एनी बेसन्ट्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ऍनी बेसण्ट् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
Annie Besant
एनी बेसन्ट्
Annie Besant, LoC.jpg
भारते होम् रूल्-आन्दोलनस्य जननी
जन्म Annie Wood Edit this on Wikidata
१/१०/१८४७
लण्डन-महानगरं, यु. के.
मृत्युः २०/९/१९३३ (८५ वयसि)
अडयार्, मद्रास
शिक्षणस्य स्थितिः Birkbeck, University of London Edit this on Wikidata
वृत्तिः निबंधकार, साहित्यकारः, वक्ता, पत्रकार, Editor, राजनैतिज्ञः, feminist edit this on wikidata
कृते प्रसिद्धः

थियोसफिस्ट्, नारीसशक्तिकरणसेविका,

लेखिका
भार्या(ः) फ्रेन्क् बेसन्ट्
अपत्यानि आर्थर्, मेबल्

एनी बेसन्ट् ( /ˈɛn bɛsənt/) (आङ्ग्ल: Annie Besant, हिन्दी: एनी बेसन्ट्) होम् रूल्-आन्दोलनस्य प्रणेता आसीत् । भारतसेवायै देशत्यागं कृत्वा उष्णप्रदेशे भारते निवस्य भारताय अदम्ययोगदानं दत्तं तया । सङ्घटनसामर्थ्येन स्वतन्त्रायै प्रयासं करोतु इति परामर्शं सा एव भारतीयनेतृभ्यः अयच्छत् । स्वराज-आन्दोलने अपि तस्याः महत्वपूर्णं योगदानम् आसीत् ।

जन्म, जीवनञ्च[सम्पादयतु]

१८४७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य प्रथमे (१/१०/१८४७) दिनाङ्के यू. के. (United kingdom) देशस्य लण्डन-महानगरे अभवत् । तस्याः पिता इङ्गलैण्ड-देशस्य प्रसिद्धः वैद्यः आसीत् । तस्याः माता आयर्लैण्ड-देशीया आसीत् । अतः एनी बेसन्ट् 'आईरिश्' इति प्रसिद्धा आसीत् ।

एनी बेसन्ट् यदा पञ्चवर्षीया आसीत्, तदा तस्याः पिता मृतः । अतः तस्याः परिवारः आर्थिकपराधीनः अभवत् । परन्तु तस्याः मातुः अविरतपरिश्रमेण कालान्तरे परिवारस्य आर्थिकस्थितिः सुदृढा जाता । एनी बेसन्ट् यदा सप्तदशवर्षीया जाता, तदा तस्याः विवाहः 'फ्रेन्क् बेसन्ट्'-नामकेन युवकेन सह अभवत् । परन्तु विचारभेदत्वात् दम्पतौ वारं वारं कलहः भवति स्म । पौनःपुन्यं कलहेन आहता एनी बेसन्ट् आत्महत्यां कर्तुम् उद्यता आसीत् । आत्महत्यायाः विचाराः वारं वारं तस्याः मानसपटले उद्भवन्ति स्म । परन्तु ईश्वरस्य कृपया सा आत्महत्यां नाकरोत् । सा यदा आत्महत्यां कर्तुम् उद्यता भवति स्म, तदा तस्याः मनसि स्थितः ईश्वरः ताम् कथयति स्म, “अयि भोः ! एतत् तु भीरुजनानां कार्यम् । दुःखात् भीता त्वं किमर्थम् आत्महत्यां कर्तुम् इच्छसि ? आत्मसमर्पण-सत्ययोः मार्गेण तव कल्याणं भविष्यति” इति । ततः तया अन्तर्मनसः कथनानुसारं कार्यं प्रारब्धम् ।

एकस्मिन् दिने पति-पुत्रान् त्यक्त्वा सा आत्मकल्याणमार्गं प्रति न्यर्गच्छत् । स्वप्रश्नानाम् उत्तराणि क्रिस्त-धर्मात् तया न प्राप्तानि । अतः तया ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यायाः संस्थायाः चार्ल्स् ब्रेटमा इत्यस्य सम्पर्कः कृतः । चार्ल्स् ब्रेटमा इत्यस्य विचारेण प्रभाविता सा ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यायाः संस्थायाः कार्यं प्रारभत । तया ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यया संस्थाया प्रकाशितस्य ‘नेशनल् रिफोर्म्स्’ इत्याख्यायाः पत्रिकायाः सम्पादनकार्यं कृतम् ।

