एड्स् रोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


Acquired immunodeficiency syndrome (AIDS)
Classification and external resources
The red ribbon is a symbol for solidarity with HIV-positive people and those living with AIDS.
ICD-10 B24
ICD-9 042
DiseasesDB 5938
MedlinePlus 000594
eMedicine emerg/253
MeSH D000163

‘एड्स् रोगस्थस्य विषये विचार्यमाणे आदौ ‘एड्स्’ इति पदं विचारणीयं भवति । अस्मिन् पदे चतुर्णामांग्लवर्णानां AIDS – इत्येषां समन्वयः विद्यते । तत्र –

  1. A – वर्णात् –एक्वायर्ड (Acquired) अर्थात् शरीरे यत् तत्त्वं पूर्वतः विद्यमानं नासीत्, बहिः प्रदेशात् तस्य अधिगमः
  2. I – वर्णात् – इम्यूनो (Immuno) अर्थात् शरीरस्य प्रतिरक्षा अथवा रोगापहारशक्तिः ।
  3. D - वर्णात् –डिफिशियंसी (Deficiency) न्यूनता ।
  4. S – वर्णात् –सिंड्रेम (Syndrom) अर्थात् लक्षणसमूहः ।

पदच्छेदपूर्वकव्युत्पत्त्या बाह्यप्रदेशात् समागताः विषाणवः (वैरस्) शरीरस्यान्तर्वर्त्तिप्रदेशं प्रविशन्ति चेत् अस्माकं शरीरे विद्यमानायाः श्वेतरक्तकणिकायाः शक्तिं क्रमशः क्षीणां कूर्वन्ति अर्थात् यदा रोगस्य प्रतिरोधकशक्तिः क्षीणा भवति तदैव ‘एड्स्-रोगस्य’ रोगस्थः इत्युच्यते । ते च विषाणवः भवन्ति अतीव शक्तिशालिनः ये शरीरे विद्यमानं प्रवहणशीलं रक्तकोशम् एव भञ्जयन्ति । रोगस्य प्रतिरोधकशक्तिशून्यत्वात् जनाः असहायाः मृत्युमुखमधिगच्छन्ति ।

‘एड्स्-रोगस्य’ कारकः जीवः वैरस् (विषाणुः) यः HIV-1 (ह्यूमन् इम्यूनोडिफिशिएंसी वैरस् -१) तथा HIV-2 (ह्यूमन इम्यूनोडिफिशिएंसी वैरस् -२) इतिनाम्ना ख्यातः । एड्स्-रोगस्य विषाणोः अन्वेशणकर्त्ता पेरिसस्थस्य पाश्चर इन्स्टीट्यूटस्य (Pasteur Institute) लक मण्टेगेनियरः (Luc Montagnier) यः १६८३ खृष्टवर्षे LAV (isolated lymphadenopathy) –टाइप III अथवा H.TLV (human t cell leukemia virus) इति नाम्ना विषाणुं पृथक् कृतवान् ।

HIV संक्रमणं सर्वप्रथमं १६८९ तमे वर्षे संयुक्तसंस्थान-अमेरिकायां दृष्टम् । दक्षिण–पश्चिम एशियायां भारतं पश्चात् थाइलैण्ड एडसप्रभावितदेशेषु प्रमुखम् । सर्वप्रथमम् अमेरिकनचिकित्सकसमक्षं एवंविधा कैंसर –राजयक्ष्माप्रभृतिभिः दुःसाध्यैः रोगैः आक्रान्ताः रोगणः उपस्थिता जाताः, येषु ओषधयः प्रभावहीनाः जाताः । अन्ततः परीक्षणेन ज्ञातं यत् तेषां शरीरेषु प्रतिरोधकक्षमता पूर्णतः नष्टा विद्यते । रक्तपरीक्षणानन्तरम् रक्ते एच.आई.वी. इत्यस्योपस्थितिः अभिज्ञाता ।

एड्स्-रोगस्यस्य प्रसारण कारणानि[सम्पादयतु]

सामान्यतः एड्स्-रोगस्य प्रसारस्य निम्नलिखितानि प्रमुखकारणानि सन्ति-

  • एच.आई.वी. प्रभावितेन संक्रमितेन वा असुरक्षितसंभोगात् ।
  • अनेकैः कृतयौनसम्बन्धात्
  • अप्राकृतिकाद् अथवा समलैंगिकयौनसम्बन्धात् ।
  • निरोधोपायं विना यौनसम्बन्धस्थापनात् ।
  • शरीरं प्रति अपरीक्षितरक्तदानात् ।
  • दूषितचर्मभेदकयंत्रमाध्यमेव शरीरे औषधिनिक्षेपात् ।
  • असुरक्षितरक्तप्रवाहे विशाणुप्रवेशात् ।
एड्स्-रोगस्य प्रमुखलक्षणानि

