उत्तररामचरितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(उत्तररामचरितकाव्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
rama charitham
Ram and Sita as a couple (bazaar art, 1950's).jpg

उत्तररामचरितम् प्रसिद्धं संस्कृतनाटकम् । अस्य रचयिता भवभूतिः ।

कविपरिचयः[सम्पादयतु]

भवभूतिना स्वपरिचयार्थं स्वकृतिषु कश्चिदंशः लिखितः । तदनुसारेण तस्य पितुर्नाम नीलकण्ठः, मातुर्नाम जतुकर्णी आसीत् । भट्टगोपालः तस्य पितामहः, ज्ञाननिधिः गुरुश्च । भवभूतिः काश्यपगोत्रीयः ब्राह्मणः आसीत् । विदर्भदेशस्य पद्मपुरनगरं तस्य जन्मस्थानं वर्तते । श्रीकण्ठपदलाञ्छनो भवभूतिर्नाम’ इत्यनुसारेण श्रीकण्ठ तस्य उपाधिरासीत् । व्याकरणन्याय-मीमांसाशास्त्रेषु प्रवीणत्वात् सः पदवाक्यप्रमाणज्ञः इत्युपाधिना समलङ्कृतोऽभवत् । स्वपाण्डित्यविषये भवभूतिना स्वयमेवोद्घोषितम यत् – यं ब्राह्मणमियं देवी वाग्वश्येवानुवर्तते इति। कल्हणकृत –राजतरङ्गिण्याः अनुसारेण भवभूतिः कान्यकुब्जनृपतेः यशोवर्मणः आश्रितः आसीत् । अतः तस्य स्थितिकालः ६५० ईसवीतः ७५० इसवीयसमीपे भवेत् । महाकवेः भवभूतेः तिस्रः रचनाः प्राप्यन्ते –

  1. मालतीमाधवम्
  2. महावीरचरितम्
  3. उत्तररामचरितञ्च ।

उत्तररामचरितस्य कथा[सम्पादयतु]

सप्ताङ्कात्मके अस्मिन् नाटके रामायणस्य उत्तरार्धं प्रदर्शितमस्ति । अत्र रामस्य वनात् प्रत्यागमनानन्तरं राज्याभिषेकादारभ्य सीतामेलनपर्यन्तं सम्पूर्णकथा प्रदर्शिता अस्ति । वाल्मिकियरामायणे सीतायाः पातालगमनात् रामकथा दुः खपर्यवसायिनी अस्ति, परन्तु भवभूतिः नाट्यपरम्परायाः अनुकरणं कृत्वा उत्तररामचरितं सुखान्तं निर्मितवान् । तथाहि प्रथमाङ्के चित्रदर्शनं, तृतीयाङ्के छाया – सीतायाः कल्पना, सप्तमाङ्के गर्भङ्कयोजना च एतादृशीः मौलिककल्पनाः भवभूतेः काव्यसृष्टिम् अलङ्कुर्वन्ति ।

भवभूतिकृत –उत्तररामचरितस्य कथानकं वाल्मीकिरामायणमेव अनुसरति, किन्तु पद्मपुराणस्थरामकथायाः अपि प्रभावः नाटके दृश्यते । महाकविना मूलकथायां नाट्योपयोगीनि अनेकानि मौलिकपरिवर्तनानि कृतानि । तद्यथा –

  • सीतायाः पातालगमनात् रामायणकथानकं दुःखान्तं , किन्तु नाट्यशास्त्रीयनियमानुसारम् उत्तररामचरितस्य कथानकं सीतारामलवकुशादीनां समागमेन सुखान्तम् ।
  • प्रथमाङ्के चित्रवीथी-कल्पना, तृतीयाङ्के छायासीतायाः कल्पना’ सप्तमे अङ्के गर्भनाटकस्य कल्पना’ मौलिककल्पनाः सन्ति ।
  • चतुर्थाङ्के वसिष्ठ-अरुन्धती कौशल्याजनकादीनां वाल्मीक्याश्रमे समागमः, कौशल्याजनकयोः संवादः, पुत्रीवियोगात् जनकस्य शोकोद्गारः इत्यादीनि कवेः अद्भुतकौशलस्योदाहरणानि।
  • रामायणे यज्ञाश्वहरणप्रसङ्गे लवकुशयोः रामेण सह युध्दं भवति, किन्तु उत्तररामचरिते रामेण सह युध्दवर्णनं नास्ति । युध्दं तु लवचन्द्रकेत्वोर्मध्ये भवति ।