भारतीयराजनीतौ प्रवेशः[सम्पादयतु]

१८७८ तमे वर्षे एनी बेसन्ट् प्रप्रथमवारं भारतीयराजनीतिविषये स्वविचारान् विश्वसम्मुखम् अवदत् । सा लोर्ड् लिटन् इत्यस्य प्रतिक्रियावादिनीतिविषये एकं लेखम् अलिखत् । तस्मिन् लेखे सा आङ्ग्लसर्वकारस्य नीतेः विरोधम् अकरोत् । तेन भारतीयानां मनसि एनी बेसन्टे इत्येनां प्रति आदरभावः उद्भूतः । समयान्तरे सा 'थियोसोफिकल् सोसायटि' इत्याख्यायाः संस्थायाः कृते अपि कार्यं प्रारभत । अमेरिका-ऑस्ट्रेलिया-न्यूजीलैण्ड इत्यादिदेशानां प्रवासं कृत्वा सा १८९३ तमे वर्षे विश्वधर्मपरिषदि भागम् अवहत् । भारतीयानां प्रवचनेन प्रभाविता सा भारतीयसंस्कृत्याः विषये अधिकं ज्ञातुं भारतम् अगच्छत् । १९०१ तमस्य वर्षस्य 'नवम्बर'-मासस्य षोडशे (१६/११/१९०१) दिनाङ्के तया भारते स्थायिनिवासस्य निर्णयः स्वीकृतः । वाराणसी-महानगरं तस्याः कार्यक्षेत्रम् आसीत् । सांस्कृतिक-आन्दोलने सक्रिया सा बहूनि महत्वपूर्णानि कार्याणि अकरोत् ।

हिन्दुधर्मस्य अङ्गीकारः[सम्पादयतु]

एनी बेसन्ट् हिन्दुपरम्परायाः गहनतया अध्ययम् अकरोत् । सा अविरतपरिश्रमेण हिन्दुधर्मस्य हार्दं ज्ञातुं प्रयासम् अकरोत् । हिन्दुधर्मसम्बद्धं नित्यं नवीनविषयं सा अन्विशति स्म । स्वप्ले काले एव तया हिन्दुधर्मः आत्मसात् कृतः । सा शाकाहारस्यापि सङ्कल्पम् अकरोत् । हिन्दुधर्मं प्रति तस्याः आदरभावः एतावान् दृढः अभवत् यत्, सा हिन्दुधर्मम् अङ्ग्यकरोत् ।

सा मुहुर्मुहुः वदति स्म यत्, “अहं पूर्वजन्मनि हिन्दुः भवेयम् । अतः हिन्दुधर्मं प्रति मम एतावान् प्रेमः” इति । सा हिन्दुधर्मस्य कर्मकाण्डपद्धतिं वैज्ञानिकपद्धतित्वेन पश्यति स्म । सा वारं वारं भारतवासिनं सम्बोद्ध्य वदति स्म यत्, “भारतीयैः राजनीतिं त्यक्त्वा धर्मस्योपरि स्वध्यानं केन्द्रितव्यम्” इति । (अत्र तस्याः भावः धर्माधारितराजनीतिकरणस्य नासीत्, अपि तु धर्ममार्गेण देशसेवायाः भावः आसीत् । धर्माधारितपक्षपातः न भवेत्, अपि तु स्वधर्ममाध्यमेन सर्वधर्माणां सम्मानं भवेत् इति तस्याः भावः आसीत्) । एकस्मिन् भाषणे सा अकथयत्, “पश्चिमिदेशाः भारतात् बहु ज्ञातुं शक्नुवन्ति, भारतेनापि पश्चिमदेशात् बहुकिमपि पठनीयम् अस्ति । अतः परस्परं ज्ञानस्य आदानं प्रदानं च आवश्यकम्” इति ।

तस्याः चिन्तनम् आसीत् यत्, “हिन्दुधर्मस्य सङ्घटनमेव भारतोत्थानस्य मार्गः अस्ति” इति । अतः सा १८९७ तमे वर्षे 'सेन्ट्रल् हिन्दु कोलज्', 'हिन्दु गर्ल्स् स्कूल्' इत्यनयोः शैक्षणिकसंस्थयोः रचनाम् अकरोत् । तस्याः विचारस्य समर्थनं कुर्वद्भिः भारतीयनेताभिः कालान्तरे तत्र बनारस हिन्दु युनिवर्सिटी इत्यस्य विश्वविद्यालयस्य रचना कृता । पण्डित मदनमोहन मालविय तस्याः प्रेरणास्रोतः आसीत् । तस्य मार्गदर्शनेन सा संस्थायाः निर्णयान् स्वीकरोति स्म ।

