ऌट् लकारः - भविष्यत्कालः
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(फ़ेब्रुवरि २०१४) |
संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...
१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।
एते दश लकाराः द्विधा विभक्ताः सन्ति ।
- सार्वधातुकाः / सविकरणकालार्थाः
- अर्धधातुकाः / अविकरणकालार्थाः
तत्र ऌट् लकारः भविष्यत्कालम् बोधयति । अयम् अर्धधातुकेषु अन्यतमः वर्तते । एषः सामान्यभविष्यत्कालः इत्यपि उच्यते । सामान्यभूतकालः इव अद्य यद् करिष्यते कालनिर्देशं विना भविष्यत्काले यद् करिष्यते तस्य कथनाय लृट्लकारस्य उपयोगः क्रियते ।
- उदा - अद्य रामायणं पठिष्यति ।
- रात्रिर्गमिष्यति भविष्यति सुप्रभातम् ।
ऌट् लकारः(परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
मध्यमपुरुषः | पठिष्यसि | पठिष्यथः | पठिष्यथ |
उत्तमपुरुषः | पठिष्यामि | पठिष्यावः | पठिष्यामः |
ऌट् लकारः(परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | स्यति | स्यतः | स्यन्ति |
मध्यमपुरुषः | स्यसि | स्यथः | स्यथ |
उत्तमपुरुषः | स्यामि | स्यावः | स्यामः |
ऌट् लकारः(आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | सेविष्यते | सेविष्येते | सेविष्यन्ते |
मध्यमपुरुषः | सेविष्यसे | सेविष्येथे | सेविष्यध्वे |
उत्तमपुरुषः | सेविष्ये | सेविष्यावहे | सेविष्यामहे |
ऌट् लकारः(आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|---|
प्रथमपुरुषः | स्यते | स्येते | स्यन्ते | |
मध्यमपुरुषः | स्यसे | स्येथे | स्यध्वे | |
उत्तमपुरुषः | स्ये | स्यावहे | स्यामहे |
इमे अपि पश्यन्तु[सम्पादयतु]
टिप्पणी[सम्पादयतु]
- संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
- अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.