उत्तररामचरितं भवभूतेः नाट्यप्रतिभायाः सर्वोत्तमनिदर्शनमस्ति । रामायणमाश्रित्यसप्ताङ्ककथावृत्तेः श्रीरामस्य राज्याभिषेकात् लोकापवादेन सीतानिर्वासनं ततश्च सीतारामसम्मेलनं यावत् कथा वर्णिताऽस्ति ।

नाट्यसौविध्यदृष्ट्या कथानके प्रथमांके चित्रदर्शनम्, तृतीयाङ्के छायासीतायाः कल्पना, चतुर्थाङ्के वाल्मीक्याश्रमे कौशल्या –जनकादीनां सम्मेलनम्, सप्तमेऽङ्के गर्भनाटकयोजना, सीता- रामयोः समागमश्च इत्यादयः बहवः कथाभागाः कविकल्पना –विलासप्रसूताः सन्ति ।

चरित्रचित्रणदृष्ट्यापि रामः आदर्शप्रजापालकः, सीता पतिव्रता आदर्शभारतीयाङ्गना चास्ति । वसिष्ठस्य आदर्शकुलगुरुत्वं सर्वविदितमेव । लव कुश- चन्द्रकेतूनां बालस्वभावयुक्तं चरित्रं सर्वान् आकर्षति । उत्तररामचरिते प्रधानरसः करुणो वर्तते । भवभूतिकृते कारुण्ये ग्रावणोऽपि रुदन्ति, अन्येषां तु का कथा । नाटके भावपक्षस्य प्राधानयमस्ति । मानवीयमनोभावानां विश्लेषणे मार्मिकचित्रणे च भवभूतिः अद्वितीयो वर्तते ।

शैली[सम्पादयतु]

भवभूतेः शैली प्रसादमाधुर्यगुणयुक्ता, भाषा भावानुरुपास्ति । लवस्य भाषा आश्रमोचिता वर्तते, किन्तु जनकमुखात् दार्शनिकज्ञानयुक्ता एव भाषा निः सरति । भवभूतिः चरित्रचित्रणे असाधारणपटुः वर्तते । नाट्यपात्रेषु सजीवता, सक्रियता, स्फूर्तिः, उत्साहः, भावप्रकाशनस्य अद्भुतसामर्थ्यं, संघर्षशक्तिश्च विद्यते । तेषु मानवोचितसर्वेऽपि गुणाः दृश्यन्ते । सीतावियोगे रामस्य करुण-विलापः, लवकुशयोः बालोचितचाञ्चल्यं, किन्तु गुरुन् प्रति आदरभावः, तमसा-आत्रेयी –वासन्ती –मुरला-इत्यादिषु नार्योचित-गुणानां स्वाभाविकवर्णनं समुपलभ्यते ।

भवभूतेः प्रत्येकमपि पात्रं सांस्कृतिकादर्शम् उपस्थापयति । यथा, रामे कर्तव्यनिष्ठा, सीतायाम् आदर्शस्त्रीत्वं लवकुशादिषु क्षत्रियोचितवीरत्वं , वाल्मीकौ शान्तिसद्भावना च प्रस्फुटी भवति ।विदूषकस्याभावात् नाटके गाम्भीर्यं परिलक्ष्यते । इत्यं भवभूतेः नाट्यपात्रेषु गम्भीरता, भावुकता, आदर्शवादिता, आत्मसंयमः कर्त्तव्यनिष्ठभावना सर्वत्र दृश्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उत्तररामचरितम्&oldid=436080" इत्यस्माद् पुनः प्राप्तिः