भारतस्वतन्त्रतायै यागदान्[सम्पादयतु]

भारतस्य हार्दं हिन्दुधर्मम् अङ्गीकृत्य सा भारतस्य पीडाम् अनुभवन्ती आसीत् । सा सामाजिकसुदृढिकरणस्य मार्गेण भारतीयानां हिताय बहु अचिन्तयत् । परन्तु "पराधीनाः भारतीयाः स्वकल्याणार्थं चिन्तयितुम् असमर्थाः सन्ति" इति तया अनुभूतम् । अतः सा भारतस्वतन्त्रतायाः विषये चिन्तनम् आरभत ।

होम् रूल् लीग्[सम्पादयतु]

एनी बेसन्ट् यदा आयर्लैण्ड्-देशे निवसति स्म, तदा सा रेडमान्ड् इत्यस्य नेतृत्वे संस्थापितस्य होम् रूल् लीग् इत्यस्य कार्यकर्ता आसीत् । तस्याः संस्थायाः उद्देशः स्पष्टः आसीत् यत्, “साम्राज्यवादिनाम् आङ्ग्लानाम् आधिपत्यात् देशस्य स्वातन्त्र्यं भवेत्” इति । अतः तस्याः संस्थायाः कार्यकर्तारः शान्तिपूर्वकं स्वराजप्राप्त्यै कार्यं कुर्वन्ति स्म । "आयर्लैण्ड-देशे सा संस्था यथा कार्यं कुर्वती अस्ति, तथैव अत्रापि भारतस्वतन्त्रतायै कार्यं भवेत्" इति विचिन्त्य सा होम् रूल् लीग् इत्यस्य स्थापनाञ्चकार ।

होम् रूल् लीग् इत्यनया संस्थया होम् रूल्-आन्दोलनस्य घोषणा कृता । होम् रूल्-आन्दोलनस्य नियमाः सरलाः आसन् । प्रचारकार्यं बहु वेगवन्तम् आसीत् । अतः शीघ्रं हि जनसमर्थनं प्राप्तं होम् रूल्-आन्दोलनेन । धूर्ताः आङ्ग्लाः यथा कथञ्चित् होम् रूल्-आन्दोलनस्य दमनम् इच्छन्ति स्म । परन्तु कोऽपि अवसरः ते न प्राप्नुवन् । बहु प्रतीक्षानन्तरं तैः कारणं प्राप्तं यत्, “सर्वकारविरोधिकार्याणि एनी बेसन्ट् कुर्वती अस्ति” इति । एवं आक्षिप्य तैः एनी बेसन्ट् इत्येषा मुम्बई-महानगरात् बहिष्कृता । आङ्ग्लानां कुनीतेः लाभः एनी बेसन्ट् प्रापत् । तस्याः बहिष्कारेण तां प्रति जनानां समर्थनम् अवर्धत । जनसमर्थनेन होम् रूल्-आन्दोलनस्य स्वल्पेषु दिनेषु आभारते पञ्चशताधिक्यः शाखाः आरब्धाः तया । एवं होम् रूल्-आन्दोलनं भारतीयराजनीतिज्ञानां दृष्टिपथि आगतम् ।

