः अस्ति । तत्र बस् यानस्य सुविधा अपि अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=उञ्चळ्ळिजलपातः&oldid=497276" इत्यस्माद् प्रतिप्राप्तम्