ए आर् गोपाल अय्यङ्गार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
ए आर् गोपाल अय्यङ्गार
ए आर् गोपाल अय्यङ्गारस्य् चित्रम्
ए आर् गोपाल अय्यङ्गारस्य् चित्रम्

(कालः – १९०९)

एषः ए. आर्. गोपाल अय्यङ्गारः (A. R. Gopal Iyengar) भारतस्य प्रतिभावान् जीवविज्ञानी । अस्य पूर्णं नाम् ए रामस्वामी अय्यङ्गार गोपाल अय्यङ्गारः इति । एषः ए. आर्. गोपाल् अय्यङ्गारः १९०९ तमे वर्षे भारतदेशस्य कर्णाटकराज्यस्य 'आनेकल्लु’ नामके प्रदेशे जन्म प्राप्नोत् । एषः देशविदेशेषु विभिन्नेषु विभागेषु संशोधकरूपेण, प्राध्यापकरूपेण, शासनाधिकारिरूपेण च कार्यम् अकरोत् । भारतस्य बेङ्गळूरु-केन्द्रीय–महाविद्यालये (Bangalore Central College) १९३३ तः ३८ पर्यन्तं सस्यशास्त्रविभागे प्राध्यापकः आसीत् । अनन्तरं १९३८ तः ३९ पर्यन्तम् एकवर्षं यावत् केनडादेशस्य टोराण्टोनगरे "विन्सेण्ट्म्यासो फेलो” आसीत् । तदनन्तरं १९३९ तः १९४१ पर्यन्तं तत्रैव संशोधन–फेलो आसीत् । एषः ए. आर्. गोपाल अय्यङ्गारः १९४१ तमे वर्षे "डाक्टरेट्” पदवीं प्राप्नोत् । तस्मिन् एव विश्वविद्यालये १९४१ तः १९४५ पर्यन्तं प्राध्यापकरूपेण, संशोधकरूपेण च कार्यम् अकरोत् ।

एषः ए. आर्. गोपाल् अय्यङ्गारः १९४५ तः १९४७ पर्यन्तं सैण्ट्-लूयीस्-नगरे चर्म तथा अर्बुदरोगस्य वैद्यालये संशोधनम् अकरोत् । अनन्तरं १९४७ तः १९५१ पर्यन्तं भारतदेशस्य मुम्बईनगरे विद्यमाने ताता–मेमोरियल्–वैद्यालये मुख्यसंशोधनजीवकोशतज्ञरूपेण आसीत् । तदनन्तरं लण्डन्–नगरे स्थिते चेस्टर्बियाटि–संशोधनकेन्द्रे, रायल्–क्यान्सर्–वैद्यालये, स्वीडन्–देशस्य स्टाक्–होमस्य जीवकोशसंशोधनविभागे, केलोरिस्क्–संस्थायां वंशशास्त्रविभागे च किञ्चित् कालं यावत् कार्यम् अकरोत् । अनन्तरं भारतदेशस्य मुम्बईनगरे विद्यमानस्य परमाणुशक्तिविभागस्य जीवशास्त्रविभागे १९५३ तः १९५५ पर्यन्तं सहनिदेशकः आसीत् । १९६० तः १९६२ पर्यन्तं तत्रैव उपमुख्यविज्ञानाधिकारी, जीवशास्त्रं तथा वैद्यकीयविभागयोः मुख्यविज्ञानाधिकारी अपि आसीत् । अनन्तरं १९६२ तः १९६७ पर्यन्तं ट्राम्बेपरमाणुशक्तिसंस्थायाः जीवशास्त्रविभागस्य निदेशकः आसीत् । अनन्तरं १९७६ पर्यन्तं पश्चिमजर्मनिदेशे हानोवर्–विश्वविद्यालयस्य बयोफिसिक्स्–विभागे प्राध्यापकरूपेण कार्यम् अकरोत् ।

जीवकोशशास्त्रस्य मूलं तथा औचित्यं, जीवकोश-वंशशास्त्रं, जीवकोश–रसायनशास्त्रम्, अर्बुद–संशोधनं, विकिरणजीवशास्त्रं, मनुष्येषु विकिरणानां प्रभावः इत्यादिषु विषयेषु अनेन ए. आर्. गोपाल अय्यङ्गारेण लिखिताः ६० अपेक्षया अधिकाः विद्वत्पूर्णाः लेखाः अन्ताराष्ट्रियस्तरे अपि प्रख्याताः सन्ति । एषः ए. आर्. गोपाल अय्यङ्गारः १९४१ तमे वर्षे टोराण्टोविश्वविद्यालयतः "एलिजबेत् अन्वागर् कोर्बिन्”–पुरस्कारं प्राप्नोत् । १९४८ तमे वर्षे "हेच्. जे. बाबा”–पुरस्कारं, १९६७ तमे वर्षे "पद्मश्रीः”–पुरस्कारं, १९६८–७१ तमे वर्षे बाबापरमाणुसंशोधनकेन्द्रतः "प्रतिभान्वित"–पुरस्कारं, १९७० तमे वर्षे मैसूरु–विश्वविद्यालयतः "गौरव डि. एस्सि”, १९७२ तमे वर्षे टोराण्टोविश्वविद्यालयतः "गौरव डि. एस्सि” च प्राप्तवान् आसीत् ।


एषः ए. आर्. गोपाल अय्यङ्गारः भारतीयविज्ञान–अकादम्याः (Indian Academy of Sciences), भारतीय–राष्ट्रिय–विज्ञान-अकादम्याः (Indian National Science Academy), फैकोलाजिकल् सोसैट्याः (Ficological Society) च "फेलो” आसीत् । अमेरिकीयजीवकोशशास्त्र–असोसियेषनस्य (American Association For cellbiology) सदस्यः अपि आसीत् । कोशकेन्द्रवैद्यकीय–सोसैट्याः (Society of Nuclier Medicene) गौरवपोषकः आसीत् । International Union for pure and Applied biophysics इत्यस्य अपि सदस्यः आसीत् । अयम् ए. आर्. गोपाल अय्यङ्गारः १९५६ तः "युनैटेदड् नेषन्स् सैण्टिफिक् कमिटि आन् दि एफेक्ट् आफ् अटामिक् रेडियन्स्” (United Nations Scientific Committee on the Effect of Automic Radians) इत्यस्य भारतस्य प्रतिनिधिः अपि आसीत् ।

""