१९१६ तमे वर्षे कोङ्ग्रेस-पक्षस्य अधिवेशनम् आसीत् । तस्मिन् अधिवेशने एनी बेसन्ट्-द्वारा सञ्चालितस्य होम् रूल् आन्दोलनं चर्चायाः विषयः आसीत् । अतः तस्मिन् अधिवेशने एनी बेसन्ट् इत्यस्याः मुख्यभूमिका आसीत् । परन्तु स्वपक्षं स्थापयती एनी बेसन्ट् कोङ्ग्रेस-पक्षस्य अन्तःकलहं निराकर्तुं प्रयासम् अकरोत् । अतः सा कोङ्ग्रेस-पक्षे एकता आवश्यकी इति प्रस्तावम् अकरोत् । सर्वैः तस्याः समर्थनं कृतम् । ततः सर्वैः मिलित्वा होम् रूल्-आन्दोलनमाध्यमेन स्वराजप्राप्तेः योजना कृता । कालान्तरे बहूनि अधिवेशनानि अभवन् आभारते । एनी बेसन्ट् आभारतं भ्रमन्ती सभाः सम्बोधयति स्म । भारतस्य एकता, होम् रूल् आन्दोलनम् इति अंशद्वयं तस्याः भाषणे भवन्ति स्म । सा समाचारपत्रेषु 'न्यू इण्डिया'-'कोमन् विल्'-विभागे स्वविचारान् लिखति स्म । तस्याः विचारैः माहाराष्ट्रराज्यस्य महान् नेता लोकमान्य टिळक बहु प्रभावितः आसीत् । अतः तेन महाराष्ट्रराज्ये होम् रूल्-आन्दोलनस्य नेतृत्वं ऊढम् ।

जनसामान्यानां, नेतॄणां समर्थनं प्राप्तवत्याः एनी बेसन्ट् इत्यस्याः कार्यैः आङ्ग्लसर्वकारः बहु कुपितः आसीत् । अतः तैः एनी बेसन्ट् इत्यस्याः गृहमेव तस्यै कारवासवत् कृतम् । तस्याः सर्वाणि कार्याणि आङ्ग्लाधिकरिणाम् अनुमतिपश्चादेव भवन्ति स्म । तस्याः लेखनकार्यमपि स्थगितम् आङ्ग्लैः ।

एनी बेसन्ट् इत्यस्याः गृहकारावासेन जनेषु बहु आक्रोशः आसीत् । आभारते विभिन्नेषु स्थानेषु सर्वे राजकीयपक्षाः आङ्ग्लसर्वकारस्य विरोधं कुर्वन्ति स्म । ततः त्रस्ताः आङ्ग्लाधिकारिणः एनी बेसन्ट् इत्येनाम् अमुञ्चन् । आङ्ग्लानाम् एषः दमनप्रयासः अपि एनी बेसन्ट् कृते बहु लाभकरः अभवत् । होम् रूल्-आन्दोलनस्य लोकप्रियतायाः कारणेन १९१७ तमे वर्षे कोलकाता-महानगरे जातस्य कोङ्ग्रेस-पक्षस्य राष्ट्रिय-अधिवेशने कोङ्ग्रेस-पक्षाध्यक्षत्वेन एनी बेसन्ट् चिता । एनी बेसन्ट् कोङ्ग्रेस-पक्षस्य अध्यक्षा आसीत् । तस्याः भयेन आङ्ग्लाधिकारी मोन्टेग्यु घोषणाम् अकरोत् यत् “ब्रिटिश्-सर्वकारः शनैः शनैः भारतीयानां हस्ते भारतीयसत्तायाः हस्तान्तरणं करिष्यति” इति । एषा घोषणा 'मोन्टेग्यु चेम्सफर्ड् रिफोर्मस्' इति प्रसिद्धा अस्ति । एतस्याः घोषणायाः पश्चादेव कोङ्ग्रेस-पक्षस्य नेताभिः, होम् रूल्-आन्दोलनस्य कार्यकर्तृभिश्च राजकीयपदानि स्वीकृतानि ।

'मोन्टेग्यु चेम्सफर्ड् रिफोर्मस्' पश्चात् होम् रूल्-आन्दोलनं समाप्तम् अभवत् । परन्तु तत् आन्दोलनं भारतीयजनान् स्वतन्त्रतायाः नवस्वप्नं प्रादर्शयत् । तत् आन्दोलनं भारतस्वतन्त्रतायाः प्रप्रथमान्दोलनत्वेन प्रसिद्धम् अस्ति । अनेन आन्दोलनेन प्रभावितः महात्मा असहयोग-आन्दोलनस्य आरम्भम् अकरोत् । अतः असहयोग-आन्दोलनस्य जनकः होम् रूल्-आन्दोलनम् आसीत् इति कथनं न अतिशयोक्तिः ।

'नेशनल् कन्वेन्शन्'-आन्दोलनम्[सम्पादयतु]

