एस् वी रङ्गण्ण

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


यस्.वि.रङगण्णः (S V Ranganna)। एस्. वी.रङ्गण्णस्य जन्मस्थानं कर्णाटकस्य हासनमण्डलस्य सालगामे ।एषः १८९८ तमे वर्षे डिसेम्बर् मासस्य २४ तमे दिनाङ्के वेङ्कटसुब्बय्यः तथा वेङकटलक्ष्मम्मयोः पुत्ररूपेण जन्म प्राप्तवान् । । रङ्गण्णः१९१९ तमे वर्षे बि.ए पदवीं,१९२१ तमे वर्षे एम्.ए(आङ्ल) पदवीं प्राप्तवान् । १९२३ तमे वर्षे मैसूरुमहाराजमहाविद्यालये आङ्ल-उपन्यासकरूपेण प्रविष्टवान् । अनन्तरं क्रमशः आङ्लविभागस्य मुख्यस्थः जातः। महाराजमहाविद्यालस्य प्रांशुपालः भूत्वा १९५४ तमे वर्षे निवृत्तः जातः। अनेकासां सङ्घसंस्थानां पदाधिकारिरूपेण सेवां कृत्वा आङ्गलसाहित्ये कन्नडसाहित्ये च प्राविण्यतां प्राप्तवान् आसीत् । एषः उत्तमश्रेण्याः विमर्शकः आसीत् । कन्नडभाषायां , आग्ङ्लभाषायां च ग्रन्थरचनाकार्ये बहु परिणितः एषः मैसूरुविश्वविद्यालयस्य आङ्ल –कन्नडनिघण्टोः(शब्द कोशः) परिष्करणस्य योजनायाः प्रधानसम्पादकः आसीत् ।

कन्नडकृतयः[सम्पादयतु]

  • १. कुमारव्यास
  • २. शैली
  • ३. होन्नशूल
  • ४. कालिदासन नाटकगळ विमर्शा ग्रन्थ (कालिदासस्य नाटकानां विमर्शाग्रन्थः)
  • ५. कुमारव्यासवाणि
  • ६. कोल् कोल् कूडि बरलि
  • ७. कविकथामृत
  • ८. विडम्बने
  • ९. हास्य
  • १०. पाश्चात्त्यः गम्भीरनाटकगळु
  • ११हरिश्चन्द्र नाटक
  • १२. हळ्ळिय कथेगळु(ग्रामीणकथाः)
  • १३.कविकथावलि
  • १४. रङ्गय्यन वचनगळु (रङ्गय्यस्य वचनानि)
  • १५. रङगबिन्नप

आङ्ग्लकृतयः[सम्पादयतु]

  • १. बि.एम्.श्रीकण्ठय्य
  • २. ओल्ड् टेल्स् रीटोल्ड्
  • ३. आन् द् सेल्फ्

प्रशस्तयः[सम्पादयतु]

एतस्य "रङगभिन्नप" कृतेः १९६५ तमवर्षस्य केन्द्रसाहित्य- अकाडमीप्रशस्तिः प्राप्ता ।१९७० तमे वर्षे मैसूरु विश्वविद्यानिलयतः डि. लिट् पदवीं दत्त्वा सम्मनितवन्तः। १९७६ तमे वर्षे शिवमोगानगरे प्रचलितस्य ४९ तमस्य अखिलभारतकन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानम् एषः अलङ्कृतवान् आसीत् । एस् .वी.रङ्गण्णः १९८७ तमे वर्षे दिवङ्गतः।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एस्_वी_रङ्गण्ण&oldid=368365" इत्यस्माद् प्रतिप्राप्तम्