वैज्ञानिकान्वेषणैर्ज्ञातमिदं तथ्यं यत् आफ़्रिकायाः वनेषु हरितवर्णाः कपयः प्राप्यन्ते येषां शरीरेषु HIV इत्यस्य विषाणवः विराजन्ते । स्यात् केनापि विषाणुयुक्तेन कपिना कृतदन्तक्षतकारणात् अथवा अप्राकृतिकयौवनाचारवशात् एकस्य व्यसनिनः शरीरे प्रविष्टाः विषाणवः क्रमशः अपरेषां शरीरेऽपि प्रविष्टाः जाताः । एतत्तु निर्विवादं यत् एच.आई.वी. अस्माकं रक्ते विद्यमानां टी-लिम्फोसाडट कोशिकां रूग्णां करोति, या कोशिका शरीरस्य सुरक्षाकवचरूपेण स्थिता भवति । HIV विषाणूनाम् आक्रमणेन प्रतिरोधक्षमता क्रमशः विनष्टा भवति, विद्यमानः रोगः अधिकतरं प्रसरति, श्वेतरक्तकणिका यदैव पूर्णतः क्षतिग्रस्ता भवति तदैव एड्स्-रोगपीडितः जनः प्राणतत्त्वं विजहाति ।

एड्स्-रोगस्य विषाणोः शरीरे उपस्थित्या अनेके गम्भीरतराः रोगाः कैंसर –स्वेदक्लिन्नता- ग्रन्थिग्रथनम्, मुखे संक्रमणम्, साधारणेऽपि व्याधौ ओषधीनां प्रभावहीनता- इत्यादीनि लक्षणानि दृश्यन्ते। एड्स्-रोगस्य वैरस् लिम्फोसाडटस अभ्यन्तरे प्रवेशं प्राप्य तीव्रगत्या विकसितः भवति ।

एच.आई.वी. अस्माकं शरीरे प्रायशः अष्टवर्षाणि यावत् तिष्ठति, किन्तु पर्वूं एड्स्-रोगस्य लक्षणम् अप्रकटितं दृश्यते, जनः स्वस्थः परिलक्ष्यते । अस्याम् अवधौ शनैः –शनैः शरीरस्य रोगस्य प्रतिरक्षणक्षमता विनष्टा भवति, सत्वरक्षणे श्वेतरक्तकणिका असहायाः भवन्ति, उपचारे कृतेऽपि स्वस्थः न भवति ।

निष्कर्षः[सम्पादयतु]

स्वदेशीयाः वैदेशिकाश्च सर्वकाराः अहर्निशं यद्यपि एड्स्-रोगस्य अवरोधविषये चिन्तयन्तः सन्ति तथापि सामाजिकानाम् अपि कर्त्तव्यमिदं यत् यैः कारणैः एड्स्-रोगस्य प्रसारः भवति, तेषां कारणानां निदाने विनाशे च तेऽपि तत्पराः भवेयुः ।

रोगः यदा आवृणोति तदा चर्मणि तस्त संक्रमणम्

भारते विदेशेषु च एड्स्-रोगस्य संक्रमण निरोद्धुं विश्वस्वास्थ्यसंघटनम्, आइचेप, सीडा, केयर इण्टरनेशनल्, वर्ल्ड विजन, नाको (National Aids control organisation, India), राजस्थान एड्स्-रोगस्य-सोसाइटी, रेडक्रास सोसाइटी – प्रभृतयः संस्थाः तत्पराः उत्प्रेरकाश्च सन्ति । अस्माभिरपि सामर्थ्यानुसारं सामाजिकसद्भावः प्रदर्शनीयः । एड्स्-रोगस्य नाशे अस्माभिः कृतसंकल्पैर्भाव्यम् । मिथ्या भ्रमः त्याज्यः । अधस्तनक्रियाभिः आचरणैश्च एच०आई०वी० संक्रमणं न भवति । एड्स्-रोगेण पीडितैः जनैः सह अस्माभिः सौहार्देन भाव्यम्, मित्रवदाचरणीयम् । एड्स्-रोगस्य प्रसारणं निरोद्धव्यम् ।

यद्यपि नाद्यावधि एड्स्-रोगस्य संक्रमणविनाशस्य कृते कापि सुपरीक्षिताः ओषधयः प्रभावकारिण्यः, तथापि विशिष्टाः चिकित्सकाः वैज्ञानिकाः अनुसन्धानकर्त्तारश्च अस्यां दिशायां सततं जागरूकाः दृश्यन्ते । ओषधिप्रयोगैः शरीरे एड्स्-रोगस्य लक्षणदर्शनकाले एव कृता चिकित्सा सफला भवति, किन्तु समये व्यतीते कापि चिकित्सा सफला न भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=एड्स्_रोगः&oldid=408104" इत्यस्माद् पुनः प्राप्तिः