होम् रूल्-आन्दोलनस्य सफलतानन्तरं एनी बेसन्ट् आङ्ग्लानां विनाशम् एव इच्छिति स्म । अतः तया अन्यस्य आन्दोलनस्य प्रारम्भः कृतः । तत् आन्दोलनं 'नेशनल् कन्वेन्शन्'-आन्दोलनम् इति प्रसिद्धम् । तस्य आन्दोलनस्य प्रभावेनैव भारतीयसंसदि ‘कोमन्वेल्थ् ऑफ् इण्डिया’-विधेयकः सिद्धः अभवत् ।

अन्तिमदिनेषु एनी बेसन्ट्[सम्पादयतु]

१९२१ तमात् वर्षात् अनन्तरम् एनी बसन्ट् सामाजिकप्रवृत्तिम् आरभत । नारीसशक्तीकरण-आदिवासिसेवा-स्त्रीशिक्षा इत्यादीनि कार्याणि तया कृतानि । सा स्वभाषणेषु कथयति स्म, “भारतीयसमाजस्य, भारतस्य प्रगतिः, स्वतन्त्रता च नारीशक्तेः उपरि आधारिता अस्ति । नारीशक्तिं विना सर्वम् असम्भवम् एवास्ति” इति । स्त्री-पुरुषयोः समानाधिकाराय अपि सा जनजागृतिसभाः अकरोत् ।

सञ्चिका:Prophet Of Peace Annie Besant - Google Chrome.jpg
एनी बेेसेन्ट् इत्यस्याः सन्देशः

एनी बेसन्ट् इत्यस्याः वक्तृत्वशक्तिः, समर्पणम् अद्यापि भारतीयेभ्यः सम्मानस्य केन्द्रमस्ति । सा लेखिका, समाजसेविका, राजनीतिज्ञा च आसीत् । सा स्वानुभवस्य आधारेण त्रिशतं पुस्तकानि अलिखत् । भारतात् सहस्राधिकानि योजनानि दूरे जन्मधृता सा एनी बसन्ट्, स्वस्याः जीवनस्य अन्तिमश्वासपर्यन्तं भारतस्य सेवाम् अकरोत् । सा भारतमातरं जन्मभूमिवत् प्रीणाति स्म । अतः तया अन्तिमश्वासः अपि भारतमातुः कुक्षौ त्यक्तः ।

कृतयः[सम्पादयतु]

१. डेथ् ऐण्ड् आफ्टर् (थियोसॉफिकल् मेन्युअल् III) - १८९३

२. आत्मकथा - १८९३

३. इन् द आउटर् कोर्ट् - १८९५

४. कर्म (थियोसॉफिकल् मेन्युअल् IV) - १८९५ - कर्मव्यवस्थायाः सुन्दररीत्या उपस्थापनम् ।

५. द सेल्फ् ऐण्ड् इट्स् शीत्स् - १८९५

६. मेन् ऐण्ड् हिज् बॉडीज़् (थियोसॉफिकल् मेन्युअल् VII) - १८९६

७. द पाथ् ऑफ् डिसाइपल्शिप् - १८९६ - मुमुक्षोः मार्गः ।

८. द ऐन्शियण्ट् विज़्डम् - १८९७

९. फोर् ग्रेट् रिलिजन्स् - १८९७ - धर्माधारितं प्रसिद्धं पुस्तकम् - कालान्तरे एतस्य पुस्तकस्य चत्वारः भागाः अभवन् - हिन्दूइज़म्, ज़रौअस्ट्रियनिज़म्, बुद्धिज़म्, क्रिश्चियानिटि ।

१०. एवल्यूशन् ऑफ् लाइफ् एण्ड् फॉर्म् - १८९९

११. सम् प्रॉब्लम्स् ऑफ् लाइफ् - १९००

१२. थॉट् पवर् : इट्स् कण्ट्रोल् ऐण्ड् कल्चर् - १९०१

१३. रिलिजस् प्रॉब्लम् इन् इण्डिया - १९०२ - प्रसिद्धा साहित्यिककृतिः । कालान्तरे एतस्य पुस्तकस्य चत्वारः भागाः अभवन् - इज़्लाम्, जैनिज़म्, सिक्खिज़म्, थियसफि ।

