एम्.बि.शङ्करनारायणशास्त्रिकल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

एम्.बि.शङ्करनारायणशास्त्रिकल् महोदयाः संस्कृतसाहित्य-वेदान्त-व्याकरणा-न्याय-ज्योतिषादिशास्त्रेषु निष्णाताः पण्डिताः आसन्। 1881 तमे वर्षे केरळराज्ये पालक्काट् जिल्लाायां मेलार्क्काट् देशे जनिमलभत। तृप्पूणित्तुरा राजकीयसंस्कृतमहाविद्यालयस्य आरम्भादारभ्य 1946 तमे वर्षे सेवानिवृत्तिपर्यन्तं तत्र व्याकरणविभागे प्राध्यापकः आसीत्। व्याकरणविभागाध्यक्षरूपेण तथा रविवर्माग्रन्थावली प्रसाधकरूपेण च संस्कृतमहाविद्यालयस्य उन्नत्यै अश्रान्तपरिश्रमशाली आसीत्।

कोच्चिमहाराजेन परीक्षित्महाभागेन पण्डितराज इति उपाधिं प्रादाय अयमादृतः। (ref)[१]

  1. Dr.N.S.Sharmila, Article entitled M.B.Sankaranarayana Sastrikal Satapurnima, Centenary Souvenir Govt. Sanskrit College, Tripunithura