१४. द पेडिग्री ऑफ् मेन् - १९०४

१५. ए स्टडि इन् कॉन्शस्नेस् - १९०४

१६. ए स्टडी इन् कर्म - १९१२ - कर्मसिद्धान्तविषये

१७. वेक् अप्, इण्डिया : ए प्ली फॉर् सोशल् रिफॉर्म् - १९१३

१८. इण्डिया ऐण्ड् ए एम्पायर् - १९१४

१९. फॉर् इण्डियाज़् अप्लिफ्ट् - १९१४

२०. द कॉमन वील् - १९१४ तमस्य वर्षस्य जुलाई-मासात् प्रारब्धं साप्ताहिकम् ।

२१. न्यू इण्डिया - १९१५ - तदानीन्तनस्य मद्रास(चेन्नई)-प्रसिडेन्सि इत्यस्य दैनिकसमाचारपत्रम् ।

२२. हाऊ इण्डिया फॉट् फॉर् फ्रीडम्

२३. इण्डिया : ए नेशन् - १९१५ - एतत् पुस्तकम् आङ्ग्लैः बलेन स्वाधिकारान्तर्गतं कृतम् आसीत् । ततः गृहकारावसस्य योजना आङ्ग्लैः कृता आसीत् ।

२४. काङ्ग्रेस् स्पीचस् - १९१७

२५. द बर्त् ऑफ् न्यू इण्डिया

२६. लेटर्स् टु ए यङ्ग् इण्डियन् प्रिन्स्

२७. द फ्यूचर् ऑफ् इण्डियन् पॉलिटिक्स्

२८. ब्रह्मविद्या - १९२३

२९. इण्डियन् आर्ट् - १९२५ - भारतीयसंस्कृतेः गहनतया विवरणं दत्तमस्ति एतस्मिन् पुस्तके ।

३०. इण्डिया : बौण्ड् ऑर् फ्री ? - १९२६ - भारतीयेभ्यः एतत् पुस्तकम् अति आवश्यकम् अस्ति । (एकवारं तु एतत् पुस्तकं पठनीयमेव ।) एतस्मिन् भारतस्य भूत-भविष्य-वर्तमान-कालः निहितः अस्ति ।

एनी बेसन्ट्-द्वारा लिखितानि पुस्तकानि ५०५ भवेयुः । 'हाऊ इण्डिया फॉट् फॉर् फ्रीडम्' (१९१५) पुस्तके "भारतमाता मम मातृभूमिः" इति उल्लिखत् सा ।

मृत्युः[सम्पादयतु]

१९३३ तमस्य वर्षस्य 'सितम्बर'-मासस्य विंशतितमे (२०/९/१९३३) दिनाङ्के पञ्चाशीतिवयसि ८५ आङ्ग्लकालीने मद्रास-प्रसिडेन्सि मध्ये तस्याः निधनम् अभवत् ।

तस्यै श्रद्धाञ्जलीं यच्छन् महात्मा अलिखत्, “भारतवर्षस्य अस्तित्वं यावत् भविष्यति, तावत् एनी बेसन्ट् इत्यस्याः सेवाः भविष्यन्ति । सा भारतमातरं स्वमातृभूमिवत् अङ्ग्यकरोत् । अतः स्वपार्श्वे यत् दानयोग्यम् आसीत्, तत् सर्वं तया भारतमातुः सेवायै समर्पितम्” इति ।

सम्बद्धाः लेखाः[सम्पादयतु]

होम् रूल् आन्दोलनम्

स्वराज आन्दोलमनम्

हिन्दुधर्मः

बाह्यानुबन्धाः[सम्पादयतु]

http://www.anandgholap.net/

http://saadarindia.com/?p=238

http://viewsaboutmuhammad.blogspot.com/2012/10/annie-besant.html

http://hindi.webdunia.com/religion/religion/pravachan/0812/24/1081224019_1.htm

http://books.google.co.in/books?id=e5l_DwEACAAJ&dq=annie+besant&hl=en&sa=X&ei=Lf1tU5HsK8iVuATqlYDABA&ved=0CC4Q6AEwAA

http://books.google.co.in/books?id=ey9hPV9brxoC&printsec=frontcover&dq=annie+besant&hl=en&sa=X&ei=Lf1tU5HsK8iVuATqlYDABA&ved=0CDMQ6AEwAQ#v=onepage&q=annie%20besant&f=false

http://books.google.co.in/books?id=TlIanwEACAAJ&dq=annie+besant&hl=en&sa=X&ei=Lf1tU5HsK8iVuATqlYDABA&ved=0CDkQ6AEwAg

"https://sa.wikipedia.org/w/index.php?title=एनी_बेसन्ट्&oldid=358485" इत्यस्माद् पुनः प्राप्तिः